क꣣ङ्काः꣡ सु꣢प꣣र्णा꣡ अनु꣢꣯ यन्त्वेना꣣न्गृ꣡ध्रा꣢णा꣣म꣡न्न꣢म꣣सा꣡वस्तु꣣ से꣡ना꣢ । मै꣡षां꣢ मोच्यघहा꣣र꣢श्च꣣ ने꣢न्द्र꣣ व꣡या꣢ꣳस्येनाननु꣣सं꣡य꣢न्तु꣣ स꣡र्वा꣢न् ॥१८६४
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)कङ्काः सुपर्णा अनु यन्त्वेनान्गृध्राणामन्नमसावस्तु सेना । मैषां मोच्यघहारश्च नेन्द्र वयाꣳस्येनाननुसंयन्तु सर्वान् ॥१८६४
क꣣ङ्काः꣢ । सु꣣प꣢र्णाः । सु꣣ । पर्णाः꣢ । अ꣡नु꣢꣯ । य꣣न्तु । एनान् । गृ꣡ध्रा꣢꣯णाम् । अ꣡न्न꣢꣯म् । अ꣣सौ꣢ । अ꣣स्तु । से꣡ना꣢꣯ । मा । ए꣣षाम् । मोचि । अघहारः꣢ । अ꣣घ । हारः꣢ । च꣣ । न꣢ । इ꣣न्द्र । व꣡या꣢꣯ꣳसि । ए꣣नान् । अ꣣नु꣡संय꣢न्तु । अ꣣नु । सं꣡य꣢꣯न्तु । स꣡र्वा꣢꣯न् ॥१८६४॥
हिन्दी : आचार्य रामनाथ वेदालंकार
प्रथम मन्त्र में शत्रुसेना के समूलोच्छेद का विषय है।
(सुपर्णाः) सुदृढ़ पङ्खोंवाली (कङ्काः) चीलें (एनान्) इन शत्रुओं का (अनुयन्तु) पीछा करें। (असौ सेना) वह शत्रु-सेना (गृध्राणाम्) गिद्धों का (अन्नम् अस्तु) भोजन बने। हे (इन्द्र) सेनापतितुल्य जीवात्मन् ! (एषाम्) इन शत्रुओं में से (अघहारः च न) पाप का भागी कोई भी (मा मोचि) जिन्दा न छूटे। (एनान् सर्वान्) इन सबका (वयांसि) माँसभक्षी पक्षी (अनु संयन्तु) पीछा करें, इन्हें खा जाएँ ॥१॥
जैसे बाह्य युद्ध में मारे गये शत्रु गिद्ध आदि माँसभक्षक पक्षियों से समाप्त किये जाते हैं, वैसे ही आन्तरिक देवासुरसङ्ग्राम में जीवात्मा से मारे गये काम-क्रोध आदि शत्रुओं का नाम भी न बचे, ऐसा प्रयत्न मनुष्यों को करना चाहिए ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार
तत्रादौ शत्रुसेनायाः समूलोच्छेदविषयं प्राह।
(सुपर्णाः) दृढपर्णाः (कङ्काः) चिल्लपक्षिणः (एनान्) इमान् शत्रून् (अनु यन्तु) अनुगच्छन्तु। (असौ सेना) शत्रूणां सा चमूः, (गृध्राणाम्) एतन्नाम्नां पक्षिणाम् (अन्नम् अस्तु) भोजनं भवतु। हे (इन्द्र) सेनापतिरिव वीर जीवात्मन् ! (एषाम्) शत्रूणाम् (अघहारः च न) पापहारकः कश्चिदपि (मा मोचि) न मुच्यताम्। (एनान् सर्वान्) इमान् निःशेषानपि (वयांसि) क्रव्यादाः पक्षिणः (अनु संयन्तु) अनुप्राप्नुवन्तु भक्षयन्त्वित्यर्थः ॥१॥
यथा बाह्ये रणे मारिताः शत्रवो गृध्रादिभिर्मांसभक्षकैः पक्षिभिः निःशेषाः क्रियन्ते तथैवाभ्यन्तरे देवासुरसंग्रामे जीवात्मना हतानां कामक्रोधादीनां सपत्नानां यथा नामापि च शिष्येत तथा मनुष्यैः प्रयतनीयम् ॥१॥