वांछित मन्त्र चुनें
आर्चिक को चुनें

ति꣣स्रो꣡ वाच꣢꣯ ईरयति꣣ प्र꣡ वह्नि꣢꣯रृ꣣त꣡स्य꣢ धी꣣तिं꣡ ब्रह्म꣢꣯णो मनी꣣षा꣢म् । गा꣡वो꣢ यन्ति꣣ गो꣡प꣢तिं पृ꣣च्छ꣡मा꣢नाः꣣ सो꣡मं꣢ यन्ति म꣣त꣡यो꣢ वावशा꣣नाः꣢ ॥५२५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् । गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥५२५॥

मन्त्र उच्चारण
पद पाठ

ति꣣स्रः꣢ । वा꣡चः꣢꣯ । ई꣣रयति । प्र꣢ । व꣡ह्निः꣢꣯ । ऋ꣣त꣡स्य꣢ । धी꣣ति꣢म् । ब्र꣡ह्म꣢꣯णः । म꣣नीषा꣢म् । गा꣡वः꣢꣯ । य꣣न्ति । गो꣡प꣢꣯तिम् । गो । प꣣तिम् । पृच्छ꣡मा꣢नाः । सो꣡म꣢꣯म् । य꣣न्ति । मत꣡यः꣢ । वा꣣वशानाः꣢ ॥५२५॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 525 | (कौथोम) 6 » 1 » 4 » 3 | (रानायाणीय) 5 » 6 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में सोम नाम से परमात्मा, जीवात्मा और आचार्य का वर्णन है।

पदार्थान्वयभाषाः -

प्रथम—परमात्मा के पक्ष में। (वह्निः) जगत् का वहनकर्ता सोम परमेश्वर (तिस्रः वाचः) ऋग्, यजुः, साम रूप तीन वाणियों का (प्र ईरयति) प्रजाओं के कल्याणार्थ उपदेश करता है। वही (ऋतस्य) सत्यमय यज्ञ के (धीतिम्) धारण की और (ब्रह्मणः) ज्ञान के (मनीषाम्) मनन की (प्र ईरयति) प्रेरणा करता है। (गावः) पृथिवी आदि लोक अथवा सूर्यकिरण (गोपतिम्) अपने स्वामी के विषय में (पृच्छमानाः) मानो पूछते हुए (यन्ति) चले जा रहे हैं—अर्थात् मानो यह पूछ रहे हैं कि कौन हमारा स्वामी है, जो हमें सञ्चालित करता है। इसी प्रकार (मतयः) मेरी स्तुतियाँ (वावशानाः) अतिशय पुनः-पुनः चाह रखती हुई (सोमम्) रसागार परमात्मा को (यन्ति) प्राप्त हो रही हैं ॥ द्वितीय—जीवात्मा के पक्ष में। (वह्निः) शरीर का वहनकर्ता जीवात्मा (तिस्रः वाचः) ज्ञानरूप में, विचाररूप में तथा जिह्वा के कण्ठ तालु आदि के संयोग से जन्य शब्दरूप में विद्यमान त्रिविध वाणियों को (प्र ईरयति) प्रकट करता है। वही (ऋतस्य) सत्य के (धीतिम्) धारण को और (ब्रह्मणः)उपार्जित ज्ञान के (मनीषाम्) मनन को करता है। (गावः) मन-सहित पाँचों ज्ञानेन्द्रियाँ (पृच्छमानाः) मानो कर्तव्याकर्तव्य को पूछती हुई (गोपतिम्) इन्द्रियों के स्वामी आत्मा के पास (यन्ति) पहुँचती हैं। (मतयः) मेरी बुद्धियाँ (वावशानाः) निश्चय में साधन बनना चाहती हुई (सोमम्) ज्ञाता आत्मा के पास (यन्ति) पहुँच रही हैं ॥ तृतीय—आचार्य के पक्ष में। (वह्निः) ज्ञान का वाहक आचार्य, शिष्य के लिए (तिस्रः वाचः) त्रिविध ज्ञान-कर्म-उपासना की प्रतिपादक अथवा सत्त्व-रजस्-तमस् की प्रतिपादक, अथवा सृष्टि-स्थिति-प्रलय की प्रतिपादक, अथवा जाग्रत्-स्वप्न-सुषुप्ति की प्रतिपादक, अथवा धर्म-अर्थ-काम की प्रतिपादक वाणियों का (प्र ईरयति) उच्चारण करता है। वही (ऋतस्य) सत्य के (धीतिम्) धारण को और (ब्रह्मणः) ब्रह्म की अथवा मोक्ष की (मनीषाम्) प्रज्ञा को (प्र ईरयति) देता है। (गावः) मेरी वाणियाँ (पृच्छमानाः) ब्रह्मविद्याविषयक प्रश्न पूछती हुई (गोपतिम्) वाचस्पति आचार्य को (यन्ति) प्राप्त होती हैं। (मतयः) मेरी बुद्धियाँ (वावशानाः) ज्ञानोद्घाटन को चाहती हुई (सोमम्) ज्ञानरस के आगार, सौम्य आचार्य को (यन्ति) प्राप्त होती हैं ॥३॥ इस मन्त्र में श्लेष अलङ्कार है। प्रथम दो पक्षों में ‘गावो यन्ति गोपतिं पृच्छमानाः’ में व्यङ्ग्योत्प्रेक्षा है ॥३॥

