वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: विष्णुः ऋषि: मेधातिथिः काण्वः छन्द: गायत्री स्वर: षड्जः काण्ड:

त꣡द्विप्रा꣢꣯सो विप꣣न्य꣡वो꣢ जागृ꣣वा꣢ꣳसः꣢ स꣡मि꣢न्धते । वि꣢ष्णो꣣र्य꣡त्प꣢र꣣मं꣢ प꣣द꣢म् ॥१६७३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तद्विप्रासो विपन्यवो जागृवाꣳसः समिन्धते । विष्णोर्यत्परमं पदम् ॥१६७३॥

मन्त्र उच्चारण
पद पाठ

त꣢त् । वि꣡प्रा꣢꣯सः । वि । प्रा꣣सः । विपन्य꣡वः꣢ । जा꣣गृवा꣡ꣳसः꣢ । सम् । इ꣣न्धते । वि꣡ष्णोः꣢꣯ । यत् । प꣣रम꣢म् । प꣣द꣢म् ॥१६७३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1673 | (कौथोम) 8 » 2 » 5 » 5 | (रानायाणीय) 18 » 2 » 1 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर उसी विषय का वर्णन है।

पदार्थान्वयभाषाः -

(विपन्यवः) विविध रूप में जगदीश्वर के गुणों की स्तुति करनेवाले, (जागृवांसः) जागरूक (विप्रासः) विप्रजन(यत्) जो (विष्णोः) सर्वव्यापक परमेश्वर का (परमम्) सर्वोत्कृष्ट (पदम्) प्राप्तव्य स्वरूप है, (तत्) उसे(समिन्धते) अपने अन्तरात्मा में भली-भाँति प्रकाशित कर लेते हैं ॥५॥

भावार्थभाषाः -

जो मनुष्य अविद्या, आलस्य, अधर्माचरण रूप नींद को छोड़कर विद्या, धर्म, योगाभ्यास आदि के आचरण में जागरूक हैं, वे ही सच्चिदानन्दस्वरूप, सर्वोत्तम, सर्वव्यापी, सबसे प्राप्त करने योग्य जगदीश्वर को पाने में समर्थ होते हैं ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः स एव विषय उच्यते।

पदार्थान्वयभाषाः -

(विपन्यवः) विविधं जगदीश्वरस्य गुणान् पनायन्ति स्तुवन्ति ये ते।[पण व्यवहारे स्तुतौ च, पन च। बाहुलकादौणादिको युच् प्रत्ययः।] (जागृवांसः) जागरूकाः। [अत्र जागर्तेर्लिटः स्थाने क्वसुः। द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्। अ० ६।१।६ अनेन द्विर्वचनाभावश्च।] (विप्रासः) विपश्चितो जनाः (यत् विष्णोः) सर्वव्यापकस्य परमेश्वरस्य (परमम्) सर्वोत्कृष्टम् (पदम्) प्राप्तव्यं स्वरूपम् अस्ति (तत् समिन्धते) स्वान्तरात्मनि सम्यक् प्रकाशयन्ते ॥५॥२

भावार्थभाषाः -

ये मनुष्या अविद्यालस्याऽधर्माचरणाख्यां निद्रां विहाय विद्याधर्मयोगाभ्यासादिचरणे जागरूकाः सन्ति त एव सच्चिदानन्दस्वरूपं सर्वोत्तमं सर्वव्यापिनं सर्वैः प्राप्तुमर्हं जगदीश्वरं प्राप्तुं शक्नुवन्ति ॥५॥