वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: वरुणः ऋषि: शुनःशेप आजीगर्तिः छन्द: गायत्री स्वर: षड्जः काण्ड:

इ꣣मं꣡ मे꣢ वरुण श्रुधी꣣ ह꣡व꣢म꣣द्या꣡ च꣢ मृडय । त्वा꣡म꣢व꣣स्यु꣡रा च꣢꣯के ॥१५८५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युरा चके ॥१५८५॥

मन्त्र उच्चारण
पद पाठ

इ꣣म꣢म् । मे꣣ । वरुण । श्रुधि । ह꣡व꣢꣯म् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । च꣣ । मृडय । त्वा꣢म् । अ꣣वस्युः꣢ । आ । च꣣के ॥१५८५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1585 | (कौथोम) 7 » 3 » 6 » 1 | (रानायाणीय) 16 » 2 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

परमात्मा, राजा और आचार्य से प्रार्थना करते हैं।

पदार्थान्वयभाषाः -

हे (वरुण) दोष-निवारक वरणीय परमात्मन्, राजन् व आचार्य ! (इमं मे हवम्) इस मेरी पुकार को (श्रुधि) सुनो। और (अद्य) आज, मुझे (मृडय च) आनन्दित कर दो। (अवस्युः) आपकी रक्षा का इच्छुक मैं (त्वाम्) आपको (आचके) चाह रहा हूँ ॥१॥

भावार्थभाषाः -

मनुष्यों को चाहिए कि यथायोग्य परमात्मा, राजा और आचार्य से प्रार्थना करके, अपने दोषों का निवारण करके, सद्गुण और सत्कर्मों को स्वीकार करके उन्नति करें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

परमात्मा राजाऽऽचार्यश्च प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (वरुण) दोषनिवारक वरणीय परमात्मन् राजन् आचार्य वा ! (इमं मे हवम्) एतद् मदीयम् आह्वानम् (श्रुधि) शृणु। [शृणोतेः ‘श्रुशृणुपॄकृवृभ्यश्छन्दसि।’ अ० ६।४।१०२ इति हेर्धिरादेशः। संहितायाम् ‘अन्येषामपि दृश्यते’। अ० ६।३।१३७ इति दीर्घः।] (अद्य) अस्मिन् दिने (मृडय च) सुखय च। [संहितायाम् अद्या इत्यत्र ‘निपातस्य च’ अ० ६।३।१३६ इति दीर्घः।] (अवस्युः) त्वद्रक्षणेच्छुः अहम्। [अवः रक्षणम् आत्मनः कामयते इति अवस्युः, क्यचि ‘क्याच्छन्दसि’ अ० ३।२।१७० इति उः प्रत्ययः।] (त्वाम्) परमात्मानं राजानम् आचार्यं वा (आचके) कामये। [आचके इति कान्तिकर्मा। निघं० २।६।] ॥१॥२

भावार्थभाषाः -

मनुष्यैर्यथायोग्यं परमात्मानं राजानमाचार्यं च सम्प्रार्थ्य स्वकीयान् दोषान् निवार्य सद्गुणान् सत्कर्माणि च स्वीकृत्योत्कर्षः सम्पादनीयः ॥१॥