प्र꣢꣫ यद्गावो꣣ न꣡ भूर्ण꣢꣯यस्त्वे꣣षा꣢ अ꣣या꣢सो꣣ अ꣡क्र꣢मुः । घ्न꣡न्तः꣢ कृ꣣ष्णा꣢꣫मप꣣ त्व꣡च꣢म् ॥४९१॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः । घ्नन्तः कृष्णामप त्वचम् ॥४९१॥
प्र꣢ । यत् । गा꣡वः꣢꣯ । न । भू꣡र्ण꣢꣯यः । त्वे꣣षाः꣢ । अ꣣या꣡सः꣢ । अ꣡क्र꣢꣯मुः । घ्न꣡न्तः꣢꣯ । कृ꣣ष्ण꣢म् । अ꣡प꣢꣯ । त्व꣡च꣢꣯म् । ॥४९१॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र में यह वर्णन है कि परमात्मा से प्राप्त आनन्द-रस क्या करते हैं।
(यत्) जब (गावः न) सूर्य-किरणों के समान (भूर्णयः) धारण-पोषण करनेवाले, (त्वेषाः) दीप्तिमान्, (अयासः) क्रियाशील आनन्द-रस रूपी सोम (प्र अक्रमुः) पराक्रम दिखाते हैं, तब (त्वचम्) आवरण डालनेवाली (कृष्णाम्) तमोगुण की काली रात्रि को (ध्नन्तः) नष्ट कर देते हैं ॥५॥ इस मन्त्र में उपमालङ्कार है ॥५॥
ब्रह्मानन्द-रूप रसों का जब योगी जन पान कर लेते हैं, तब सभी मोह-निशाएँ उनके मार्ग से हट जाती हैं ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ परमात्मनः प्राप्ता आनन्दरसाः किं कुर्वन्तीत्याह।
(यत्) यदा (गावः न) सूर्यकिरणाः इव (भूर्णयः) धारणपोषणकराः। डुभृञ् धारणपोषणयोः। बिभर्तीति भूर्णिः, ‘घृणिपृश्निपार्ष्णिचूर्णिभूर्णयः।’ उ० ४।५३ इति निः प्रत्ययः। धातोरूत्वम्। (त्वेषाः) दीप्ताः। त्विष दीप्तौ, भ्वादिः। (अयासः) गमनशीलाः सोमाः आनन्दरसाः। अयन्ते गच्छन्तीति अयाः, जसोऽसुगागमः। (प्र अक्रमुः) पराक्रमन्ते, तदा (त्वचम्) संवरणकरीम्। त्वच संवरणे, तुदादिः। (कृष्णाम्) तमोगुणमयीं रात्रिम्। ‘कृष्णा कृष्णवर्णा रात्रिः’ इति निरुक्तम् २।२०। (घ्नन्तः) ध्वसंयन्तो, भवन्तीति शेषः ॥५॥ अत्रोपमालङ्कारः ॥५॥
ब्रह्मानन्दरसान् यदा योगिनो जनाः पिबन्ति तदा सर्वा अपि मोहनिशास्तेषां मार्गादपयन्ति ॥५॥