वांछित मन्त्र चुनें
आर्चिक को चुनें

प्र꣡ न꣢ इन्दो म꣣हे꣡ तु न꣢꣯ ऊ꣣र्मिं꣡ न बिभ्र꣢꣯दर्षसि । अ꣣भि꣢ दे꣣वा꣢ꣳ अ꣣या꣡स्यः꣢ ॥५०९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्र न इन्दो महे तु न ऊर्मिं न बिभ्रदर्षसि । अभि देवाꣳ अयास्यः ॥५०९॥

मन्त्र उच्चारण
पद पाठ

प्र꣢ । नः꣣ । इन्दो । महे꣢ । तु । नः꣣ । ऊर्मि꣢म् । न । बि꣡भ्र꣢꣯त् । अ꣣र्षसि । अभि꣢ । दे꣣वा꣢न् । अ꣣या꣡स्यः꣢ ॥५०९॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 509 | (कौथोम) 6 » 1 » 2 » 13 | (रानायाणीय) 5 » 4 » 13


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में सोम परमात्मा का आह्वान किया गया है।

पदार्थान्वयभाषाः -

हे (इन्दो) आनन्द-रस से आर्द्र करनेवाले रस के सागर परमात्मन् ! (अयास्यः) प्राणप्रिय तू (ऊर्मिं न) मानो लहर को (बिभ्रत्) धारण करता हुआ (नः) हमारी (महे) वृद्धि के लिए (तु) शीघ्र ही (देवान् नः अभि) हम विद्वान् उपासकों को लक्ष्य करके (अर्षसि) प्राप्त हो ॥१३॥ इस मन्त्र में ‘ऊर्मिं न बिभ्रत्’ में उत्प्रेक्षालङ्कार है ॥१३॥

भावार्थभाषाः -

उपासना किया गया प्राणप्रिय परमेश्वर अपने प्यारे उपासक को मानो आनन्द की तरङ्गों से आप्लावित कर देता है ॥१३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ सोमं परमात्मानमाह्वयति।

पदार्थान्वयभाषाः -

हे (इन्दो) आनन्दरसेन क्लेदयितः रससागर परमात्मन्। (अयास्यः२) प्राणप्रियः त्वम्। स प्राणो वा अयास्यः। जै० उ० ब्रा० २।८।८। (ऊर्मिं न) तरङ्गमिव (बिभ्रत्) धारयन् (नः) अस्माकम् (महे) वृद्ध्यै (तु३) क्षिप्रम् (देवान् नः अभि) विदुषः अस्मान् उपासकान् अभिलक्ष्य (अर्षसि) प्राप्नुहि। गत्यर्थाद् ऋषतेर्लेटि रूपम् ॥१३॥ ‘ऊर्मिं न बिभ्रत्’ इत्यत्रोत्प्रेक्षालङ्कारः ॥१३॥

भावार्थभाषाः -

उपासितः प्राणप्रियः परमेश्वरः प्रियमुपासकमानन्दतरङ्गैरिव संप्लावयति ॥१३॥

टिप्पणी: १. ऋ० ९।४४।१ ‘प्र ण इन्दो महे तने’ इति प्रथमः पादः। २. माधवसायणौ ‘अयास्य’ इति ऋषेर्नाम मत्वा व्याचक्षाते। अयास्यः गमनशील इति वा उपगन्तव्य इति वा—इति भरतः। ३. भरतस्वामिसायणौ ‘तुन’ इति संयुक्तं पाठं मत्वा ‘तुने धनाय’ इति व्याचक्षाते। तत्तु पदकारविरुद्धम्, पदपाठे ‘तु नः’ इति विभज्य दर्शनात्।