वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अश्विनौ ऋषि: दीर्घतमा औचथ्यः छन्द: जगती स्वर: निषादः काण्ड:

अ꣣र्वा꣡ङ्त्रि꣢च꣣क्रो꣡ म꣢धु꣣वा꣡ह꣢नो꣣ र꣡थो꣢ जी꣣रा꣡श्वो꣢ अ꣣श्वि꣡नो꣢र्यातु꣣ सु꣡ष्टु꣢तः । त्रि꣣वन्धुरो꣢ म꣣घ꣡वा꣢ वि꣣श्व꣡सौ꣢भगः꣣ शं꣢ न꣣ आ꣡ व꣢क्षद्द्वि꣣प꣢दे꣣ च꣡तु꣢ष्पदे ॥१७६०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः । त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे ॥१७६०॥

मन्त्र उच्चारण
पद पाठ

अ꣣र्वा꣢ङ् । त्रि꣣चक्रः꣢ । त्रि꣣ । चक्रः꣢ । म꣣धुवा꣡ह꣢नः । म꣣धु । वा꣡ह꣢꣯नः । र꣡थः꣢꣯ । जी꣣रा꣡श्वः꣢ । जी꣣र꣢ । अ꣣श्वः । अश्वि꣡नोः꣢ । या꣣तु । सु꣡ष्टु꣢꣯तः । सु । स्तु꣣तः । त्रिवन्धुरः꣢ । त्रि꣣ । वन्धुरः꣢ । म꣣घ꣡वा꣢ । वि꣣श्व꣡सौ꣢भगः । वि꣣श्व꣡ । सौ꣣भगः । श꣢म् । नः꣣ । आ꣢ । व꣣क्षत् । द्विप꣡दे꣢ । द्वि꣣ । प꣡दे꣢꣯ । च꣡तु꣢꣯ष्पदे । च꣡तुः꣢꣯ । प꣣दे ॥१७६०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1760 | (कौथोम) 8 » 3 » 17 » 3 | (रानायाणीय) 19 » 5 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर उसी विषय का वर्णन है।

पदार्थान्वयभाषाः -

(अश्विनोः) प्राणापानों का (त्रिचक्रः) आत्मा, मन और प्राण इन तीन चक्रोंवाला, (मधुवाहनः) मधुर गतिवाला, (जीराश्वः) वेगवान् इन्द्रिय-रूप घोड़ोंवाला, (सुष्टुतः) सुप्रंशसित, (त्रिबन्धुरः) सत्त्व, रजस्, तमस् इन तीन बन्धनोंवाला, (मघवा) ब्रह्मबल और क्षात्रबल रूप धनवाला, (विश्वसौभगः) सब सौभाग्यों से युक्त (रथः) देह-रूप रथ (अर्वाङ्) हमारे अनुकूल (यातु) चले। साथ ही (नः) हमारे (द्विपदे) दोपायों और (चतुष्पदे) चौपायों को (शम्) सुख (आवक्षत्) प्राप्त कराये ॥३॥

भावार्थभाषाः -

प्राणापानों के ही सामर्थ्य से मनुष्यों का शरीर-रथ सबल, सफल क्रियावाला, सज्जनों का हितकारी, गाय-घोड़े आदि उपयोगी पशुओं को सुख देनेवाला और दुष्टों का विध्वंस करनेवाला होता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तमेव विषयं वर्णयति।

पदार्थान्वयभाषाः -

(अश्विनोः) प्राणापानयोः (त्रिचक्रः) त्रीणि आत्ममनःप्राणरूपाणि चक्राणि यस्मिन् सः, (मधुवाहनः) मधुरगतिः, (जीराश्वः) जीराः वेगवन्तः अश्वाः इन्द्रियरूपा यस्मिन् सः। [जीराः इति क्षिप्रनामसु पठितम्। निघं० २।१५।] (सुष्टुतः) सुप्रशंसितः, (त्रिबन्धुरः) त्रयः सत्त्वरजस्तमोरूपाः बन्धुराः बन्धाः यस्मिन् सः, (मघवा) ब्रह्मक्षत्ररूपधनः, (विश्वसौभगः) अखिलसौभाग्योपेतः (रथः) देहशकटः (अर्वाङ्) अस्मदनुकूलम् (यातु) चलतु। किञ्च (नः) अस्माकम् (द्विपदे) मनुष्याद्याय (चतुष्पदे) गवाद्याय च (शम्) सुखम् (आ वक्षत्) आवहतु। [वहेर्लेटि सिबडागमौ] ॥३॥२

भावार्थभाषाः -

प्राणापानयोरेव सामर्थ्येन मनुष्याणां शरीररथः सबलः सफलक्रियः सज्जनानां हितावहो गवाश्वादीनामुपयोगिनां पशूनां सुखकरो दुष्टानां विध्वंसकरश्च जायते ॥३॥