वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अश्विनौ ऋषि: अत्रिर्भौमः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

आ꣡ भा꣢त्य꣣ग्नि꣢रुष꣣सा꣢म꣣नी꣡क꣢मु꣣द्वि꣡प्रा꣢꣯णां देव꣣या꣡ वाचो꣢꣯ अस्थुः । अ꣣र्वा꣡ञ्चा꣢ नू꣣न꣡ꣳ र꣢थ्ये꣣ह꣡ या꣢तं पीपि꣣वा꣡ꣳस꣢मश्विना घ꣣र्म꣡मच्छ꣢꣯ ॥१७५२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः । अर्वाञ्चा नूनꣳ रथ्येह यातं पीपिवाꣳसमश्विना घर्ममच्छ ॥१७५२॥

मन्त्र उच्चारण
पद पाठ

आ꣡ । भा꣢ति । अग्निः꣣ । उ꣣ष꣡सा꣢म् । अ꣡नी꣢꣯कम् । उत् । वि꣡प्रा꣢꣯णाम् । वि । प्रा꣣णाम् । देवयाः꣢ । दे꣣व । याः꣢ । वा꣡चः꣢꣯ । अ꣣स्थुः । अर्वा꣡ञ्चा꣢ । नू꣣न꣢म् । र꣣थ्या । इह꣢ । या꣣तम् । पीपिवा꣡ꣳस꣢म् । अ꣣श्विना । घर्म꣢म् । अ꣡च्छ꣢꣯ ॥१७५२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1752 | (कौथोम) 8 » 3 » 15 » 1 | (रानायाणीय) 19 » 4 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में प्राणायाम का वर्णन है।

पदार्थान्वयभाषाः -

(अग्निः) यज्ञाग्नि (आ भाति) आभासित हो रही है, (उषसाम्) उषाओं की (अनीकम्) किरण-सेना भी (आ भाति) आभासित हो रही है। (विप्राणाम्) मेधावी उपासकों की (देवयाः) परमात्माराधना की इच्छुक (वाचः) वाणियाँ (उद् अस्थुः) उठ रही हैं। हे (रथ्या) शरीर-रथ को चलानेवाले (अश्विना) प्राणापानो ! तुम दोनों (अर्वाञ्चा) हमारे अभिमुख होते हुए (नूनम्) निश्चय ही (इह) यहाँ (पीपिवांसम्) समृद्ध (घर्मम्) प्रातःकालीन ब्रह्मयज्ञ के (अच्छ) प्रति (आ यातम्) आओ ॥१॥

भावार्थभाषाः -

उषाकाल में स्वच्छ प्राभातिक वायु में ब्रह्मयज्ञ में किया गया प्राणायाम अपूर्व, तेज, जागृति, स्फूर्ति, आरोग्य और बल प्रदान करता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ प्राणायामविषयं वर्णयति।

पदार्थान्वयभाषाः -

(अग्निः) यज्ञाग्निः (आ भाति) आभासते, (उषसाम्) प्रभातकान्तीनाम् (अनीकम्) किरणसैन्यमपि (आ भाति) आ भासते। (विप्राणाम्) मेधाविनाम् उपासकानाम् (देवयाः) परमात्माराधनकामाः (वाचः) गिरः (उद् अस्थुः) उत्तिष्ठन्ति। हे (रथ्या) रथ्यौ देहरथवोढारौ (अश्विना) अश्विनौ प्राणापानौ। युवाम् (अर्वाञ्चा) अर्वाञ्चौ अस्मदभिमुखौ सन्तौ (नूनम्) निश्चयेन (इह) अत्र (पीपिवांसम्) आप्यायितम्। [ओप्यायी वृद्धौ, लिटः क्वसुः, प्यायः पी आदेशः।] (धर्मम्) प्रातःकालिकं ब्रह्मयज्ञम् (अच्छ) प्रति (आ यातम्) आगच्छतम् ॥१॥२

भावार्थभाषाः -

उषःकाले स्वच्छे प्रभातवायौ ब्रह्मयज्ञे कृतः प्राणायामोऽपूर्वं तेजो जागर्तिं स्फूर्तिमारोग्यं बलं च प्रयच्छति ॥१॥