वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: अग्निः पावकः छन्द: सतोबृहती स्वर: पञ्चमः काण्ड:

ऊ꣡र्जो꣢ नपाज्जातवेदः सुश꣣स्ति꣢भि꣣र्म꣡न्द꣢स्व धी꣣ति꣡भि꣢र्हि꣣तः꣢ । त्वे꣢꣫ इषः꣣ सं꣡ द꣢धु꣣र्भू꣡रि꣢वर्पसश्चि꣣त्रो꣡त꣢यो वा꣣म꣡जा꣢ताः ॥१८१८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः । त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ॥१८१८॥

मन्त्र उच्चारण
पद पाठ

ऊ꣡र्जः꣢꣯ । न꣣पात् । जातवेदः । जात । वेदः । सुशस्ति꣡भिः꣢ । सु꣣ । शस्ति꣡भिः꣢ । म꣡न्द꣢꣯स्व । धी꣣ति꣡भिः꣢ । हि꣣तः꣢ । त्वे꣡इति꣢ । इ꣡षः꣢꣯ । सम् । द꣣धुः । भू꣡रि꣢꣯वर्पसः । भू꣡रि꣢꣯ । व꣣र्पसः । चित्रो꣡त꣢यः । चि꣣त्र꣢ । ऊ꣣तयः । वाम꣡जा꣢ताः । वा꣣म꣢ । जा꣣ताः ॥१८१८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1818 | (कौथोम) 9 » 2 » 1 » 3 | (रानायाणीय) 20 » 5 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (ऊर्जः नपात्) बल और प्राणशक्ति को न गिरने देनेवाले, प्रत्युत बढ़ानेवाले (जातवेदः) सर्वज्ञ, सर्वान्तर्यामी जगत्पति परमात्मन् ! (धीतिभिः) ध्यान-क्रियाओं से (हितः) हृदय में धारण किये हुए आप (सुशस्तिभिः) उत्तम प्रशस्तियों से (मन्दस्व) हमें आनन्दित करो। (भूरिवर्पसः) बहुत से रूपों अर्थात् गुणोंवाले, (चित्रोतयः) मञ्जुल आचरणोंवाले (वामजाताः) सेवनीय आचार्य से श्रेष्ठ जन्म को प्राप्त उपासक (त्वयि) आप में (इषः) अपनी अभिलाषाओं को (संदधुः) सञ्जोये हुए हैं ॥३॥

भावार्थभाषाः -

जो मनुष्य अपने आपको परमात्मा में समर्पित कर देते हैं, वे सुप्रशस्तिमान् और सुकीर्तिमान् होते हैं ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानं प्रार्थयते।

पदार्थान्वयभाषाः -

हे (ऊर्जः नपात्) बलस्य प्राणशक्तेश्च न पातयितः प्रत्युत प्रवर्धक (जातवेदः) सर्वज्ञ, सर्वान्तर्यामिन् जगत्पते ! (धीतिभिः) ध्यानक्रियाभिः (हितः) हृदि निहितस्त्वम् (सुशस्तिभिः) सुप्रशस्तिभिः, अस्मान् (मन्दस्व) मोदयस्व [मन्दतिरत्र ण्यर्थगर्भो बोध्यः] (भूरिवर्पसः) बहुरूपाः, विविधगुणा इत्यर्थः। [वर्प इति रूपनाम। निघं० ३।७।] (चित्रोतयः) चित्रा मञ्जुला ऊतिः गतिः आचारो येषां ते। [ऊतिः, अव रक्षणगत्यादिषु। ‘ऊतियूतिजूति०’ अ० ३।३।९७ इत्युदात्ते क्तिनि ‘ज्वरत्वर०’ अ० ६।४।२० इति ऊठ्।] (वामजाताः) सेवनीयात् आचार्यात् प्राप्तश्रेष्ठजन्मानः उपासकाः (त्वे) त्वयि (इषः) स्वकीयान् अभिलाषान् (संदधुः) समर्पयन्ति ॥३॥२

भावार्थभाषाः -

ये जनाः स्वात्मानं परमात्मने समर्पयन्ति ते सुप्रशस्तयः सुकीर्तिमन्तश्च जायन्ते ॥३॥