वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣ग्नि꣡ꣳ होता꣢꣯रं मन्ये꣣ दा꣡स्व꣢न्तं꣣ व꣡सोः꣢ सू꣣नु꣡ꣳ सह꣢꣯सो जा꣣त꣡वे꣢दसं꣣ वि꣢प्रं꣣ न꣢ जा꣣त꣡वे꣢दसम् । य꣢ ऊ꣣र्ध्व꣡या꣢ स्वध्व꣣रो꣢ दे꣣वो꣢ दे꣣वा꣡च्या꣢ कृ꣣पा꣢ । घृ꣣त꣢स्य꣣ वि꣡भ्रा꣢ष्टि꣣म꣡नु꣢ शु꣣क्र꣡शो꣢चिष आ꣣जु꣡ह्वा꣢नस्य स꣣र्पि꣡षः꣢ ॥४६५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्निꣳ होतारं मन्ये दास्वन्तं वसोः सूनुꣳ सहसो जातवेदसं विप्रं न जातवेदसम् । य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥४६५॥

मन्त्र उच्चारण
पद पाठ

अ꣣ग्नि꣢म् । हो꣡ता꣢꣯रम् । म꣣न्ये । दा꣡स्व꣢꣯न्तम् । व꣡सोः꣢꣯ । सू꣣नु꣢म् । स꣡ह꣢꣯सः । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । वि꣡प्रम् । वि । प्र꣣म् । न꣢ । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । यः꣢ । ऊ꣣र्ध्व꣡या꣢ । स्व꣣ध्वरः꣢ । सु꣣ । अध्वरः꣢ । दे꣣वः꣢ । दे꣣वा꣡च्या꣢ । कृ꣣पा꣢ । घृ꣣त꣡स्य꣢ । वि꣡भ्रा꣢꣯ष्टिम् । वि । भ्रा꣣ष्टिम् । अ꣡नु꣢꣯ । शु꣣क्र꣡शो꣢चिषः । शु꣣क्र꣢ । शो꣣चिषः । आजु꣡ह्वा꣢नस्य । आ꣣ । जु꣡ह्वा꣢꣯नस्य । स꣣र्पि꣡षः꣢ ॥४६५॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 465 | (कौथोम) 5 » 2 » 3 » 9 | (रानायाणीय) 4 » 12 » 9


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र का देवता अग्नि है। परमेश्वर की महिमा का वर्णन है।

पदार्थान्वयभाषाः -

मैं (होतारम्) सृष्ट्युत्पत्ति और प्रलय के कर्ता, (वसोः) धन के (दास्वन्तम्) दाता, (सहसः सूनुम्) बल के प्रेरक, (जातवेदसम्) प्रत्येक उत्पन्न पदार्थ में विद्यमान, सर्वान्तर्यामी, (विप्रं न) विद्वान् के समान (जातवेदसम्) उत्पन्न पदार्थों के ज्ञाता (अग्निम्) अग्रनेता परमेश्वर की (मन्ये) पूजा करता हूँ। (देवः) स्वयं प्रकाशित तथा अन्यों का प्रकाशक (यः) जो परमेश्वर (ऊर्ध्वया) उन्नत, (देवाच्या) सूर्य, चन्द्र आदि देवों के प्रति गयी हुई (कृपा) अपनी शक्ति से (स्वध्वरः) उत्कृष्ट सृष्टि-यज्ञ को चला रहा है, वही (आजुह्वानस्य) अग्नि में आहुत किये जाते हुए, (शुक्रशोचिषः) उज्ज्वल दीप्तिवाले (घृतस्य) घृत की (विभ्राष्टिम्) प्रदीप्ति में भी (अनु) अनुप्रविष्ट है, अर्थात् अग्नि का प्रदीप्त होना आदि क्रियाएँ भी परमेश्वर के ही सामर्थ्य से हो रही हैं, जैसाकि उपनिषद् में भी कहा है—‘उसी की चमक से यह सब-कुछ चमक रहा है’ (श्वेता० ६।१४) ॥९॥ इस मन्त्र में उपमालङ्कार है। ‘जातवेदसम्’ की पुनरुक्ति में यमक और ‘देवो, देवा’ में छेकानुप्रास है ॥९॥

