वांछित मन्त्र चुनें
आर्चिक को चुनें

कि꣡मित्ते꣢꣯ विष्णो परि꣣च꣢क्षि꣣ ना꣢म꣣ प्र꣡ यद्व꣢꣯व꣣क्षे꣡ शि꣢पिवि꣣ष्टो꣡ अ꣢स्मि । मा꣡ वर्पो꣢꣯ अ꣣स्म꣡दप꣢꣯ गूह ए꣣त꣢꣫द्यद꣣न्य꣡रू꣢पः समि꣣थे꣢ ब꣣भू꣡थ꣢ ॥१६२५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

किमित्ते विष्णो परिचक्षि नाम प्र यद्ववक्षे शिपिविष्टो अस्मि । मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ ॥१६२५॥

मन्त्र उच्चारण
पद पाठ

कि꣢म् । इत् । ते꣣ । विष्णो । परिच꣡क्षि꣢ । प꣣रि । च꣡क्षि꣢꣯ । ना꣡म꣢꣯ । प्र । यत् । व꣡वक्षे꣢꣯ । शि꣡पिविष्टः꣢ । शि꣢पि । विष्टः꣢ । अ꣣स्मि । मा꣡ । व꣡र्पः꣢꣯ । अ꣣स्म꣢त् । अ꣡प꣢꣯ । गू꣣हः । एत꣢त् । यत् । अ꣣न्य꣡रू꣢पः । अ꣣न्य꣢ । रू꣣पः । समिथे꣢ । स꣣म् । इथे꣢ । ब꣣भू꣡थ꣢ ॥१६२५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1625 | (कौथोम) 8 » 1 » 4 » 1 | (रानायाणीय) 17 » 1 » 4 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा के स्वरूप का वर्णन है।

पदार्थान्वयभाषाः -

हे (विष्णो) सर्वव्यापक जगदीश्वर ! (किम् इत् ते) क्या यही आपका (परिचक्षि) चारों ओर प्रकाशनीय स्वरूप है (यत्) जो आप (प्र ववक्षे) कहते हो कि मैं (शिपिविष्टः) किरणों से घिरा हुआ अर्थात् तेजस्वी (अस्मि) हूँ ? उससे अतिरिक्त भी आपका स्वरूप है, यह कहते हैं— (एतत् वर्पः) इस रूप को (अस्मत्) हमसे (मा अप गूहः) मत छिपाओ (यत्) कि आप (समिथे) उपासना-यज्ञ में (अन्यरूपः) जगत्प्रपञ्च में अधिष्ठितरूप से भिन्न (बभूथ) होते हो ॥१॥

भावार्थभाषाः -

सूर्य आदि जगत्प्रञ्च में परमात्मा का जो तेजोमय रूप है, वह सबको दृष्टिगोचर होता है, परन्तु उसका जगत्प्रपञ्चातीत जो वास्तविक रूप है, उसका योगी लोग ही साक्षात्कार करते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मस्वरूपमाह।

पदार्थान्वयभाषाः -

हे (विष्णो) सर्वव्यापक जगदीश ! [यो वेवेष्टि व्याप्नोति चराचरं जगत् स विष्णुः।] (किम् इत् ते) किम् एतदेव तव (परिचक्षि) परिख्यापनीयम् (नाम) स्वरूपम् अस्ति, (यत् प्र ववक्षे) प्र ब्रूषे (शिपिविष्टः) रश्मिभिरावृतः, तेजस्वीत्यर्थः (अस्मि) भवामि इति। तदतिरिक्तमपि त्वदीयं स्वरूपं वर्तत इत्याह (एतद्-वर्पः) इदं रूपम्, (अस्मत्) अस्मत्सकाशात् (मा अप गूहः) न संवृणु (यत् समिथे) उपासनायज्ञे। [समिथे इति संग्रामनामसु पठितम्। निघं० २।१७। संग्रामवाचिनः शब्दा यज्ञवाचिनोऽपि दृश्यन्ते।] (अन्यरूपः) जगत्प्रपञ्चाधिष्ठिताद् रूपाद् भिन्नरूपः (बभूथ) भवसि। [तथा चोक्तं पुरुषसूक्ते त्रि॒पादूर्ध्व उदै॒त् पुरु॑षः॒ पादो॑ऽस्ये॒हाभ॑व॒त्पुनः॑ (ऋ० १०।९०।४) इति] ॥२॥ यास्काचार्यो मन्त्रमिममेवं व्याचष्टे—[शिपिविष्टो विष्णुरिति विष्मोर्द्वे नामनी भवतः। कुत्सितार्थीयं पूर्वं भवतीत्यौपमन्यवः। किं ते विष्णोऽप्रख्यातमेतद् भवत्यप्रख्यापनीयं यन्नः प्रब्रूषे शेप इव निर्वेष्टितोऽस्मीत्यप्रतिपन्नरश्मिः। अपि वा प्रशंसानामेवाभिप्रेतं स्यात्। किं ते विष्णो प्रख्यातमेतद् भवति प्रख्यापनीयं यदुत प्रब्रूषे शिविपिष्टोऽस्मीति प्रतिपन्नरश्मिः। शिपयोऽत्र रश्मय उच्यन्ते, तैराविष्टो भवति। मा वर्पो अस्मदपगूह एतत्, वर्प इति रूपनाम, वृणोतीति सतः। यदन्यरूपः समिथे सङ्ग्रामे भवसि संयतरश्मिः। निरु० ५।८] ॥

भावार्थभाषाः -

सूर्यादौ जगत्प्रपञ्चे परमात्मनो यत् तेजोमयं रूपं तत् सर्वेषां दृग्गोचरं जायते, परं तस्य जगत्प्रपञ्चातीतं यद् वास्तवं रूपं तद् योगिन एव साक्षात् कुर्वन्ति ॥१॥