वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अश्विनौ ऋषि: प्रस्कण्वः काण्वः छन्द: गायत्री स्वर: षड्जः काण्ड:

व꣣च्य꣡न्ते꣢ वां ककु꣣हा꣡सो꣢ जू꣣र्णा꣢या꣣म꣡धि꣢ वि꣣ष्ट꣡पि꣢ । य꣢द्वा꣣ꣳ र꣢थो꣣ वि꣢भि꣣ष्प꣡ता꣢त् ॥१७३०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि । यद्वाꣳ रथो विभिष्पतात् ॥१७३०॥

मन्त्र उच्चारण
पद पाठ

व꣣च्य꣡न्ते꣢ । वा꣣म् । ककुहा꣡सः꣢ । जू꣣र्णा꣡या꣢म् । अ꣡धि꣢꣯ । वि꣣ष्ट꣡पि꣢ । यत् । वा꣣म् । र꣡थः꣢꣯ । वि꣡भिः꣢꣯ । प꣡ता꣢꣯त् ॥१७३०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1730 | (कौथोम) 8 » 3 » 7 » 3 | (रानायाणीय) 19 » 2 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे मन और आत्मा का महत्त्व कहा गया है।

पदार्थान्वयभाषाः -

हे मन और आत्मा रूप अश्वी-युगल ! (वाम्) तुम दोनों के (ककुहासः) महान् स्तोत्र (वच्यन्ते) गान किये जाते हैं, (यत्) क्योंकि (जूर्णायाम्) वृद्ध (विष्टपि अधि) अवस्था में भी (विभिः) इन्द्रिय-रूप अश्वों द्वारा (वाम्) तुम्हारा (रथः) शरीररूप रथ (पतात्) चलता है ॥३॥

भावार्थभाषाः -

वृद्धावस्था में भी जो शरीर भली-भाँति कार्य करता है, वह सब प्राण-अपान सहित मन और आत्मा का ही प्रताप है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ मनआत्मनोर्महत्त्वमुच्यते।

पदार्थान्वयभाषाः -

हे अश्विनौ मनआत्मानौ ! (वाम्) युवयोः (ककुहासः) महान्तः स्तोमाः (वच्यन्ते) उच्यन्ते, (यत्) यतः (जूर्णायाम्) जीर्णायाम्, वृद्धायाम् (विष्टपि अधि) अवस्थायामपि (विभिः) इन्द्रियरूपैः अश्वैः (वाम्) युवयोः (रथः) देहरथः (पतात्) गच्छति। [ककुहासः, ककुह इति महन्नामसु पठितम्। निघं० ३।३। वच्यन्ते, सम्प्रसारणाच्च अ० ६।१।१०८ इत्यत्र ‘वा छन्दसि’ अ० ६।१।१०६ इत्यनुवृत्तेः पूर्वरूपाभावाद् यणादेशः। विष्टप् इति निरुक्ते (२।१४) द्युलोकवाचकोऽपि सन् अत्र आयुरवस्थाविशेषवाचको बोध्यः। विभिः वयन्ति गच्छन्तीति वयः अश्वाः, वी गत्यादिषु। पतात्, पत्लृ धातोर्लेटि रूपम्] ॥३॥२

भावार्थभाषाः -

वृद्धावस्थायामपि यच्छरीरं सम्यक् कार्यं करोति स सर्वोऽपि प्राणापानसहचरितयोर्मनआत्मनोरेव प्रतापः ॥३॥