वांछित मन्त्र चुनें
आर्चिक को चुनें

म꣣ह꣡त्तत्सोमो꣢꣯ महि꣣ष꣡श्च꣢कारा꣣पां꣡ यद्गर्भोऽवृ꣢꣯णीत दे꣣वा꣢न् । अ꣡द꣢धा꣣दि꣢न्द्रे꣣ प꣡व꣢मान꣣ ओ꣡जोऽज꣢꣯नय꣣त्सू꣢र्ये꣣ ज्यो꣢ति꣣रि꣡न्दुः꣢ ॥५४२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् । अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥५४२॥

मन्त्र उच्चारण
पद पाठ

म꣣ह꣢त् । तत् । सो꣡मः꣢꣯ । म꣣हिषः꣢ । च꣣कार । अ꣣पा꣢म् । यत् । ग꣡र्भः꣢꣯ । अ꣡वृ꣢꣯णीत । दे꣣वा꣢न् । अ꣡द꣢꣯धात् । इ꣡न्द्रे꣢꣯ । प꣡व꣢꣯मानः । ओ꣡जः꣢꣯ । अ꣡ज꣢꣯नयत् । सू꣡र्ये꣢꣯ । ज्यो꣡तिः꣢꣯ । इ꣡न्दुः꣢꣯ ॥५४२॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 542 | (कौथोम) 6 » 1 » 5 » 10 | (रानायाणीय) 5 » 7 » 10


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में सोम परमात्मा का महान् कर्म वर्णित है।

पदार्थान्वयभाषाः -

(महिषः) महान् (सोमः) सोम ओषधि के समान रस का भण्डार, चन्द्रमा के समान आह्लादक तथा प्रेरक परमेश्वर (तत्) उस प्रसिद्ध (महत्) महान् कर्म को (चकार) करता है (यत्) कि (अपां गर्भः) सबके प्राणों में गर्भ के समान अन्तर्यामी वह (देवान्) मन सहित सब आँख, कान आदि इन्द्रियों को (अवृणीत) रक्ष्य रूप में वरण करता है। (पवमानः) पवित्र करनेवाला वह (इन्द्रे) जीवात्मा तथा विद्युत् में (ओजः) पवित्रता को वा बल को (अदधात्) स्थापित करता है। (इन्दुः) प्रकाशमय वह (सूर्ये) सूर्य में (ज्योतिः) ज्योति को (अदधात्) स्थापित करता है, अथवा (सूर्ये) शरीरस्थ आँख में (ज्योतिः) दर्शनशक्ति को (अदधात्) स्थापित करता है ॥१०॥ इस मन्त्र में ‘इन्दु’ का प्रसिद्ध अर्थ चन्द्रमा लेने पर ‘चन्द्रमा सूर्य में ज्योति उत्पन्न करता है’ यह विरोध आभासित होता है, क्योंकि सूर्य चन्द्रमा को ज्योति देता है, न कि चन्द्रमा सूर्य को। ‘इन्दु’ का यौगिक अर्थ ग्रहण करने पर उस विरोध का समाधान हो जाता है। ‘अपि’ शब्द न होने से यहाँ विरोधाभास अलङ्कार व्यङ्ग्य है ॥१०॥

भावार्थभाषाः -

शरीर के अन्दर मन, चक्षु, श्रोत्र आदि में और बाह्य जगत् में सूर्य, चन्द्र, विद्युत्, बादल आदि में जो शक्ति या ज्योति है, वह सब परमात्मा की ही दी हुई है ॥१०॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ सोमस्य परमात्मनः महत् कर्म वर्ण्यते।

पदार्थान्वयभाषाः -

(महिषः) महान्। महिषः इति महन्नाम। निघं० ३।३ (सोमः२) सोमौषधिवद् रसागारः, चन्द्रवदाह्लादकः प्रेरकश्च परमेश्वरः (तत्) प्रसिद्धम् अग्रे निर्दिश्यमानम् (महत्) महिमान्वितं कर्म (चकार) करोति, (यद् अपां गर्भः) सर्वेषां प्राणेषु गर्भवद् विद्यमानः सः। प्राणा वा आपः (तै० ३।२।५।२)। (देवान्) मनःसहितानि सर्वाणि चक्षुःश्रोत्रादीनि इन्द्रियाणि (अवृणीत) रक्ष्यत्वेन स्वीकरोति। (पवमानः) पवित्रतासंपादकः सः (इन्द्रे) जीवात्मनि विद्युति वा (ओजः) पवित्रतां बलं वा (अदधात्) स्थापयति। (इन्दुः) दीप्तिमयः प्रकाशमयः सः (सूर्ये) आदित्ये (ज्योतिः) प्रकाशम् (अदधात्) दधाति, यद्वा (सूर्ये) शरीरस्थे चक्षुषि। आदित्यश्चक्षुर्भूत्वा अक्षिणी प्राविशत् इति स्मरणात्। ऐ० उ० २।४। (ज्योतिः) दर्शनशक्तिम् (अदधात्) स्थापयति ॥१०॥ एष मन्त्रो यास्काचार्येण निरुक्ते १४।१७ इत्यत्र व्याख्यातः। अत्र इन्दुशब्दस्य प्रसिद्धे चन्द्रार्थे गृहीते ‘इन्दुः चन्द्रः अपि सूर्ये ज्योतिः अजनयत्’ इति विरोधे सूर्यश्चन्द्रे ज्योतिर्जनयति, न तु चन्द्रः सूर्ये इत्यतः। स च विरोधः इन्दुशब्दस्य योगार्थग्रहणेन समाधीयते, विरोधवाचकस्य अपिशब्दस्याभावाद् विरोधाभासो व्यङ्ग्यः ॥१०॥

भावार्थभाषाः -

शरीराभ्यन्तरे मनश्चक्षुःश्रोत्रादौ, बाह्यजगति च सूर्यचन्द्रविद्युत्पर्जन्यादौ यत् सामर्थ्यं ज्योतिर्वा विद्यते तत्तत्सर्वं परमात्मनैव प्रदत्तमस्ति ॥१०॥

टिप्पणी: १. ऋ० ९।९७।४१, साम० १२५५। २. अधिदैवतपक्षे महत् सोमः आदित्यः। महिषः पूजनीयः महत्त्वात्। ज्योतिरिन्दुः आदित्यः। अध्यात्मम्—सोमः अहो महदसंभाव्यं तत्कर्म। महिषः पूजनीयः। अपां यद् गर्भः दर्शनमात्रम्। पञ्चानां भूतानां गर्भः अधिष्ठानं भूत्वा। अवृणीत अधिष्ठितवान्। देवान् इन्द्रियाणि। अवृणीत शरीरमध्ये तिष्ठतीति कृत्वा। अदधादिन्द्रे आत्मनि ईश्वरे, पवमानः पूयमानः विषयप्रमाणेन। ओजः बलम् अणिमादि। अजनयच्च सूर्ये ज्योतिः। तथा चोक्तम्—‘येन सूर्यस्तपति तेज इन्द्रः’—इति वि०।