वांछित मन्त्र चुनें
आर्चिक को चुनें

वा꣡स्तो꣢ष्पते ध्रु꣣वा꣡ स्थूणाꣳ स꣢꣯त्रꣳ सो꣣म्या꣡ना꣢म् । द्र꣣प्सः꣢ पु꣣रां꣢ भे꣢त्ता꣡ शश्व꣢꣯तीना꣣मि꣢न्द्रो꣣ मु꣡नी꣢ना꣣ꣳ स꣡खा꣢ ॥२७५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

वास्तोष्पते ध्रुवा स्थूणाꣳ सत्रꣳ सोम्यानाम् । द्रप्सः पुरां भेत्ता शश्वतीनामिन्द्रो मुनीनाꣳ सखा ॥२७५॥

मन्त्र उच्चारण
पद पाठ

वा꣡स्तोः꣢꣯ । प꣣ते । ध्रुवा꣢ । स्थू꣡णा꣢꣯ । अँ꣡सत्रम् । सो꣣म्या꣡ना꣢म् । द्र꣣प्सः꣢ । पु꣣रा꣢म् । भे꣣त्ता꣢ । श꣡श्व꣢꣯तीनाम् । इ꣡न्द्रः꣢꣯ । मु꣡नी꣢꣯नाम् । स꣡खा꣢꣯ । स । खा꣣ ॥२७५॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 275 | (कौथोम) 3 » 2 » 4 » 3 | (रानायाणीय) 3 » 5 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा, राजा तथा शिल्पी के गुण-कर्मों का वर्णन है।

पदार्थान्वयभाषाः -

प्रथम—परमात्मा के पक्ष में। हे (वास्तोः पते) ब्रह्माण्डरूप घर के स्वामी इन्द्र परमात्मन् ! आप (सोम्यानाम्) शान्तिमय, दूसरों को शान्ति देनेवाले अथवा ब्रह्मानन्दरूप सोमरस को प्रवाहित करने योग्य स्तोता जनों के (ध्रुवा स्थूणा) स्थिर आधारस्तम्भ अर्थात् आधारस्तम्भ के समान आश्रयभूत हैं, एवं (अंसत्रम्) धनुष् तथा कवच हैं अर्थात् धनुष् के समान विघ्नकर्ताओं पर बाण-प्रहार करनेवाले और कवच के समान रक्षक हैं। (द्रप्सः) रसमय अथवा सूर्य के समान ज्योतिष्मान् तथा (शश्वतीनाम्) चिरकाल से चली आ रही (पुराम्) काम-क्रोधादि शत्रुओं की किलेबन्दियों के (भेत्ता) तोड़नेवाले (इन्द्रः) इन्द्र नामक आप (मुनीनाम्) मुनियों के (सखा) मित्र हैं ॥ द्वितीय—राष्ट्र के पक्ष में। हे (वास्तोः पते) राष्ट्ररूप गृह के अधिपति इन्द्र राजन् ! आप राष्ट्रयज्ञ रूप सोमयाग करनेवाले प्रजाजनों के (ध्रुवा स्थूणा) स्थिर आधार-स्तम्भ और (अंसत्रम्) धनुष् तथा कवच बनें अर्थात् आप आधारस्तम्भ बनकर प्रजाजनों को सहारा दें और धनुष् बनकर शत्रुओं पर आक्रमण करें एवं कवच बनकर प्रजा का शत्रुजन्य आघातों से त्राण करें। साथ ही (द्रप्सः) प्रेमरस के अगार और सूर्य के समान तेजस्वी तथा (शश्वतीनाम्) चिरकाल से सुदृढ़ रूप में बनायी हुई (पुराम्) शत्रु-नगरियों को (भेत्ता) विदीर्ण करनेवाले (इन्द्रः) सम्राट् आप (मुनीनाम्) मुनिवृत्ति से वनों में बसनेवाले वानप्रस्थों के (सखा) मित्र के समान हितचिन्तक हों ॥ तृतीय—वास्तुकला-विशेषज्ञ शिल्पी के पक्ष में। हे (वास्तोः पते) वास्तुकला-विशेषज्ञ, गृहनिर्माण-कुशल शिल्पी ! ध्यान रख कि (सोम्यानाम्) यज्ञ अथवा ऐश्वर्य के अधिकारी गृहस्थ जनों की (स्थूणा) मकानों के आधारभूत खम्भे व दीवारें (ध्रुवा) सुदृढ़ हों, और (अंसत्रम्) मकानों के कंधों के तुल्य खम्भों, दीवारों आदि की रक्षक छतें भी सुदृढ़ हों, क्योंकि कभी-कभी (द्रप्सः) वर्षा-जल (शश्वतीनाम्) चिरकाल से भी स्थित (पुराम्) नगरियों का, उनमें बने हुए मकानों का (भेत्ता) तोड़कर गिरा देनेवाला हो जाता है। यदि कहो कि मुनियों के घरों के विषय में निवेदन क्यों नहीं करते हो, तो उसका उत्तर है कि—(मुनीनाम्) वानप्रस्थ वृत्ति से वन में निवास करनेवाले मुनियों का तो (इन्द्रः) परमेश्वर (सखा) मित्र होता है, अर्थात् वे तो एक परमेश्वर की ही शरण में स्थित रहते हुए, बाह्य सुख की अपेक्षा न करते हुए वन के वृक्षों के नीचे कुटियों में रहते हुए भी स्वयं को सुखी मानते हैं ॥३॥ इस मन्त्र में श्लेषालङ्कार है। प्रथम दो व्याख्याओं में इन्द्र में अंसत्र और स्थूणा का आरोप होने से रूपक अलङ्कार भी है ॥३॥

