वांछित मन्त्र चुनें
आर्चिक को चुनें

प्र꣢ ते꣣ धा꣢रा꣣ म꣡धु꣢मतीरसृग्र꣣न्वा꣢रं꣣ य꣢त्पू꣣तो꣢ अ꣣त्ये꣡ष्यव्य꣢꣯म् । प꣡व꣢मान꣣ प꣡व꣢से꣣ धा꣡म꣢ गो꣡नां꣢ ज꣣न꣢य꣣न्त्सू꣡र्य꣢मपिन्वो अ꣣र्कैः꣢ ॥५३४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्र ते धारा मधुमतीरसृग्रन्वारं यत्पूतो अत्येष्यव्यम् । पवमान पवसे धाम गोनां जनयन्त्सूर्यमपिन्वो अर्कैः ॥५३४॥

मन्त्र उच्चारण
पद पाठ

प्र꣢ । ते꣣ । धा꣡राः꣢꣯ । म꣡धु꣢꣯मतीः । अ꣣सृग्रन् । वा꣡र꣢꣯म् । यत् । पू꣣तः꣢ । अ꣣त्ये꣡षि꣢ । अ꣣ति । ए꣡षि꣢꣯ । अ꣡व्य꣢꣯म् । प꣡व꣢꣯मान । प꣡व꣢꣯से । धा꣡म꣢꣯ । गो꣡ना꣢꣯म् । ज꣣न꣡य꣢न् । सू꣡र्य꣢꣯म् । अ꣣पिन्वः । अर्कैः꣢ ॥५३४॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 534 | (कौथोम) 6 » 1 » 5 » 2 | (रानायाणीय) 5 » 7 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पवमान सोम का कार्य वर्णित किया गया है।

पदार्थान्वयभाषाः -

हे सोम ! हे रसमय परमात्मन् ! (ते) तेरी (मधुमतीः) मधुर (धाराः) धाराएँ (प्र असृग्रन्) प्रवाहित होती हैं, (यत्) जब (पूतः) पवित्र तू (अव्यम्) पार्थिव अर्थात् अन्नमय (वारम्) कोश को (अत्येषि) अतिक्रान्त करता है अर्थात् अन्नमयकोश को पार कर क्रमशः प्राणमय, मनोमय तथा विज्ञानमयकोश को भी पार करता हुआ जब तू आनन्दमयकोश में अधिष्ठित हो जाता है तब तेरी मधुर आनन्दधाराएँ शरीर, प्राण, मन और आत्मा में प्रवाहित होने लगती हैं। हे (पवमान) पवित्रकारी जगदीश्वर ! तू (गोनाम्) पृथिव्यादि लोकों के तुल्य इन्द्रिय, प्राण, मन, बुद्धि, आत्मा के (धाम) धाम को (पवसे) पवित्र करता है और (सूर्यम्) आकाशवर्ती सूर्य के समान अध्यात्मप्रकाश के सूर्य को (जनयन्) उत्पन्न करता हुआ, उसकी (अर्कैः) किरणों से (अपिन्वः) उपासक के आत्मा को सींचता है, अर्थात् उपासक के आत्मा को अध्यात्मसूर्य की किरणों से अतिशय भरकर शान्ति प्रदान करता है ॥२॥

भावार्थभाषाः -

जैसे सोमरस जब भेड़ों के बालों से निर्मित दशापवित्र में से पार होता है तब उसकी मधुर धाराएँ द्रोणकलश की ओर बहती हैं, वैसे ही जब परमेश्वर अन्नमय आदि कोशों को पार कर आनन्दमयकोश में अधिष्ठित हो जाता है, तब उसकी मधुर आनन्दधाराएँ शरीर, प्राण, मन, बुद्धि और आत्मा के धामों को आप्लावित कर देती हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पवमानस्य सोमस्य कृत्यं वर्णयति।

