वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: मरुतः ऋषि: सौभरि: काण्व: छन्द: ककुप् स्वर: ऋषभः काण्ड: ऐन्द्रं काण्डम्

गा꣡व꣢श्चिद्घा समन्यवः सजा꣣꣬त्ये꣢꣯न म꣣रु꣢तः꣣ स꣡ब꣢न्धवः । रि꣣ह꣡ते꣢ क꣣कु꣡भो꣢ मि꣣थः꣢ ॥४०४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

गावश्चिद्घा समन्यवः सजात्येन मरुतः सबन्धवः । रिहते ककुभो मिथः ॥४०४॥

मन्त्र उच्चारण
पद पाठ

गा꣡वः꣢꣯ । चि꣣त् । घ । समन्यवः । स । मन्यवः । सजात्ये꣢꣯न । स꣣ । जात्ये꣢꣯न । म꣣रु꣡तः꣢ । स꣡ब꣢꣯न्धवः । स । ब꣣न्धवः । रिह꣡ते꣢ । क꣣कु꣡भः꣢ । मि꣣थः꣢ ॥४०४॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 404 | (कौथोम) 5 » 1 » 2 » 6 | (रानायाणीय) 4 » 6 » 6


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र के ‘मरुतः’ देवता हैं। मरुतों के सबन्धुत्व का वर्णन है।

पदार्थान्वयभाषाः -

हे (समन्यवः) तेजस्वी (गावः) स्तोता ब्राह्मणो ! (सजात्येन) समान जातिवाला होने से (मरुतः) क्षत्रिय योद्धाजन (चिद् घ) निश्चय ही (सबन्धवः) तुम्हारे सबन्धु हैं, जो (मिथः) परस्पर मिलकर, युद्ध में (ककुभः) दिशाओं को (रिहते) व्याप्त करते हैं, अर्थात् सब दिशाओं में फैलकर शत्रु के साथ लड़कर राष्ट्र की रक्षा करते हैं। अथवा जो क्षत्रिय (मिथः) तुम ब्राह्मणों के साथ मिलकर (ककुभः) ककुप् छन्दोंवाली प्रस्तुत दशति की ऋचाओं का (रिहते) पाठ तथा अर्थज्ञानपूर्वक आस्वादन करते हैं ॥५ प्रस्तुत दशति में ककुब् उष्णिक् छन्द है, जिसमें प्रथम और तृतीय पाद आठ-आठ अक्षर के तथा मध्य का द्वितीय पाद बारह अक्षर का होता है ॥६॥

भावार्थभाषाः -

स्तोता ब्राह्मण और रक्षक क्षत्रिय दोनों ही राष्ट्र के अनिवार्य अङ्ग हैं। जैसे ब्राह्मण विद्यादान से क्षत्रियों का उपकार करते हैं, वैसे ही युद्ध उपस्थित होने पर क्षत्रिय लोग दिशाओं को व्याप्त कर, शत्रुओं को पराजित कर ब्राह्मणों का उपकार करते हैं। इसलिए ब्राह्मणों और क्षत्रियों को राष्ट्र में भ्रातृभाव से रहना चाहिए ॥६॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ मरुतो देवताः। मरुतां सबन्धुत्वमाह।

पदार्थान्वयभाषाः -

हे (समन्यवः) सतेजस्काः (गावः) स्तोतारो ब्राह्मणाः ! गौः इति स्तोतृनाम। निघं० ३।१६। (सजात्येन) सजातित्वेन (मरुतः२) क्षत्रियाः योद्धारो जनाः (चिद् घ) निश्चयेन (सबन्धवः) युष्माकं समानबन्धुत्वयुक्ताः सन्ति, ये क्षत्रियाः (मिथः) परस्परं मिलित्वा, युद्धे (ककुभः) दिशः (रिहते) आस्वादयन्ति, व्याप्नुवन्तीत्यर्थः। लिह आस्वादने, अदादिः, रलयोरभेदः।३ सर्वा दिशोऽभिव्याप्य शत्रुणा सह युद्ध्वा राष्ट्रं रक्षन्तीति भावः। यद्वा, ये क्षत्रियाः (मिथः) युष्माभिः ब्राह्मणैः सह मिलित्वा (ककुभः) ककुप्छन्दोबद्धाः इमाः प्रस्तुतायां दशतौ पठिताः ऋचः (रिहते) पाठेन अर्थानुसन्धानेन च आस्वादयन्ति ॥ प्रस्तुतायां दशतौ ककुब् उष्णिक् छन्दोऽस्ति, यत्र प्रथमतृतीयपादौ अष्टाक्षरौ मध्यस्थो द्वितीयः पादश्च द्वादशाक्षरो भवति ॥६॥४

भावार्थभाषाः -

स्तोतारो ब्राह्मणा रक्षकाः क्षत्रियाश्च उभयेऽपि राष्ट्रस्यानिवार्याण्यङ्गानि सन्ति। यथा ब्राह्मणा विद्यादानेन क्षत्रियानुपकुर्वन्ति तथा युद्धे समागते क्षत्रिया दिशोऽभिव्याप्य शत्रून् पराजित्य ब्राह्मणानुपकुर्वन्ति। तस्माद् ब्राह्मणैः क्षत्रियैश्च राष्ट्रे भ्रातृत्वेन वर्तितव्यम् ॥६॥

टिप्पणी: १. ऋ० ८।२०।२१। २. माधवभरतस्वामिसायणैराधुनिकैश्च भाष्यकारैः स्वरमनादृत्य ‘मरुतः’ इति सम्बोधनान्तं व्याख्यातम्। वस्तुतस्तु ‘समन्यवः’ इत्यत्रैव ‘आमन्त्रितस्य च। अ० ८।१।१९’ इति सम्बुद्धिस्वरो निघातः परिदृश्यते। तद्विशेष्ये ‘गावः’ इत्यत्र पादादित्वात् षाष्ठेन आद्युदात्तः सम्बुद्धिस्वरः। अस्माभिर्यथास्वरमेव व्याख्यातम्। ऋग्वेदीयपाठे तु म॒रु॒तः॒ इति सम्बुद्धिस्वर एव। तत्र ‘म॒रु॒तः॒’ इति ‘रि॒ह॒ते॒’ इति च स्वरभेदेन पठ्यते। ३. वेदसंहितासु सर्वत्र रिह धातुरेव प्रयुक्तः, लिहस्तु रूपाणि न प्राप्यन्ते। ४. अथवा गवां वाचां मरुतां प्राणानां च सजात्येन समानशरीरव्यापित्वरूपसजातित्वेन सबन्धुत्वमस्यामृचि वर्ण्यते। वाचः प्राणाश्च परस्परमुपकृत्य दिग्व्यापिनः शब्दान् जनयन्ति। ५. अथवा इस ऋचा में ‘गावः’ से वाणियाँ तथा ‘मरुतः’ से प्राण अभिप्रेत हैं। वाणी और प्राण एक शरीर में व्याप्त होने रूप सजातीयता के कारण परस्पर बन्धु हैं। वे एक-दूसरे का उपकार करके दिशाव्यापी शब्दों को उत्पन्न करते हैं।