भावार्थभाषाः -

वही राजा श्रेष्ठ है, जो परमेश्वर के गुणों का अनुसरण करता हुआ प्रजा का आधारस्तम्भ, शत्रुओं का संहारक, स्वजनों का रक्षक, प्रेमरस का अगार, सूर्य के समान तेजस्वी और ऋषि-मुनियों का मित्र-सदृश हितकर्ता हो। और वास्तुकला के विशेषज्ञ इंजीनियरों का कर्त्तव्य है कि वे राष्ट्र में ऐसे सुदृढ़ मकान कुशल शिल्पियों द्वारा बनवाये कि वे मूसलाधार वर्षा, आँधी आदि से भी कुछ भी क्षतिग्रस्त न हों ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनो राज्ञः शिल्पिनश्च गुणकर्माणि वर्ण्यन्ते।

पदार्थान्वयभाषाः -

प्रथमः—परमात्मपरः। हे (वास्तोः पते) ब्रह्माण्डगृहस्य स्वामिन् इन्द्र परमेश्वर ! वास्तोष्पतिः, वास्तुः वसतेः निवासकर्मणः, तस्य पाता वा पालयिता वा। निरु० १०।१७। ‘षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु। अ० ८।३।५३’ इति विसर्गस्य सत्वे मूर्धन्यादेशः। त्वम् (सोम्यानाम्२) शान्तिमयानां शान्तिसम्पादिनां ब्रह्मानन्दरूपसोमाभिषवयोग्यानां वा त्वत्स्तोतॄणाम्। सोम्यं सोममयम्। निरु० १०।३७। सोम्याः सोमसम्पादिनः। निरु० ११।१८। यद्वा ‘सोममर्हति यः। अ० ४।४।१३७’ इति अर्हार्थे यः प्रत्ययः। (ध्रुवा स्थूणा३) स्थिरः आधारस्तम्भः असि, आधारस्तम्भ इवाश्रयभूतोऽसीत्यर्थः। किञ्च (अंसत्रम्४) धनुः कवचं च असि, धनुर्वद् विघ्नकारिषु प्रहर्त्ता कवच इव रक्षकश्चासीत्यर्थः। अंसत्रम् अंहसस्त्राणं धनुर्वा कवचं वा। निरु० ५।२६। (द्रप्सः५) रसमयः आदित्यज्योतिष्को वा। द्रप्सः रसः तद्वान् ‘अर्श-आदिभ्योऽच्, अ० ५।२।१२७’ इति मतुबर्थे अच् प्रत्ययः। यो वा अस्याः पृथिव्या रसः स द्रप्सः। मै० ४।१।१०। रसो वै सः। तै० उ० २।७। असौ वा आदित्यो द्रप्सः। श० ७।४।१।२०। (शश्वतीनाम्) चिरन्तनीनाम् (पुराम्) कामक्रोधादिरिपुकृतानां दुर्गपरम्पराणाम् (भेत्ता) भेदकः (इन्द्रः) परमेश्वरस्त्वम् (मुनीनाम्) मुनिसाधनारतानाम् (सखा) मित्रम् असि ॥ अत द्वितीयः—राष्ट्रपरः। हे (वास्तोः पते) राष्ट्रगृहस्य अधिपते राजन् ! त्वम् (सोम्यानाम्) राष्ट्रयज्ञरूपसोमयागसम्पादिनाम् प्रजाजनानाम् (ध्रुवा स्थूणा) स्थिरः आधारस्तम्भः, (अंसत्रम्) धनुः कवचं च भव, आधारस्तम्भो भूत्वा प्रजाजनेभ्य आश्रयं प्रदेहि, धनुः कवचं च भूत्वा शत्रूनाक्रमस्व प्रजाश्च शत्रुजन्याघातेभ्यः त्रायस्वेत्यर्थः। (द्रप्सः) प्रेमरसागारः, आदित्यवद् ज्योतिष्मान् (शश्वतीनाम्) चिरन्तनीनाम् (पुराम्) शत्रुनगरीणाम् (भेत्ता) विदारयिता (इन्द्रः) सम्राट् त्वम् (मुनीनाम्) मुनिवृत्त्या वनेषु वसतां वानप्रस्थानाम् (सखा) मित्रं, (मित्रवद्) हितचिन्तकः, भवेति शेषः ॥ अथ तृतीयः—शिल्पिपरः। हे (वास्तोः पते) वास्तुकलाविशेषज्ञ गृहनिर्माणकुशल शिल्पिन् ! अवधेहि, (सोम्यानाम्) सोमं यज्ञम् ऐश्वर्यं वा अर्हन्तीति सोम्याः याज्ञिका गृहस्थाः तेषाम् (स्थूणा) गृहाधारभित्तिस्तम्भश्रेणी (ध्रुवा) सुदृढा भवेत्, किञ्च (अंसत्रम्) अंसान् गृहस्कन्धभूतान् भित्त्यादिकान् त्रायते रक्षति इति अंसत्रम् छदिः अपि ध्रुवं सुदृढं भवेत्। यतः कदाचित् (द्रप्सः) वर्षोदकम्। द्रप्सः संभृतः प्सानीयो भवति—इति निरुक्तम् ५।१३। (शश्वतीनाम्) चिरात् स्थितानाम् अपि (पुराम्) नगरीणाम्, तद्गतभवनानामित्यर्थः। (भेत्ता) विदारयिता जायते। ननु मुनीनां गृहविषये कुतो न प्रार्थयसे इति चेत् उच्यते—(मुनीनाम्) वानप्रस्थवृत्त्या वने वसतां मुनीनाम् तु (इन्द्रः) परमेश्वरः (सखा) मित्रम् अस्ति, ते तु परमात्मैकशरणा बाह्यसुखनिरपेक्षा वने वृक्षमूले कुटीरस्था अपि स्वात्मनः सुखिनो मन्यन्ते इति भावः ॥३॥ अत्र श्लेषालङ्कारः। आद्ये व्याख्यानद्वये इन्द्रे अंसत्रस्थूणयोरारोपाद् रूपकमपि ॥३॥

