वांछित मन्त्र चुनें
आर्चिक को चुनें

त्रि꣡क꣢द्रुकेषु महि꣣षो꣡ यवा꣢꣯शिरं तुविशु꣣ष्म꣢स्तृ꣣म्प꣡त्सोम꣢꣯मपिब꣣द्वि꣡ष्णु꣢ना सु꣣तं꣡ य꣢थाव꣣श꣢म् । स꣡ ईं꣢ ममाद꣣ म꣢हि꣣ क꣢र्म꣣ क꣡र्त्त꣢वे म꣣हा꣢मु꣣रु꣡ꣳ सैन꣢꣯ꣳ सश्चद्दे꣣वो꣢ दे꣣व꣢ꣳ स꣣त्य꣡ इन्दुः꣢꣯ स꣣त्य꣡मिन्द्र꣢꣯म् ॥४५७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशम् । स ईं ममाद महि कर्म कर्त्तवे महामुरुꣳ सैनꣳ सश्चद्देवो देवꣳ सत्य इन्दुः सत्यमिन्द्रम् ॥४५७॥

मन्त्र उच्चारण
पद पाठ

त्रि꣡क꣢꣯द्रुकेषु । त्रि । क꣣द्रुकेषु । महिषः꣢ । य꣡वा꣢꣯शिरम् । य꣡व꣢꣯ । आ꣣शिरम् । तुविशुष्मः꣢ । तु꣣वि । शुष्मः꣢ । तृ꣣म्प꣢त् । सो꣡म꣢꣯म् । अ꣣पिबत् । वि꣡ष्णु꣢꣯ना । सु꣣त꣢म् । य꣣थावश꣢म् । य꣣था । वश꣢म् । सः । ई꣣म् । ममाद । म꣡हि꣢꣯ । क꣡र्म꣢꣯ । क꣡र्त्त꣢꣯वे । म꣣हा꣢म् । उ꣣रु꣢म् । स । ए꣣नम् । सश्चत् । देवः꣢ । दे꣣व꣢म् । स꣣त्यः꣢ । इ꣡न्दुः꣢꣯ । स꣣त्य꣢म् । इ꣡न्द्र꣢꣯म् ॥४५७॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 457 | (कौथोम) 5 » 2 » 3 » 1 | (रानायाणीय) 4 » 12 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में सूर्य और चन्द्रमा के सम्बन्ध-वर्णन-पूर्वक गुरु के समीप से ज्ञानरसरूप सोम के पान का विषय है।

पदार्थान्वयभाषाः -

प्रथम—सूर्य-चन्द्र के पक्ष में। (त्रिकद्रुकेषु) वायु, बिजली और बादल रूप तीन पदार्थों से युक्त अन्तरिक्षभागों में (महिषः) महान् (तुविशुष्मः) बहुत बलवान् सूर्यरूप इन्द्र (यवाशिरम्) संयुक्त-वियुक्त होनेवाली सूर्यकिरणों से पूर्णता को प्राप्त होनेवाले (सोमम्) चन्द्रमा को (तृम्पत्) तृप्ति प्रदान करता है, और चन्द्रमा (विष्णुना) उस व्याप्तिमान् सूर्य से (सुतम्) उत्पन्न किये किरणसमूह को (यथावशम्) यथेच्छ (अपिबत्) पान करता है। (सः) वह चन्द्रमा में प्रविष्ट सूर्यकिरणसमूह (ईम्) इस चन्द्रमा को (महि) महान् (कर्म) प्राण-प्रदान, चान्द्र मासों के निर्माण आदि कार्य (कर्तवे) करने के लिए (ममाद) हर्षित करता है। (सः) वह (देवः) प्रकाशमान (सत्यः) सत्य नियमवाला (इन्दुः) चन्द्रमा (एनम्) इस (देवम्) प्रकाशक (सत्यम्) सत्य नियमोंवाले (इन्द्रम्) सूर्य का (सश्चत्) सेवन करता रहता है ॥ द्वितीय—गुरु-शिष्य के पक्ष में। (त्रिकद्रुकेषु) ज्ञानकाण्ड, कर्मकाण्ड, उपासनाकाण्ड रूप तीन सवनोंवाले शिक्षायज्ञों में (महिषः) महान् (तुविशुष्मः) विद्यार्थी का अतिशय प्रतिभा-बल से युक्त आत्मा (तृम्पत्) तृप्ति लाभ करता हुआ (विष्णुना) व्याप्त विद्यावाले आचार्य से (सुतम्) अभिषुत, (यवाशिरम्) व्रतपालनरूप कर्मों से परिपक्व (सोमम्) ज्ञानरस को (यथावशम्) यथेच्छ (अपिबत्) पान करता है। (सः) पान किया हुआ वह ज्ञान-रस (महाम्) विद्या में महान् (उरुम्) विशाल हृष्टपुष्ट शरीरवाले (ईम्) विद्यार्थी के इस आत्मा को (महि) महान् (कर्म) समाजसुधार आदि कर्म (कर्तवे) करने के लिए (ममाद) हर्षित करता है। (देवः) दिव्यगुणयुक्त (सत्यः) सत्य (सः) वह (इन्दुः) विद्यारस (देवम्) दिव्य गुणवाले (सत्यम्) सत्यप्रिय (इन्द्रम्) आत्मा को (सश्चत्) निरन्तर प्राप्त होता रहता है ॥१॥ इस मन्त्र में श्लेषालङ्कार है। ‘देवो, देवं’ में छेकानुप्रास और ‘सत्य, सत्य’ में यमक है ॥१॥