पदार्थान्वयभाषाः -

हे सोम ! रसमय परमात्मन् ! (ते) तव (मधुमतीः) मधुराः (धाराः) प्रवाहसन्ततयः (प्र असृग्रन्) प्रसृष्टाः भवन्ति। अत्र सृज विसर्गे धातोर्लडर्थे लङि ‘बहुलं छन्दसि’ अ० ७।१।८ इति रुडागमः वर्णव्यत्ययेन जकारस्थाने गकारश्च। (यत्) यदा (पूतः) पवित्रः त्वम् (अव्यम्) पार्थिवम्, अन्नमयमित्यर्थः। इयं पृथिवी वा अविः। श० ६।१।२।३३। (वारम्) कोशम्। वारयति आवृणोतीति वारः कोशः, वृञ् आवरणे चुरादिः। (अत्येषि) अतिक्रामसि, अन्नमयकोशमतिक्रम्य क्रमेण प्राणमयं, मनोमयं, विज्ञानमयम् चापि कोशमतिक्राम्यन् आनन्दमयं कोशं यदाधितिष्ठसि, तदा ते मधुरा आनन्दधाराः शरीरे, प्राणे, मनसि, आत्मनि च प्रवहन्तीत्यर्थः। हे (पवमान) पावित्र्यसम्पादक जगदीश्वर ! त्वम् (गोनाम्) गवां पृथिव्यादिलोकानामिव इन्द्रियप्राणमनोबुद्ध्यात्मनाम् (धाम) स्थानम् (पवसे) पुनासि। पूङ् पवने, भ्वादिः। किञ्च (सूर्यम्२) गगनवर्तिनम् आदित्यमिव अध्यात्मप्रकाशस्य सूर्यम् (जनयन्) उत्पादयन्, तस्य (अर्कैः) किरणैः। सूर्यवाचकाः शब्दाः बहुवचने प्रयुक्ताः किरणार्थं गमयन्ति। (अपिन्वः) उपासकस्य आत्मानं सिञ्चसि। पिवि सेचने, लडर्थे लङ्। अत्र किरणैः सेचनासंभवात् पूरणार्थो लक्ष्यते, शान्तिप्रदत्वं च व्यङ्ग्यम्, उपासकस्यात्मानमध्यात्मसूर्यस्य किरणैर्निरतिशयं प्रपूर्य शान्तिं प्रयच्छसीत्यर्थः ॥२॥

भावार्थभाषाः -

यथा यदा सोमरसः अविबालमयं दशापवित्रम् अतिक्रामति तदा तस्य मधुरा धारा द्रोणकलशं प्रति प्रवहन्ति, तथैव यदा परमेश्वरोऽन्नमयादिकोशानतिक्रम्यानन्दमयकोशमधितिष्ठति तदा तस्य मधुरा आनन्दधाराः शरीरस्य प्राणमनोबुद्ध्यात्मधामान्याप्लावयन्ति ॥२॥

टिप्पणी: १. ऋ० ९।९७।३१ ‘वारान् यत्पूतो अत्येष्यव्यान्’ इति ‘जज्ञानः सूर्यमपिन्वो अर्कैः’ इति च पाठः। २. यद्यप्यस्य मन्त्रस्य सोमौषधिपरोऽप्यर्थः संभवति, तथापि मन्त्रेषु यत्र तत्र कानिचिदेवंविधानि पदानि वाक्यांशा वाक्यानि वा समागच्छन्ति यानि सूचयन्ति यन्मन्त्रः स्थूलार्थ एव न पर्यवस्यति। यथाप्रस्तुते मन्त्रे ‘जनयन् सूर्यम्’ इति वाक्यांशः परमात्मपरमर्थं सङ्केतयति, यत ओषध्यात्मके सोमे सूर्यजननसामर्थ्यं नास्ति। सायणस्तु ‘जनयन् जायमानः’ इत्यसंभाविनमर्थमाविष्करोति, परं तथा कृतेऽप्यसंगतिस्तदवस्थैव, यतः ‘जनयन् जायमानस्त्वम् अर्कैः स्वतेजोभिः सूर्यम् आदित्यम् अपिन्वः पूरयसि’ इति तदीयोऽप्यर्थः सोमौषधिपक्षे न संगच्छते।