भावार्थभाषाः -

वाणियों के प्रेरक, सत्य वा यज्ञ को धारण करानेवाले, ज्ञान के प्रदाता और मन-बुद्धि आदियों के संस्कर्ता परमेश्वर, जीवात्मा तथा गुरु का सदा सेवन एवं सत्कार करना चाहिए ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ सोमनाम्ना परमात्मानं जीवात्मानमाचार्यं च वर्णयति।

पदार्थान्वयभाषाः -

प्रथमः—परमात्मपरः। (वह्निः) जगतो वोढा सोमः परमेश्वरः (तिस्रः वाचः) ऋग्यजुःसामरूपाः तिस्रो वाणीः। तेषामृग् यत्रार्थवशेन पादव्यवस्था, गीतिषु सामाख्या, शेषे यजुःशब्दः। जै० सू० २।१।३५-३७। (प्र ईरयति) प्रजानां कल्याणाय उपदिशति, स एव (ऋतस्य) सत्यमयस्य यज्ञस्य। ऋतस्य योगे यज्ञस्य योगे। निरु० ६।२२ इति निरुक्तप्रामाण्याद् ऋतं यज्ञः। (धीतिम्) धारणम्, (ब्रह्मणः) ज्ञानस्य (मनीषाम्) मननं च, प्र ईरयति उपदिशति। (गावः) पृथिव्यादयो लोकाः सूर्यकिरणाः वा (गोपतिम्) निजस्वामिनम् (पृच्छमानाः) पृच्छन्त्यः इव (यन्ति) गच्छन्ति— क्वाऽस्माकमधिपतिर्योऽस्मान् सञ्चालयतीति ज्ञीप्समाना इव पर्यटन्तीत्यर्थः। तथैव (मतयः) मम स्तुतयः (वावशानाः) अतिशयेन पुनः-पुनः कामयमानाः। वश कान्तौ यङ्-लुगन्तात् शानच्। (सोमम्) रसागारं परमात्मानम् (यन्ति) प्राप्नुवन्ति ॥ अथ द्वितीयः—जीवात्मपरः। (वह्निः) शरीरस्य वोढा जीवात्मा (तिस्रः वाचः) ज्ञानरूपे, विचाररूपे, जिह्वायाः कण्ठताल्वादिसंयोगजन्यशब्दरूपे च विद्यमानाः त्रिविधाः वाणीः (प्र ईरयति) प्रकटयति। स एव (ऋतस्य) सत्यस्य (धीतिम्) धारणम्, (ब्रह्मणः) उपार्जितज्ञानस्य (मनीषाम्) मननं च करोति। (गावः) मनःसहितानि पञ्चज्ञानेन्द्रियाणि (पृच्छमानाः) कर्तव्याकर्तव्यं पृच्छन्त्यः इव (गोपतिम्) इन्द्रियाणां स्वामिनम् आत्मानम् (यन्ति) उपगच्छन्ति। (मतयः) मदीयाः बुद्धयः (वावशानाः) अध्यवसायात्मके ज्ञाने साधनीभवितुं कामयमानाः इव (सोमम्) ज्ञातारम् आत्मानम् (यन्ति) उपगच्छन्ति ॥ अथ तृतीयः—आचार्यपरः। (वह्निः) ज्ञानस्य वाहकः सौम्यः आचार्यः, शिष्याय (तिस्रः वाचः) ज्ञानकर्मोपासनाकाण्डप्रतिपादिकाः, सत्त्वरजस्तमःप्रतिपादिकाः, सृष्ट्युत्पत्तिस्थितिप्रलयप्रतिपादिकाः, जाग्रत्स्वप्नसुषुप्तिप्रतिपादिकाः, धर्मार्थकामप्रतिपादिकाः वा तिस्रो वाणीः (प्र ईरयति) प्रोच्चारयति। स एव (ऋतस्य) सत्यस्य (धीतिम्) धारणम्, (ब्रह्मणः) परमेश्वरस्य मोक्षस्य वा (मनीषाम्) प्रज्ञाम् च (प्र ईरयति) प्रयच्छति। (गावः) मदीयाः वाचः (पृच्छमानाः) ब्रह्मविद्याविषयकान् प्रश्नान् कुर्वाणाः (गोपतिम्) वाचस्पतिम् आचार्यम् (यन्ति) प्राप्नुवन्ति। (मतयः) मदीयाः बुद्धयः (वावशानाः) ज्ञानोद्घाटनं कामयमानाः (सोमम्) ज्ञानरसागारं सौम्यम् आचार्यम् (यन्ति) प्राप्नुवन्ति ॥३॥२ यास्काचार्य ऋचमिमामेवं व्याख्यातवान्—“वह्निरादित्यो भवति, स तिस्रो वाचः प्रेरयति ऋचो यजूंषि सामानि। एतस्यादित्यस्य कर्माणि ब्रह्मणो मतानि। एष एवैतत् सर्वमक्षरमित्यधिदैवतम्। अथाध्यात्मम् वह्निरात्मा भवति, स तिस्रो वाच ईरयति प्रेरयति विद्यामतिबुद्धिमतानि ऋतस्य आत्मनः कर्माणि ब्रह्मणो मतानि, अयमेवैतत् सर्वमनुभवतीत्यात्मगतिमाचष्टे” इति (निरु० १४।१४)। अत्र श्लेषालङ्कारः। आद्यपक्षद्वये ‘गावो यन्ति गोपतिं पृच्छमानाः’ इत्यत्र व्यङ्ग्योत्प्रेक्षा च ॥३॥

