वांछित मन्त्र चुनें
आर्चिक को चुनें

शु꣣न꣡ꣳ हु꣢वेम म꣣घ꣡वा꣢न꣣मि꣡न्द्र꣢मस्मि꣢꣫न्भरे꣣ नृ꣡त꣢मं꣣ वा꣡ज꣢सातौ । शृ꣣ण्व꣡न्त꣢मु꣣ग्र꣢मू꣣त꣡ये꣢ स꣣म꣢त्सु꣣ घ्न꣡न्तं꣢ वृ꣣त्रा꣡णि꣢ स꣣ञ्जि꣢तं꣣ ध꣡ना꣢नि ॥३२९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

शुनꣳ हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि सञ्जितं धनानि ॥३२९॥

मन्त्र उच्चारण
पद पाठ

शु꣣न꣢म् । हु꣣वेम । मघ꣡वा꣢नम् । इ꣡न्द्र꣢꣯म् । अ꣣स्मि꣢न् । भ꣡रे꣢꣯ । नृ꣡तम꣢꣯म् । वा꣡ज꣢꣯सातौ । वा꣡ज꣢꣯ । सा꣣तौ । शृण्व꣡न्त꣢म्꣢ । उ꣣ग्र꣢म् । ऊ꣣त꣡ये꣢ । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । घ्न꣡न्त꣢꣯म् । वृ꣣त्रा꣡णि꣢ । स꣣ञ्जि꣡त꣢म् । स꣣म् । जि꣡त꣢꣯म् । ध꣡ना꣢꣯नि ॥३२९॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 329 | (कौथोम) 4 » 1 » 4 » 7 | (रानायाणीय) 3 » 10 » 7


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह विषय है कि कैसे इन्द्र को हम पुकारें।

पदार्थान्वयभाषाः -

(अस्मिन्) इस (वाजसातौ) अन्न, धन, बल, विज्ञान आदि की प्राप्ति करानेवाले (भरे) संसार-समर, जीवन-संग्राम अथवा शत्रुओं के साथ युद्ध में हम (शुनम्) सदा-सुखी, सुख देनेवाले और बढ़ानेवाले, (मघवानम्) प्रशस्त ऐश्वर्यों के स्वामी, (नृतमम्) सबसे बड़े नायक, (शृण्वन्तम्) दीनों की प्रार्थना को सुननेवाले, (उग्रम्) ओजस्वी, (ऊतये) सज्जनों की रक्षार्थ (समत्सु) आन्तरिक एवं बाह्य देवासुर-संग्रामों में (वृत्राणि) काम, क्रोध आदि षड् रिपुओं को अथवा मानव-शत्रुओं को (घ्नन्तम्) विनष्ट करनेवाले, (धनानि) अध्यात्मिक और भौतिक ऐश्वर्यों को (सञ्जितम्) जीतने और जितानेवाले (इन्द्रम्) विश्व के सम्राट् परमेश्वर को अथवा राष्ट्रनायक राजा को (हुवेम) पुकारें ॥७॥ इस मन्त्र में श्लेष और परिकर अलङ्कार हैं ॥७॥

भावार्थभाषाः -

जीवन-संग्रामों में मनुष्यों से सहायता के लिए पुकारा हुआ ब्रह्माण्ड का सम्राट् परमेश्वर उन्हें पुरुषार्थी बनाकर उनका नेतृत्व करता हुआ उन्हें सब संकटों से पार ले जाकर सुखी करता है। इसी प्रकार राष्ट्र का स्वामी राजा शत्रुओं द्वारा राष्ट्र के आक्रान्त हो जाने पर प्रजाओं का आह्वान सुनकर दुर्दान्त शत्रुओं को जीतकर, उनके धनों को छीनकर प्रजाओं की रक्षा करे ॥७॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ कीदृशमिन्द्रं वयमाह्वयेम इत्याह।

पदार्थान्वयभाषाः -

(अस्मिन्) एतस्मिन् (वाजसातौ) वाजानाम् अन्नधनबलविज्ञानादीनां सातिः प्राप्तिर्येन तत्र। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः। (भरे) संसारसमरे, जीवनसंग्रामे, देवासुरसंग्रामे वा, वयम् (शुनम्) नित्यसुखिनम्। शुनमिति सुखनाम। निघं० ३।६। शुनं सुखमस्यास्तीति शुनः, अर्शआदीनाम् आकृतिगणत्वात् ‘अर्शआदिभ्योऽच्’ अ० ५।२।१२७ इति मत्वर्थे अच्। यद्वा शुनं सुखयितारम्, यद्वा वृद्धिकरम्। टुओश्वि गतिवृद्ध्योः। (मघवानम्) प्रशस्तैश्वर्यम्, (नृतमम्) अतिशयेन नायकम्, (शृण्वन्तम्) दीनानां प्रार्थनामाकर्णयन्तम्, (उग्रम्) ओजस्विनम्, (ऊतये) सज्जनानां रक्षणाय (समत्सु) आभ्यन्तरेषु बाह्येषु वा देवासुरसंग्रामेषु। भरे, वाजसातौ, समत्सु इति संग्रामनामसु पठितानि। निघं० २।१७। (वृत्राणि) कामक्रोधादीन् षड्रिपून्, मानवान् शत्रून् वा (घ्नन्तम्) नाशयन्तम्, (धनानि) आध्यात्मिकानि भौतिकानि च ऐश्वर्याणि (सञ्जितम्) सम्यग् जेतारम् जापयितारं वा। सम्यग् जयतीति सञ्जित् तम्। (इन्द्रम्) विश्वस्य सम्राजं परमेश्वरं, राष्ट्रोन्नायकं राजानं वा (हुवेम) आह्वयेम। इदं ह्वेञ् धातोः ‘बहुलं छन्दसि’ अ० ६।१।६४ इति सम्प्रसारणे छान्दसं रूपम् ॥७॥ अत्र श्लेषालङ्कारः परिकरश्च ॥७॥

भावार्थभाषाः -

जीवनसंग्रामे जनैः सहायतार्थमाहूतो ब्रह्माण्डाधिपतिः परमेश्वरस्तान् पुरुषार्थिनो विधाय तेषां नेतृत्वं कुर्वस्तान् सर्वेभ्यः संकटेभ्यः पारं नीत्वा सुखयति। तथैव राष्ट्राधिपतिः सम्राट् शत्रुभिराक्रान्ते राष्ट्रे प्रजानामाह्वानमुपश्रुत्य दुर्दान्तान् शत्रून् विजित्य तद्धनान्याच्छिद्य प्रजा रक्षेत् ॥७॥

टिप्पणी: १. ऋ० ३।३०।२२; ३१।२२; ३२।१७; ३४।११; ३५।११; ३६।११; ३८।१०; ३९।९; ४३।८; ४८।५; ४९।५; ५०।५; १०।८९।१८ ऋषिः रेणुः, १०४।११ ऋषिः अष्टको वैश्वामित्रः। अथ० २०।११।११। सर्वत्र ‘धनानि’ इत्यत्र ‘धनानाम्’ इति पाठः।