त꣡ꣳ स꣢खायः पुरू꣣रु꣡चं꣢ व꣣यं꣢ यू꣣यं꣢ च꣢ सू꣣र꣡यः꣢ । अ꣣श्या꣢म꣣ वा꣡ज꣢गन्ध्यꣳ स꣣ने꣢म꣣ वा꣡ज꣢पस्त्यम् ॥१६८०॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)तꣳ सखायः पुरूरुचं वयं यूयं च सूरयः । अश्याम वाजगन्ध्यꣳ सनेम वाजपस्त्यम् ॥१६८०॥
त꣢म् । स꣣खायः । स । खायः । पुरूरु꣡च꣢म् । पु꣣रु । रु꣡च꣢꣯म् । व꣣य꣢म् । यू꣣य꣢म् । च꣣ । सूर꣡यः꣢ । अ꣣श्या꣢म । वा꣡ज꣢꣯गन्ध्यम् । वा꣡ज꣢꣯ । ग꣣न्ध्यम् । सने꣡म꣢ । वा꣡ज꣢꣯पस्त्यम् । वा꣡ज꣢꣯ । प꣣स्त्यम् ॥१६८०॥
हिन्दी : आचार्य रामनाथ वेदालंकार
आगे फिर वही विषय है।
हे (सखायः) साथियो ! (वयं यूयं च सूरयः) हम और तुम मेधावी उपासक (तम्) उस प्रसिद्ध, (पुरूरुचम्) बहुत तेजस्वी, (वाजगन्ध्यम्) आत्मबल को ग्रहण करानेवाले रसागार सोम प्रभु को (अश्याम) प्राप्त कर लें, (वाजपस्त्यम्) विज्ञान की प्राप्ति करानेवाले शुभगुणकर्मप्रेरक सोम जगदीश्वर को (सनेम) भज लें ॥२॥
सब साथी मिलकर श्रद्धा से तरङ्गित होते हुए यदि परमात्मा की उपासना करते हैं, तो तेज, बल, विज्ञान आदि की प्राप्ति निरन्तर होती रहती है ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ पुनरपि तमेव विषयमाह।
हे (सखायः) सुहृदः (वयं यूयं च सूरयः) वयं यूयं च मेधाविनः उपासकाः (तम्) प्रसिद्धम् (पुरूरुचम्) बहुदीप्तिम्, (वाजगन्ध्यम्) वाजस्य आत्मबलस्य गन्ध्यं ग्रहणं यस्मात् तथाविधम् सोमं रसागारं परमेश्वरम्, (अश्याम) प्राप्नुयाम, (वाजपस्त्यम्) वाजस्य विज्ञानस्य पस्त्यं पतनं प्राप्तिर्यस्मात् तादृशम् सोमं शुभगुणकर्मप्रेरकं जगदीश्वरम् (सनेम) संभजेमहि। [वाजपस्त्यं वाजपतनम्। ‘सनेम वाजपस्त्यम्’ इत्यपि निगमो भवति। वाजगन्ध्यं गध्यत्युत्तरपदम्। ‘अश्याम वाजगन्ध्यम्’ इत्यपि निगमो भवति। गध्यं गृह्णातेः। इति निरुक्तम् (५।१५)] ॥२॥
सर्वे सुहृदः संभूय श्रद्धया तरङ्गिताः सन्तः परमात्मानमुपासते चेत् तर्हि तेजोबलविज्ञानादीनां प्राप्तिः सततं जायते ॥२॥