वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: अग्निः पावकः छन्द: सतोबृहती स्वर: पञ्चमः काण्ड:

इ꣣ष्कर्त्ता꣡र꣢मध्व꣣रस्य꣣ प्र꣡चे꣢तसं꣣ क्ष꣡य꣢न्त꣣ꣳ रा꣡ध꣢सो म꣣हः꣢ । रा꣣तिं꣢ वा꣣म꣡स्य꣢ सु꣣भ꣡गां꣢ म꣣ही꣢꣯मिषं꣣ द꣡धा꣢सि सान꣣सि꣢ꣳ र꣣यि꣢म् ॥१८२०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इष्कर्त्तारमध्वरस्य प्रचेतसं क्षयन्तꣳ राधसो महः । रातिं वामस्य सुभगां महीमिषं दधासि सानसिꣳ रयिम् ॥१८२०॥

मन्त्र उच्चारण
पद पाठ

इ꣣ष्क꣡र्ता꣢रम् । अ꣣ध्वर꣡स्य꣢ । प्र꣡चे꣢तसम् । प्र । चे꣡तसम् । क्ष꣡य꣢꣯न्तम् । रा꣡ध꣢꣯सः । म꣡हः꣢꣯ । रा꣣ति꣢म् । वा꣣म꣡स्य꣢ । सु꣣भ꣡गा꣢म् । सु꣣ । भ꣡गा꣢꣯म् । म꣣ही꣢म् । इ꣡ष꣢꣯म् । द꣡धा꣢꣯सि । सा꣣नसि꣢म् । र꣣यि꣢म् ॥१८२०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1820 | (कौथोम) 9 » 2 » 1 » 5 | (रानायाणीय) 20 » 5 » 2 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमेश्वर के गुण-कर्म-स्वभावों का वर्णन है।

पदार्थान्वयभाषाः -

हे जगदीश्वर ! (अध्वरस्य) जीवन-यज्ञ के (इष्कर्तारम्) संस्कृत करनेवाले, (प्रचेतसम्) जागृति प्रदान करनेवाले, (महः) महान् (राधसः) दिव्य धन के (क्षयन्तम्) ईश्वर, (वामस्य) सेवनीय सुरम्य ऐश्वर्य के (रातिम्) दाता आपकी हम उपासना करते हैं, आप (सुभगाम्) सौभाग्यकारिणी, (महीम्) महती (इषम्) अभीष्ट दुःखमुक्ति को और (सानसिम्) संभजनीय (रयिम्) भौतिक तथा दिव्य ऐश्वर्य को (दधासि) प्रदान करते हो ॥५॥

भावार्थभाषाः -

आराधना किया हुआ परमेश्वर उपासकों को जागरूक करके और उन्हें सारी अभीष्ट लौकिक तथा दिव्य सम्पदा प्रदान करके कृतार्थ करता है ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरस्य गुणकर्मस्वभावानाह।

पदार्थान्वयभाषाः -

हे जगदीश्वर ! (अध्वरस्य) जीवनयज्ञस्य (इष्कर्तारम्) संस्कर्तारम्, (प्रचेतसम्) प्रचेतयति जागरयतीति प्रचेताः तम्, (महः) महतः (राधसः) दिव्यस्य धनस्य (क्षयन्तम्) ईश्वरम्। [क्षयतिरैश्वर्यकर्मा। निघं० २।२१।] (वामस्य) वननीयस्य चारुणः ऐश्वर्यस्य (रातिम्) दातारम्। [रा दाने कर्तरि क्तिन्।] त्वां वयम् उपास्महे इति शेषः। त्वम् (सुभगाम्) सौभाग्यकारिणीम्, (महीम्) महतीम् (इषम्) अभीष्टां दुःखमुक्तिम्, अपि च (सानसिम्) संभजनीयम् (रयिम्) भौतिकं दिव्यं चैश्वर्यम् (दधासि) प्रयच्छसि ॥५॥२

भावार्थभाषाः -

आराधितः परमेश्वर उपासकान् जागरूकान् विधाय तेभ्यः सकलामभीष्टां लौकिकीं दिव्यां च सम्पदं प्रदाय तान् कृतार्थयति ॥५॥