वांछित मन्त्र चुनें
आर्चिक को चुनें

गा꣡य꣢न्ति त्वा गाय꣣त्रि꣡णोऽर्च꣢꣯न्त्य꣣र्क꣢म꣣र्कि꣡णः꣢ । ब्र꣣ह्मा꣡ण꣢स्त्वा शतक्रत꣣ उ꣢द्व꣣ꣳश꣡मि꣢व येमिरे ॥३४२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः । ब्रह्माणस्त्वा शतक्रत उद्वꣳशमिव येमिरे ॥३४२॥

मन्त्र उच्चारण
पद पाठ

गा꣡य꣢꣯न्ति । त्वा꣣ । गायत्रि꣡णः꣢ । अ꣡र्च꣢꣯न्ति । अ꣣र्क꣢म् । अ꣣र्कि꣡णः꣢ । ब्र꣣ह्मा꣡णः꣢ । त्वा꣣ । शतक्रतो । शत । क्रतो । उ꣢त् । वँ꣣श꣢म् । इ꣣व । येमिरे ॥३४२॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 342 | (कौथोम) 4 » 2 » 1 » 1 | (रानायाणीय) 3 » 12 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में यह विषय है कि इन्द्र की महिमा का सब गान करते हैं।

पदार्थान्वयभाषाः -

हे (शतक्रतो) बहुत बुद्धिमान् तथा बहुत कर्मों को करनेवाले परमैश्वर्यवान् परमात्मन् ! (गायत्रिणः) सामगान करनेवाले गायक जन अथवा यज्ञ के उद्गाता नामक ऋत्विज् (त्वा) तेरा (गायन्ति) गान करते हैं। (अर्किणः) वेदमन्त्रार्थों का अध्ययन करनेवाले जन अथवा पूजक होता और अध्वर्यु नामक ऋत्विज् (त्वा) तेरी (अर्चन्ति) स्तुति करते हैं। (ब्राह्मणाः) ब्रह्मोपासक ब्राह्मण अथवा यज्ञ के ब्रह्मा नामक ऋत्विज् (त्वा) तुझे (वंशम् इव) ध्वजदण्ड के समान (उद्येमिरे) ऊपर उठाते हैं, अर्थात् जैसे पताकाधारी लोग पताका के डण्डे को ऊँचा उठाकर आकाश में पताका को फहराते हैं, वैसे ही ब्राह्मण जन और यज्ञ के ब्रह्मा लोग तेरी कीर्ति को सर्वत्र फहराते हैं ॥१॥ इस मन्त्र में उपमालङ्कार है। ‘गाय, गाय’ में यमक है। द्वितीय पाद में अनुप्रास है ॥१॥

भावार्थभाषाः -

मनुष्यों को चाहिए कि साङ्गोपाङ्ग वेदों को पढ़कर, यज्ञ आदि में मन्त्रोच्चारणपूर्वक और सामगानसहित परमेश्वर की अर्चना करते हुए उसकी महिमा को गगन में ऊँची उठायी हुई, हवा से लहराती हुई ध्वजा के समान सर्वत्र प्रसारित करें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ इन्द्रस्य महिमानं सर्वे गायन्तीत्याह।

पदार्थान्वयभाषाः -

हे (शतक्रतो) बहुप्रज्ञ बहुकर्मन् इन्द्र परमैश्वर्यवन् परमात्मन् ! (गायत्रिणः) गायत्रं साम, तद्गानकर्तारः गायकाः, यद्वा यज्ञे उद्गातारो नाम ऋत्विजः (त्वा) त्वाम् (गायन्ति) गानविषयीकुर्वन्ति। (अर्किणः) वेदमन्त्रार्थाध्येतारो जनाः, यद्वा अर्चकाः होतारः अध्वर्यवश्च ऋत्विजः। अर्को देवो भवति यदेनमर्चन्ति। अर्को मन्त्रो भवति यदनेनार्चन्ति। निरु० ५।४। अर्को देवो मन्त्रो वा येषामस्तीति ते अर्किणः। (त्वा) त्वाम् (अर्चन्ति) स्तुवन्ति। (ब्रह्माणः) ब्रह्मोपासकाः ब्राह्मणाः, यद्वा ब्रह्माणो नाम ऋत्विजः (त्वा) त्वाम् (वंशम् इव२) ध्वजदण्डमिव, (उद्येमिरे) उद्यच्छन्ति, उद्गमयन्ति, ध्वजवंशमुन्नयन्तः पताकिनः पताकां यथा वियति दोधूयन्ते तथा ते त्वत्कीर्तिं सर्वत्र प्रसारयन्तीत्यर्थः। उत्-पूर्वाद् यम उपरमे धातोः कालसामान्ये लिट् ॥१॥ यास्काचार्य इमं मन्त्रमेवं व्याख्यातवान्—गायन्ति त्वा गायत्रिणः, प्रार्चन्ति तेऽर्कमर्किणो, ब्राह्मणास्त्वा शतक्रत उद्येमिरे वंशमिव। वंशो वनशयो भवति, वननाच्छ्रूयत इति वेति। निरु० ५।४ ॥ अत्रोपमालङ्कारः, ग्रहीतृभेदादेकस्यानेकधोल्लेखे उल्लेखालङ्कारश्च३। ‘गाय, गाय’ इति यमकम्, द्वितीये पादेऽनुप्रासः ॥१॥

भावार्थभाषाः -

साङ्गोपाङ्गं वेदानधीत्य यज्ञादिषु मन्त्रोच्चारणपूर्वकं सामगानसहितं च परमेश्वरं समभ्यर्चद्भिर्जनैस्तन्महिमा गगने प्रोत्तोलितः पवनान्दोलितो ध्वज इव सर्वत्र प्रसारणीयः ॥१॥४

टिप्पणी: १. ऋ० १।१०।१, साम० १३४४। २. यथा वंशाग्रे नृत्यन्तः शिल्पिनः प्रौढं वंशमुन्नतं कुर्वन्ति, यथा वा सन्मार्गवर्तिनः पुत्राः स्वकीयं कुलमुन्नतं कुर्वन्ति तद्वत्—इति सा०। यथोत्कृष्टैर्गुणैः शिक्षणैश्च स्वकीयं वंशमुद्यमवन्तं कुर्वन्ति तथेति ऋग्भाष्ये द०। ३. क्वचिद् भेदाद् ग्रहीतॄणां विषयाणां तथा क्वचित्। एकस्यानेकधोल्लेखो यः स उल्लेख उच्यते। सा० द० १०।३७ इति तल्लक्षणात्। ४. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं परमेश्वरार्चनविषय एव व्याख्यातवान्।