वांछित मन्त्र चुनें
आर्चिक को चुनें

य꣡दीं꣢ ग꣣ण꣡स्य꣢ रश꣣ना꣡मजी꣢꣯गः꣣ शु꣡चि꣢रङ्क्ते꣣ शु꣡चि꣢भि꣣र्गो꣡भि꣢र꣣ग्निः꣢ । आ꣡द्दक्षि꣢꣯णा युज्यते वाज꣣य꣡न्त्यु꣢त्ता꣣ना꣢मू꣣र्ध्वो꣡ अ꣢धयज्जु꣣हू꣡भिः꣢ ॥१७४८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यदीं गणस्य रशनामजीगः शुचिरङ्क्ते शुचिभिर्गोभिरग्निः । आद्दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभिः ॥१७४८॥

मन्त्र उच्चारण
पद पाठ

य꣢त् । ई꣣म् । ग꣡ण꣢स्य । र꣣शना꣢म् । अ꣡जी꣢꣯ग꣣रि꣡ति꣢ । शु꣡चिः꣢꣯ । अ꣣ङ्क्ते । शु꣡चि꣢꣯भिः । गो꣡भिः꣢꣯ । अ꣣ग्निः꣢ । आत् । द꣡क्षि꣢꣯णा । यु꣣ज्यते । वाजय꣡न्ति꣢ । उ꣣त्ताना꣢म् । ऊ꣣र्ध्वः । अ꣣धयत् । जुहू꣡भिः꣢ ॥१७४८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1748 | (कौथोम) 8 » 3 » 13 » 3 | (रानायाणीय) 19 » 4 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में उपास्य-उपासक का विषय है।

पदार्थान्वयभाषाः -

(यत्) जब (ईम्) यह उपासक (गणस्य) स्तुति-समूह की (रशनाम्) शृङ्खला को (अजीगः) ध्वनित करता है, तब (शुचिः) पवित्र और देदीप्यमान (अग्निः) परमेश्वर (शुचिभिः) पवित्र और देदीप्यमान (गोभिः) तेजों से (अङ्क्ते) उसे प्रकाशित करता है। (आत्) तदनन्तर (वाजयन्ति) उपासक को बलवान् करती हुई (दक्षिणा) आत्मसमर्पण की क्रिया (युज्यते) प्रवृत्त होती है। (ऊर्ध्वः) सर्वोन्नत जगदीश्वर (जुहूभिः) वाणियों से (उत्तानाम्) उच्चारण की हुई स्तुति को (अधयत्) पान करता है ॥३॥

भावार्थभाषाः -

उपासक के हृदय से निकली हुई पवित्र स्तुति को जगदीश्वर अवश्य स्वीकार करता है और उपासक को कृतकृत्य कर देता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथोपास्योपासकविषयमाह।

पदार्थान्वयभाषाः -

(यत्) यदा (ईम्) अयम् उपासकः (गणस्य) स्तोत्रसमूहस्य (रशनाम्) शृङ्खलाम् (अजीगः) गृणाति शब्दयति। [गॄ शब्दे धातोर्लडर्थे लुङ्।] तदा (शुचिः) पवित्रः शोचमानश्च (अग्निः) परमेश्वरः (शुचिभिः) पवित्रैः शोचमानैश्च (गोभिः) तेजोभिः (अङ्क्ते) तं प्रकाशयति। [अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु।] (आत्) तदनन्तरम् (वाजयन्ती) उपासकं बलिनं कुर्वती (दक्षिणा) आत्मसमर्पणक्रिया (युज्यते) प्रवर्तते। (ऊर्ध्वः) सर्वोन्नतो जगदीश्वरः, (जुहूभिः) वाग्भिः। [वाग् जुहूः। तै० आ० २।१७।२।] (उत्तानाम्) उद्गतां स्तुतिम् (अधयत्) पिबति ॥३॥२

भावार्थभाषाः -

उपासकस्य हृदयान्निर्गतां पवत्रां स्तुतिं जगदीश्वरोऽवश्यं स्वीकरोत्युपासकं च कृतकृत्यं विदधाति ॥३॥