भावार्थभाषाः -

अग्नि में घृत की आहुति देने से जो प्रभा होती है, वह धन, बल, ज्ञान आदि के प्रदाता, सृष्टि के व्यवस्थापक जगदीश्वर की ही प्रभा की ओर निर्देश करती है ॥९॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथाग्निर्देवता। परमेश्वरस्य महिमानमाह।

पदार्थान्वयभाषाः -

अहम् (होतारम्) सृष्ट्युत्पत्तिप्रलयकर्तारम्, (वसोः) वसुनः धनस्य (दास्वन्तम्) दातारम्। दासृ दाने, क्वसुः। (सहसः सूनुम्) बलस्य प्रेरकम्। षू प्रेरणे धातोः ‘सुवः कित्। उ० ३।३५’ इति नुः प्रत्ययः किच्च। (जातवेदसम्) जाते-जाते विद्यमानम्, सर्वव्यापकं सर्वान्तर्यामिनम्, (विप्रं न) विपश्चितमिव (जातवेदसम्) जातं यो वेत्ति तम्, जातप्रज्ञानम् (अग्निम्) अग्रनेतारं परमात्मानम् (मन्ये) अर्चामि। मन्यते अर्चतिकर्मा। निघं० ३।१४। (देवः) स्वयं प्रकाशितः अन्येषां प्रकाशकश्च (यः) परमात्मा (ऊर्ध्वया) उन्नतया (देवाच्या) देवान् सूर्यचन्द्रादीन् प्रति अक्तया गतया (कृपा) शक्त्या। देवाच्या कृपा देवान् प्रत्यक्तया कृपा इति यास्कः। निरु० ६।८। (स्वध्वरः) उत्कृष्टसृष्टियज्ञस्य सञ्चालको वर्तते। किञ्च (आजुह्वानस्य) अग्नौ आहूयमानस्य (शुक्रशोचिषः) उज्ज्वलदीप्तेः (घृतस्य) आज्यस्य (विभ्राष्टिम्) प्रदीप्तिम् (अनु) अनुप्रविष्टोऽस्ति, ‘अग्नावग्निश्चरति प्रविष्टः।’ यजु० ५।४ इति श्रुतेः। अग्निज्वलनादिकाः क्रियाः अपि परमेश्वरस्यैव सामर्थ्येन भवन्तीत्यर्थः। तथा चोपनिषद्वर्णः ‘तस्य भासा सर्वमिदं विभाति।’ श्वेता० ६।१४ इति ॥९॥२ अत्रोपमालङ्कारः। ‘जातवेदसम्’ इत्यस्य पुनरुक्तौ यमकम्, ‘देवो, देवा’ इत्यत्र च छेकानुप्रासः ॥९॥

भावार्थभाषाः -

अग्नौ घृताहुत्या या प्रभा जायते सा धनबलज्ञानादिप्रदातुः सृष्टिव्यवस्थापकस्य जगदीश्वरस्यैव प्रभाया निदर्शनम् ॥९॥

टिप्पणी: १. ऋ० १।१२७।१, य० १५।४७, अथ० २०।६७।३। सर्वत्र ‘वसोः’, ‘शुक्रशोचिष’ इत्यत्र ‘वसुं’, ‘वष्टि शोचिषा’ इचि पाठः। यजुर्वेदे ऋषिः परमेष्ठी। २. दयानन्दर्षिर्ऋग्भाष्ये मन्त्रमिमं ‘कीदृशयोः स्त्रीपुरुषयोर्विवाहो भवितुं योग्यः’ इति विषये, यजुर्भाष्ये च विद्वद्विषये व्याख्यातवान्।