वांछित मन्त्र चुनें
आर्चिक को चुनें

वि꣣श्वा꣡न꣢रस्य व꣣स्प꣢ति꣣म꣡ना꣢नतस्य꣣ श꣡व꣢सः । ए꣡वै꣢श्च चर्षणी꣣ना꣢मू꣣ती꣡ हु꣢वे꣣ र꣡था꣢नाम् ॥३६४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

विश्वानरस्य वस्पतिमनानतस्य शवसः । एवैश्च चर्षणीनामूती हुवे रथानाम् ॥३६४॥

मन्त्र उच्चारण
पद पाठ

वि꣣श्वा꣡न꣢रस्य । वि꣣श्व꣢ । नर꣣स्य । वः । प꣡ति꣢꣯म् । अ꣡ना꣢꣯नतस्य । अन् । आ꣣नतस्य । श꣡व꣢꣯सः । ए꣡वैः꣢꣯ । च꣣ । चर्षणीना꣢म् । ऊ꣣ती꣢ । हु꣣वे । र꣡था꣢꣯नाम् ॥३६४॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 364 | (कौथोम) 4 » 2 » 3 » 5 | (रानायाणीय) 4 » 2 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में बलाधिपति परमेश्वर और राजा का आह्वान किया गया है।

पदार्थान्वयभाषाः -

प्रथम—परमात्मा के पक्ष में। हे इन्द्र जगदीश्वर ! (विश्वानरस्य) सब जगत् के सञ्चालक (अनानतस्य) कहीं भी न झुकनेवाले अर्थात् पराजित न होनेवाले (शवसः) बल के (पतिम्) अधीश्वर (वः) आपको (चर्षणीनाम्) मनुष्यों की (एवैः) सत्कामनाओं की पूर्तियों के लिए, और (रथानाम्) उनके शरीररूप रथों को (ऊती) लक्ष्य के प्रति प्रेरित करने तथा रक्षित करने के लिए, मैं (हुवे) पुकारता हूँ ॥ द्वितीय—राजा के पक्ष में। हे राजन् ! (विश्वानरस्य) सबसे आगे जानेवाली, (अनानतस्य) शत्रुओं के आगे न झुकनेवाली अर्थात् उनसे पराजित न होनेवाली (शवसः) सेना के (पतिम्) स्वामी (वः) आपको (चर्षणीनाम्) प्रजाजनों की (एवैः) महत्त्वाकांक्षाओं तथा प्रारब्ध कार्यों की पूर्ति के लिए, और (रथानाम्) विमानादि यानों को (ऊती) चलाने के लिए (हुवे) पुकारता हूँ ॥५॥ इस मन्त्र में श्लेषालङ्कार है ॥५॥

भावार्थभाषाः -

जगदीश्वर ही जीवात्माओं को उनकी जीवनयात्रा के लिए कर्मानुसार उत्कृष्ट मानव शरीररूप रथ प्रदान करता है। वैसे ही राजा राष्ट्र में प्रजाजनों की शीघ्र यात्रा के लिए विमानादि रथों का निर्माण कराये ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ बलाधिपतिः परमेश्वरो नृपतिश्चाहूयते।

पदार्थान्वयभाषाः -

प्रथमः—परमात्मपरः। हे इन्द्र जगदीश्वर ! (विश्वानरस्य) सर्वजगत्संचालकस्य। विश्वं सर्वं जगत् नृणाति नयतीति विश्वानरः। पूर्वपदस्य दीर्घश्छान्दसः। नॄ नये क्र्यादिः। (अनानतस्य) क्वचिदपि अपराजितस्य (शवसः) बलस्य (पतिम्) अधीश्वरम् (वः) त्वाम् छन्दसि षष्ठीचतुर्थीद्वितीयासु एकवचनस्यापि युष्मदस्मदोर्वस्नसादेशौ दृश्येते। चर्षणीनाम् मनुष्याणाम् (एवैः) कामैः निमित्तभूतैः। एवैः कामैरिति यास्कः। निरु० १२।२०। तेषां सत्कामानां पूर्त्यर्थमिति भावः, (रथानाम्) तदीयशरीररथानाम् (ऊती) लक्ष्यं प्रति प्रेरणाय रक्षणाय च। गत्यर्थस्य रक्षणार्थस्य च अव धातोः क्तिनि निपातः ‘ऊतिः’ इति। ततः ऊतिशब्दात् चतुर्थ्येकवचने ‘सुपां सुलुक्०। ७।१।३९’ इति पूर्वसवर्णदीर्घः। अहम् (हुवे) आह्वयामि ॥ अथ द्वितीयः—राजपरः। हे राजन् ! विश्वानरस्य सर्वेभ्योऽग्रेसरस्य, (अनानतस्य) शत्रूणां पुरतः अपराजितस्य (शवसः) सैन्यस्य (पतिम्) अधीश्वरम् (वः) त्वाम् (चर्षणीनाम्) प्रजाजनानाम् (एवैः) महत्त्वाकाङ्क्षाणां प्रारब्धानां महतां कार्याणां वा पूर्त्यर्थम्। एवः इति इच्छार्थाद् गत्यर्थाद् वा इण् धातोः वन् प्रत्यये रूपम्। (रथानाम्) विमानादियानानाम् (ऊती) गमनाय च (हुवे) आह्वयामि ॥५॥ मन्त्रमिमं यास्काचार्य एवं व्याख्यातवान्—“विश्वानरस्य आदित्यस्य अनानतस्य शवसो महतो बलस्य, एवैश्च कामैः अयनैः अवनैर्वा, चर्षणीनां मनुष्याणाम्, ऊत्या च पथा रथानाम् इन्द्रमस्मिन् यज्ञे ह्वयामि” इति (निरु० १२।२०)। अत्र श्लेषालङ्कारः ॥५॥

भावार्थभाषाः -

जगदीश्वरो जीवात्मभ्यस्तज्जीवनयात्रार्थं कर्मानुसारमुत्कृष्टान् मानवशरीररथान् प्रददाति। तथैव राजा राष्ट्रे प्रजाजनानां सद्यो यात्रार्थं विमानादिरथान् प्रकल्पयेत् ॥५॥

टिप्पणी: १. ऋ० ८।६८।४।