वांछित मन्त्र चुनें
आर्चिक को चुनें

ए꣢दु꣣ म꣡धो꣢र्म꣣दि꣡न्त꣢रꣳ सि꣣ञ्चा꣡ध्व꣣र्यो꣣ अ꣡न्ध꣢सः । ए꣣वा꣢꣫ हि वी꣣र꣡स्तव꣢꣯ते स꣣दा꣡वृ꣢धः ॥३८५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एदु मधोर्मदिन्तरꣳ सिञ्चाध्वर्यो अन्धसः । एवा हि वीरस्तवते सदावृधः ॥३८५॥

मन्त्र उच्चारण
पद पाठ

आ꣢ । इत् । उ꣣ । म꣡धोः꣢꣯ । म꣣दि꣡न्त꣢रम् । सि꣣ञ्च꣢ । अध्व꣣र्यो । अ꣡न्ध꣢꣯सः । ए꣣व꣢ । हि । वी꣣रः꣢ । स्त꣡व꣢꣯ते । स꣣दा꣡वृ꣢धः । स꣣दा꣢ । वृ꣣धः ॥३८५॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 385 | (कौथोम) 4 » 2 » 5 » 5 | (रानायाणीय) 4 » 4 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में अध्वर्यु को सम्बोधित किया गया है।

पदार्थान्वयभाषाः -

हे (अध्वर्यो) यज्ञ-निष्पादन के इच्छुक मानव ! तू समाज, राष्ट्र और जगत् में (मधोः अन्धसः) मधुर ज्ञान-कर्म-उपासनारूप सोम के (मदिन्तरम्) अतिशय तृप्तिकारक रस को (इत्) निश्चय ही (आसिञ्च उ) सींच। (एव हि) इसी प्रकार (वीरः) वीर, (सदावृधः) सदा समृद्ध वह इन्द्र परमेश्वर (स्तवते) स्तुति किया जाता है ॥५॥

भावार्थभाषाः -

परमेश्वर की स्तुति का यही मार्ग है कि स्तोता मधुरातिमधुर ज्ञान, कर्म, उपासना के रस को जगत् में प्रवाहित करे। सदा समृद्ध, पूर्णकाम परमेश्वर पत्र, पुष्प, फल आदि का उपहार नहीं चाहता ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथाध्वर्युः सम्बोध्यते।

पदार्थान्वयभाषाः -

हे (अध्वर्यो) यज्ञनिष्पादकेच्छो मानव ! अध्वर्युः अध्वरयुः, अध्वरं युनक्ति, अध्वरस्य नेता, अध्वरं कामयते इति वा। अपि वाऽधीयाने युरुपबन्धः। निरु० १।७। त्वं समाजे राष्ट्रे जगति वा (मधोः अन्धसः) मधुरस्य ज्ञानकर्मोपासनारूपस्य सोमस्य (मदिन्तरम्) अतिशयेन तृप्तिकरं रसम्। अतिशयेन मदी इति मदिन्तरः, नलोपाभावश्छान्दसः। (इत्) निश्चयेन। (आसिञ्च उ) प्रवाहय खलु। (एव हि) एवमेव। एवा इत्यत्र संहितायां ‘निपातस्य च’ अ० ६।३।१३६ इति दीर्घः। (वीरः) विक्रमपरायणः (सदावृधः) नित्यं समृद्धः स इन्द्रः परमेश्वरः (स्तवते) स्तूयते ॥५॥

भावार्थभाषाः -

परमेश्वरस्तुतेरयमेव मार्गो यत् स्तोता मधुरमधुरं ज्ञानकर्मोपासनारसं जगति प्रवाहयेत्। सदा समृद्धः पूर्णकामः परमेश्वरः पत्रपुष्कफलाद्युपहारं न कामयते ॥५॥

टिप्पणी: १. ऋ० ८।२४।१६ ‘मधोर्’, ‘सिञ्चाध्वर्यो’, ‘वीर’, इत्यत्र क्रमेण ‘मध्वो’, ‘सिञ्च वाध्वर्यो’, ‘वीरः’ इति पाठः। अथ० २०।६४।४ ‘वीर’ इत्येव पाठः, शिष्टम् ऋग्वेदवत्। साम० १६८४।