भावार्थभाषाः -

स एव राजा श्रेष्ठोऽस्ति यः परमेश्वरगुणाननुसरन् प्रजाया आधारस्तम्भः, शत्रुहन्ता, स्वजनरक्षकः, स्नेहरसागारः, सूर्यज्योतिष्कः, मुनीनां मित्रवद्धितकर्ता च भवति। वास्तुकलाविदां च कर्तव्यमस्ति यत् ते राष्ट्रे तथा सुदृढानि गृहाणि कुशलैः शिल्पिभिर्निर्मापयेयुर्यथा तानि धारासारवृष्टिझञ्झावातादिभिरपि न कामपि क्षतिं प्राप्नुयुः ॥३॥

टिप्पणी: १. ऋ० ८।१७।१४ देवता इन्द्रः वास्तोष्पतिर्वा। ‘द्रप्सः पुरां भेत्ता’ इत्यत्र ‘द्रप्सो भेत्ता पुरां’ इति पाठः। २. (सोम्यानाम्) सोमवच्छान्त्यादिगुणयुक्तानाम्। इति ऋ० ४।१७।१७ भाष्ये द०। सोमसम्पादिनां यजमानानाम् इत्यर्थः—इति वि०। सोमार्हाणां विप्राणाम्—इति भ०। सोमार्हाणां सोमसम्पादिनां वाऽस्माकम्—इति सा०। ३. लुप्तोपममेतद् द्रष्टव्यम्। ध्रुवा स्थूणा इव। यथा गृहस्य ध्रुवा स्थूणा आश्रयभूता तद्वत् त्वम् आश्रयभूत इत्यर्थः—इति वि०। ध्रुवा स्थूणा इत्युपमा। स्थूणावद् धारकः विश्वस्य—इति भ०। हे वास्तोष्पते गृहपते, स्थूणा गृहाधारभूतः स्तम्भः ध्रुवा स्थिरा भवतु—इति सा०। ४. अंसत्रम्। एतदपि लुप्तोपमम्। अंसत्रमिव। अंसत्रं धनुः कवचं वा। तद् यथा शत्रूणां जेतृ पालयितृ वा तद्वत् त्वं जेता पालयिता वेत्यर्थः—इति वि०। ५. द्रप्सः सोमरसः। अन्तर्णीतमत्वर्थं चेदं द्रष्टव्यम्। द्रप्सवान् सोमरसवानित्यर्थः—इति वि०। द्रप्सः गन्ता सर्वत्र—इति भ०। द्रवणशीलः सोमः तद्वान्। अर्शआदित्वादच् प्रत्ययः—इति सा०। ‘दृप हर्षणमोहनयोः’ इत्यस्मादौणादिकः सः प्रत्ययः, किच्च, ‘अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्, अ० ६।१।५९’ अमुनाऽमागमः, इति य० १।२६ भाष्ये द०।