अ꣣स्मा꣢क꣣मि꣢न्द्रः꣣ स꣡मृ꣢तेषु ध्व꣣जे꣢ष्व꣣स्मा꣢कं꣣ या꣡ इष꣢꣯व꣣स्ता꣡ ज꣢यन्तु । अ꣣स्मा꣡कं꣢ वी꣣रा꣡ उत्त꣢꣯रे भवन्त्व꣣स्मा꣡ꣳ उ꣢ देवा अवता꣣ ह꣡वे꣢षु ॥१८५९॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु । अस्माकं वीरा उत्तरे भवन्त्वस्माꣳ उ देवा अवता हवेषु ॥१८५९॥
अ꣣स्मा꣡क꣢म् । इ꣡न्द्रः꣢꣯ । स꣡मृ꣢꣯तेषु । सम् । ऋ꣣तेषु । ध्वजे꣡षु꣢ । अ꣣स्मा꣡क꣢म् । याः । इ꣡ष꣢꣯वः । ताः । ज꣣यन्तु । अस्मा꣡क꣢म् । वी꣣राः꣢ । उ꣡त्त꣢꣯रे । भ꣣वन्तु । अस्मा꣢न् । उ꣡ । देवाः । अवत । ह꣡वे꣢꣯षु ॥१८५९॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अब विजय की प्रार्थना करते हैं।
(अस्माकम् इन्द्रः) हमारा सेनापति-तुल्य जीवात्मा (ध्वजेषु समृतेषु) हमारे ध्वजों के शत्रु-ध्वजों से टकराने पर (जयतु) विजय-लाभ करे। (अस्माकं याः इषवः) हमारे जो बाण हैं,(ताः जयन्तु) वे विजय-लाभ करें। (अस्माकं वीराः) हमारे रण-कुशल वीर योद्धा (उत्तरे भवन्तु) विजयी हों। हे (देवाः) जीतने के अभिलाषी मन, बुद्धि आदियो ! (अस्मान् उ) हमारी (हवेषु) देवासुरसङ्ग्रामों में (अवत) रक्षा करो ॥२॥
जैसे सेनापति से प्रोद्बोधन पाकर रणबाँकुरे सैनिक शीघ्र ही शत्रुओं को जीत लेते हैं, वैसे ही अपनी अन्तरात्मा को प्रोत्साहन देना वीरों के विजय में हेतु बनता है ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ विजयः प्रार्थ्यते।
(अस्माकम् इन्द्रः) अस्मदीयः सेनापतिरिव जीवात्मा (ध्वजेषु समृतेषु२) पताकासु शत्रुपताकाभिः सह संगतासु सतीषु [जयतु] विजयं लभताम्। (अस्माकम् या इषवः) आस्माकीनाः याः बाणपङ्क्तयः (ताः जयन्तु) ताः विजयं लभन्ताम्। (अस्माकं वीराः) अस्मदीया रणकुशलाः शूरा योद्धारः (उत्तरे भवन्तु) विजयिनः सन्तु। हे (देवाः) विजिगीषवो मनोबुद्ध्यादयः ! (अस्मान् उ) अस्मान् खलु (हवेषु३) देवासुरसङ्ग्रामेषु (अवत) रक्षत ॥२॥४
यथा सेनापतेः सकाशात् प्रोद्बोधनं प्राप्य रणोद्भटाः सैनिकाः सत्वरं शत्रून् विजयन्ते, तथैव स्वान्तरात्मनः प्रोत्साहनं वीराणां विजयहेतुर्जायते ॥२॥