भावार्थभाषाः -

विद्यार्थी का आत्मा गुरु के पास से ज्ञानरस का पान करके वैसे ही महान् कर्म करने योग्य हो जाता है, जैसे चन्द्रमा सूर्य के पास से प्रकाश का पान कर प्राणप्रदान आदि महान् कर्मों को करता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्राद्ये मन्त्रे सूर्यचन्द्रसम्बन्धवर्णनपूर्वकं गुरोः सकाशाज्ज्ञानरसरूपं सोमं पातुमाह।

पदार्थान्वयभाषाः -

प्रथमः—सूर्यचन्द्रपरः। (त्रिकद्रुकेषु२) त्रीणि कद्रुकाणि वायुविद्युत्पर्जन्याख्यानि येषु तेषु अन्तरिक्षभागेषु (महिषः) महान्। महिष इति महन्नाम। निघं० ३।३। (तुविशुष्मः) बहुबलः सूर्यरूपः इन्द्रः। तुवि इति बहुनाम। निघं० ३।१। शुष्म इति बलनाम। निघं० २।९। (यवाशिरम्) यवैः संयोगवियोगं प्राप्तैः सूर्यकिरणैः आशीः परिपाकः पूर्णता यस्य तम् (सोमम्) चन्द्रमसम् (तृम्पत्) तर्पयति। तृम्प तृप्तौ, तुदादिः। चन्द्रमाश्च (विष्णुना) व्याप्तिमता सूर्येण (सुतम्) उत्पादितं किरणसमूहम् (यथावशम्) यथेच्छम्। वशः अभिलाषः। वश कान्तौ। (अपिबत्) पिबति। (सः) चन्द्रमसं प्रविष्टः सूर्यकिरणसमूहः (महाम्) गुणैर्महान्तम् (उरुम्) विशालम् (ईम्) एनं चन्द्रमसम्। ईम् एनम्। निरु० १०।४५। (महि) महत् (कर्म) प्रकाशनप्राणप्रदानचान्द्रमासनिर्माणादिकं कार्यम् (कर्तवे) कर्तुम् (ममाद) हर्षयति। (सः) असौ (देवः) प्रकाशमानः (सत्यः) सत्यनियमः (इन्दुः) चन्द्रमाः (एनम्) इमम् (देवम्) प्रकाशकम् (सत्यम्) सत्यनियमम् (इन्द्रम्) सूर्यम् (सश्चत्) सेवते ॥३ अथ द्वितीयः—गुरुशिष्यपरः। (त्रिकद्रुकेषु) त्रीणि कद्रुकाणि सवनानि ज्ञानकर्मोपासनाकाण्डरूपाणि येषु तेषु शिक्षायज्ञेषु (महिषः) महान्, (तुविशुष्मः) विद्यार्थिनः बहुप्रतिभाबलः आत्मा (तृम्पत्) तृप्यन् (विष्णुना) व्याप्तविद्येन आचार्येण। वेवेष्टि व्याप्नोति सर्वा विद्याः सर्वाणि शास्त्राणि वा यः स विष्णुः आचार्यः। (सुतम्) अभिषुतम्, (यवाशिरम्) यवैः व्रतपालनरूपैः कर्मभिः आशिरम् पक्वम्। यवाः कर्माणि, यु मिश्रणामिश्रणयोः, आशिर् श्रीञ् पाके। (सोमम्) ज्ञानरसम् (यथावशम्) यथेच्छम् (अपिबत्) पिबति। (सः) पीतः ज्ञानरसः (महाम्) विद्यया महान्तम् (उरुम्) विशालहृष्टपुष्टशरीरम् (ईम्) एनं विद्यार्थिनः आत्मानम् (महि) महत् (कर्म) समाजसुधारादिकार्यम् (कर्तवे) कर्तुम् (ममाद) हर्षयति। (सत्यः) अवितथः (देवः) दिव्यगुणः (सः) असौ (इन्द्रः) विद्यारसः (देवम्) दिव्यगुणम्, (सत्यम्) सत्यप्रियम् (इन्द्रम्) आत्मानम् (सश्चत्) निरन्तरं प्राप्नोति। सश्चतिः गतिकर्मा। निघं० २।१४। सैनम् इत्यत्र ‘सः एनम्’ इत स्थिते ‘सोऽचि लोपे चेत् पादपूरणम्’। अ० ६।१।१३४ इत्यनेन सुलोपे वृद्धिरेकादेशः ॥१॥ अत्र श्लेषालङ्कारः। ‘देवो, देवं’ इत्यत्र छेकानुप्रासः। ‘सत्य, सत्य’ इति यमकम् ॥१॥

भावार्थभाषाः -

छात्रस्यात्मा गुरोः सकाशाज्ज्ञानरसं पीत्वा तथैव महान्ति कर्माणि कर्तुं योग्यो जायते यथा चन्द्रः सूर्यस्य सकाशात् प्रकाशं पीत्वा प्राणप्रदानादीनि महान्ति कर्माणि करोति ॥१॥

टिप्पणी: १. ऋ० २।२२।१, अथ० २०।९५।१। उभयत्र ‘तृम्पत्’, ‘सत्य इन्दुः सत्यमिन्द्रम्’ अस्य स्थाने क्रमेण ‘तृपत्’, ‘सत्यमिन्द्रं सत्य इन्दुः’ इति पाठः। साम० १४८६। २. त्रिकद्रुकेषु ज्योतिर्गौरायुरित्येतन्नामकेषु अभिप्लाविकेष्वहःसु—इति सा०। अत्र कदि धातोरौणादिकः क्रुन् प्रत्ययः, पुनः समासान्तः कप् च—इति ऋ० १।३२।३ भाष्ये द०। कदि वैक्लव्ये, भ्वादिः। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतं सूर्यचन्द्रविषये व्याख्यातवान्।