वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: अप्रतिरथ ऐन्द्रः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

इ꣡न्द्र꣢ आसां ने꣣ता꣢꣫ बृह꣣स्प꣢ति꣣र्द꣡क्षि꣢णा य꣣ज्ञः꣢ पु꣣र꣡ ए꣢तु꣣ सो꣡मः꣢ । दे꣣वसेना꣡ना꣢मभिभञ्जती꣣नां꣡ जय꣢꣯न्तीनां म꣣रु꣡तो꣢ य꣣न्त्व꣡ग्र꣢म् ॥१८५६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः । देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् ॥१८५६॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्रः꣢꣯ । आ꣣साम् । नेता꣢ । बृ꣡हः꣢꣯ । प꣡तिः꣢꣯ । द꣡क्षि꣢꣯णा । य꣣ज्ञः꣢ । पु꣣रः꣢ । ए꣣तु । सो꣡मः꣢꣯ । दे꣣वसेना꣡ना꣢म् । दे꣣व । सेना꣡ना꣢म् । अ꣣भिभञ्जतीना꣢म् । अ꣣भि । भञ्जतीना꣢म् । ज꣡य꣢꣯न्तीनाम् । म꣣रु꣡तः꣢ । य꣣न्तु । अ꣡ग्र꣢꣯म् ॥१८५६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1856 | (कौथोम) 9 » 3 » 3 » 2 | (रानायाणीय) 21 » 1 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में जीवात्मा की सेनाध्यक्षता में विजयार्थ युद्ध प्रयाण का वर्णन है।

पदार्थान्वयभाषाः -

(बृहः पतिः) महान् शरीर-रूप राष्ट्र का रक्षक (इन्द्रः) वीर जीवात्मा-रूप सेनापति (आसाम्) इन देव-सेनाओं का (नेता) नेता हो। (दक्षिणा) त्याग की भावना, (यज्ञः) परमेश्वरपूजारूप यज्ञ (सोमः) और शान्ति का व्रत (पुरः एतु) आगे-आगे चले। (अभिभञ्जतीनाम्) अदिव्य भावों तथा अधार्मिक दुष्ट-जनों को तोड़ती-फोड़ती-कुचलती हुई, (जयन्तीनाम्), विजय का उत्कर्ष प्राप्त करती हुई (देवसेनानाम्) दिव्यभावों तथा सदाचारी विद्वान् जनों की सेनाओं के (अग्रम्) आगे-आगे (मरुतः) प्राण तथा वायुवत् बलिष्ठ शूरवीर लोग (यन्तु) चलें ॥२॥

भावार्थभाषाः -

सबको चाहिए कि अपने जीवात्मा को सेनापति बनाकर त्याग, परमात्मा की उपासना और विश्वशान्ति का आदर्श सामने रख कर, सत्य-अहिंसा आदि दिव्य गुणों की तथा बलिष्ठ योद्धाओं की सेना लेकर, प्राणपण से युद्ध करके देवासुरसङ्ग्राम में विजय प्राप्त करें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ जीवात्मनः सेनाध्यक्षत्वे विजयार्थं युद्धप्रयाणं वर्ण्यते।

पदार्थान्वयभाषाः -

(बृहः पतिः) बृहतः शरीरराष्ट्रस्य पाता, (इन्द्रः) वीरः जीवात्मरूपः सेनापतिः (आसाम्) देवसेनानाम् (नेता) नायको भवतु। (दक्षिणा) त्यागभावना, (यज्ञः) परमात्मपूजनरूपो यज्ञः (सोमः) शान्तिव्रतं च (पुरः एतु) अग्रे गच्छतु। (अभिभञ्जतीनाम्) अदिव्यान् भावान् अधार्मिकान् दुष्टजनांश्च आमृद्नन्तीनाम्, (जयन्तीनाम्) विजयोत्कर्षं प्राप्नुवतीनाम् (देवसेनानाम्) दिव्यभावचमूनां सदाचारिविद्वच्चमूनां च (अग्रम्) अग्रगामित्वेन (मरुतः) प्राणाः वायुवद् बलिष्ठाः शूरवीराश्च (यन्तु) गच्छन्तु ॥२॥

भावार्थभाषाः -

स्वजीवात्मानं सेनापतिं विधाय, त्यागं परमात्मोपासनं विश्वशान्तिं चादर्शं सम्मुखं कृत्वा, सत्याहिंसादीनां बलिष्ठानां योद्धॄणां च सेनां गृहीत्वा प्राणपणेन युद्ध्वा सर्वैर्देवासुरसंग्रामे विजयः प्राप्तव्यः ॥२॥