भावार्थभाषाः -

वाचां प्रेरकः, सत्यस्य यज्ञस्य वा धापयिता, ज्ञानस्य प्रदाता, मनोबुद्ध्यादीनां संस्कर्ता च परमेश्वरो जीवात्मा गुरुश्च सदा सेवनीयः सत्कर्तव्यश्च ॥३॥

टिप्पणी: १. ऋ० ९।९७।३४, साम० ८५९। २. अस्या ऋचो व्याख्याने विवरणकृन्माधव एवमाह—“तिस्रो वाचः ऋग्यजुःसामानि। वह्निः वोढा सोमः। ऋतस्य धीतिं कर्म। ब्रह्मणो मनीषां मन्त्राणि वेदोक्तानि प्रेरयति। गोपतिं यजमानम् ॥ यद्यपि पावमानीषु सोमं मुक्त्वा अन्या देवता न सम्भवन्ति तथाप्यष्टादशे व्याख्यातेति कृत्वा तेनापि आत्मानुस्मरणार्थमालिख्यते। तिस्रो वाचः ऋग्यजुःसामानि। अथवा तिस्रो वाचः सत्त्वरजस्तमांसि। अथवा जाग्रत्स्वप्नसुषुप्तिवृत्तयः। ईरयति प्रेरयति। उदकं रश्मींश्च वहतीति वह्निरादित्यः। ऋतस्य आदित्यस्य धीतिम् अथवा ऋतस्य सत्यस्य ब्रह्मणः, अथवा ऋतस्य अन्नस्य धीतिं यज्ञस्य वा आदित्यस्य वा।.... एतमेव गोपतिं रश्मिस्वामिनं वा पृच्छन्त इव सोमं यन्ति। पृथिवीं वसानाः सर्वोपकाराय सोमम् आदित्यं, मतयः।....रश्मयः वावशाना आदित्यं यन्ति प्रविशन्ति। अध्यात्मं वा—वह्निरात्मा भवति, वश्यादिगुणसंयोगात्। स तिस्रो वाचः प्रेरयति विद्याबुद्धिमनांसि। विद्या महान्, बुद्धिरहङ्कारो मन इति प्राधान्याद् भूतेन्द्रियाणि। ऋतस्य आत्मनः। गावः यन्ति आत्मानम् इन्द्रियाणां स्वामिनं पृच्छमानाः आत्मानम्। तदभिप्रायेण शब्दाद्यनुगमात्। एतमेवात्मानं सोमं कामयमाना इव यन्ति मतयः तदर्थं प्रादुर्भवन्ति” इति। अथ भरतः—“तिस्रः त्रिविधाः मन्द्रमध्यमोत्तमाः। वह्निः वोढा यज्ञस्य। ऋतस्य यज्ञस्य। धीतिं विधानम् अनुष्ठानं च प्रेरयति। सोमे अभिषुते कर्माणि प्रवर्त्यन्ते। ब्रह्मणः ब्राह्मणानाम्। मनीषां स्तुतिं च प्रेरयति। सामान्यवाची ब्रह्मशब्दः नपुंसकलिङ्गः। गावः यन्ति अभिगच्छन्ति गोपतिं सोमम् पृच्छमाना अन्विच्छन्त्यः। सोमं यन्ति मतयः स्तुतयः। वावशानाः कामयमानाः” इति। अथ सायणः—“वह्निः वोढा यजमानः तिस्रो वाचः ऋग्यजुःसामात्मिकाः स्तुतीः प्रेरयति। तथा ऋतस्य यज्ञस्य धीतिं धारयित्रीं ब्रह्मणः परिवृढस्य सोमस्य मनीषां मनस ईशित्रीं कल्याणवाचं च प्रेरयति। किञ्च गोपतिं वृषभं यथा गावोऽभिगच्छन्ति तद्वत् गवां स्वामिनं सोमं गावः पृच्छमानाः पृच्छन्त्यः सत्यो यन्ति स्वपयसा आश्रयितुमभिगच्छन्ति, तथा वावशानाः कामयमानाः मतयः स्तोतारः सोमं यन्ति स्तोतुमभिगच्छन्ति” इति।