वांछित मन्त्र चुनें
आर्चिक को चुनें

भ꣣द्रं꣢ नो꣣ अ꣡पि꣢ वातय꣣ म꣢नो꣣ द꣡क्ष꣢मु꣣त꣡ क्रतु꣢꣯म् । अ꣡था꣢ ते स꣣ख्ये꣡ अन्ध꣢꣯सो꣣ वि꣢ वो꣣ म꣢दे꣣ र꣢णा꣣ गा꣢वो꣣ न꣡ यव꣢꣯से꣣ वि꣡व꣢क्षसे ॥४२२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् । अथा ते सख्ये अन्धसो वि वो मदे रणा गावो न यवसे विवक्षसे ॥४२२॥

मन्त्र उच्चारण
पद पाठ

भ꣣द्र꣢म् । नः꣣ । अ꣡पि꣢꣯ । वा꣣तय । म꣡नः꣢꣯ । द꣡क्ष꣢꣯म् । उ꣣त꣢ । क्र꣡तु꣢꣯म् । अ꣡थ꣢꣯ । ते꣣ । सख्ये꣢ । स꣣ । ख्ये꣢ । अ꣡न्ध꣢꣯सः । वि । वः꣣ । म꣡दे꣢꣯ । र꣡ण꣢꣯ । गा꣡वः꣢꣯ । न । य꣡व꣢꣯से । वि꣡व꣢꣯क्षसे ॥४२२॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 422 | (कौथोम) 5 » 1 » 4 » 4 | (रानायाणीय) 4 » 8 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र का सोम देवता है। उससे याचना की गयी है।

पदार्थान्वयभाषाः -

हे सोम ! हे रसागार परमात्मन् ! आप (नः) हमारे लिए (भद्रम्) श्रेष्ठ (मनः) मनोबल, (दक्षम्) शारीरिक बल, (उत) और (क्रतुम्) प्रज्ञान तथा कर्म (अपि वातय) प्राप्त कराओ। (अथ) और (ते) आपके अपने (अन्धसः) शान्तिरस के (सख्ये) सखित्व में, तथा (वः) आपके अपने (मदे) आनन्द में, हमें (वि रण) विशेष रूप से रमाओ, (गावः न) जैसे गौएँ (यवसे) घास में रमती हैं। हे सोम परमात्मन् ! आप (विवक्षसे) महान् हो ॥४॥ इस मन्त्र में उपमालङ्कार है ॥४॥

भावार्थभाषाः -

परमेश्वर की उपासना से मनुष्य आत्मा, मन, बुद्धि आदि के बल को और आनन्द को प्राप्त कर सकते हैं ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ सोमो देवता। स प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे सोम रसागार परमात्मन् ! त्वम् (नः) अस्मभ्यम् (भद्रम्) श्रेष्ठम् (मनः) मनोबलम्, (दक्षम्) शारीरं बलम्, (उत) अपि च (क्रतुम्) प्रज्ञानं कर्म च (अपि वातय२) अपि गमय, प्रापय। (अथ) अपि च त्वम् (ते) तव (अन्धसः) शान्तरूपस्य रसस्य (सख्ये) सखित्वे अपि च (वः) तव (मदे आनन्दे (वि रण३) विशेषेण रमय। अत्र पादादित्वान्निघाताभावः। (गावः न) यथा धेनवः (यवसे) घासे रमन्ते तद्वत्। हे सोम परमात्मन् ! त्वम् (विवक्षसे) महान् असि ॥४॥ अत्रोपमालङ्कारः ॥४॥

भावार्थभाषाः -

परमेश्वरोपासनया जनैरात्ममनोबुद्ध्यादिबलमानन्दश्च प्राप्तुं शक्यते ॥४॥

टिप्पणी: १. ऋ० १०।२५।१ ऋषिः विमद ऐन्द्रः प्राजापत्यो वा वसुकृद् वा वासुक्रः। ‘अथा’, ‘रणा’ इत्यत्र क्रमेण ‘अधा’, ‘रणन्’ इति पाठः। केवलं पूर्वार्द्धः ऋ० १–०।२०।१ इत्यत्रापि दृश्यते। २. वात सुखसेवनयोः गतौ च चुरादिः। अपि पूर्वोऽन्यत्रापि प्रयुज्यते, यथा ‘सहस्रं ते स्वपिवात भेषजा’ ऋ० ७।४६।३ इत्यत्र। ३. शब्दार्थे पठितो रण धातुः रमणार्थेऽपि भवति, तथा च ‘रणाय रमणीयाय संग्रामाय’ इति (निरु० ४।८) ‘रण रमय’—इति वि०। ‘रणा रमन्तां स्तोतारः’—इति भ०। ‘रणाः प्रीतियुक्ता गावो न’—इति सायणीयं व्याख्यानं तु पदकारविरुद्धम्, पदपाठे ‘रण’ इति पाठात्। दीर्घत्वं तु ‘द्व्यचोऽतस्तिङः’ इति नियमाद् भवति।