वांछित मन्त्र चुनें
आर्चिक को चुनें

पौ꣣रो꣡ अश्व꣢꣯स्य पुरु꣣कृ꣡द्गवा꣢꣯मस्यु꣡त्सो꣢ देव हि꣣रण्य꣡यः꣢ । न꣢ कि꣣र्हि꣡ दानं꣢꣯ परि꣣म꣡र्धि꣢ष꣣त् त्वे꣢꣫ यद्य꣣द्या꣢मि꣣ त꣡दा भ꣢꣯र ॥१५८०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः । न किर्हि दानं परिमर्धिषत् त्वे यद्यद्यामि तदा भर ॥१५८०॥

मन्त्र उच्चारण
पद पाठ

पौ꣣रः꣢ । अ꣡श्व꣢꣯स्य । पु꣣रुकृ꣢त् । पु꣣रु । कृ꣢त् । ग꣡वा꣢꣯म् । अ꣣सि । उ꣡त्सः꣢꣯ । उत् । सः꣣ । देव । हिरण्य꣡यः꣢ । न । किः꣣ । हि꣢ । दा꣡न꣢꣯म् । प꣣रिम꣡र्धि꣢षत् । प꣣रि । म꣡र्धि꣢꣯षत् । त्वे꣡इति꣢ । य꣡द्य꣢꣯त् । यत् । य꣣त् । या꣡मि꣢꣯ । तत् । आ । भर꣣ ॥१५८०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1580 | (कौथोम) 7 » 3 » 3 » 2 | (रानायाणीय) 16 » 1 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा की स्तुति और उससे प्रार्थना है।

पदार्थान्वयभाषाः -

हे इन्द्र ! हे परमैश्वर्यशाली जगदीश्वर ! आप (अश्वस्य) सूर्य वा प्राण को (पौरः) पूर्ण करनेवाले (गवाम्) सूर्यकिरणों, पृथिवियों, इन्द्रियों वा धेनुओं की (बहुकृत्) बहुतायत करनेवाले (असि) हो। हे (देव) दान आदि गुणों से युक्त ! आप सम्पदाओं के (हिरण्ययः) ज्योतिर्मय (उत्सः) स्रोत हो। (त्वे) आपमें विद्यमान (दानम्) दान के गुण को (न किः हि) कोई भी नहीं (परि मर्धिषत्) नष्ट कर सकता है। इसलिए मैं (यत् यत्) जो-जो (यामि) आपसे माँगता हूँ (तत्) वह (आभर) मुझे प्रदान कर दो ॥२॥

भावार्थभाषाः -

परमात्मा की कृपा से और अपने पुरुषार्थ से मनुष्य सारी दिव्य और लौकिक सम्पदा प्राप्त कर सकता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानं स्तौति प्रार्थयते च।

पदार्थान्वयभाषाः -

हे इन्द्र ! हे परमैश्वर्यशालिन् जगदीश्वर ! त्वम् (अश्वस्य) आदित्यस्य प्राणस्य वा (पौरः) पूरयिता, (गवाम्) सूर्यकिरणानां पृथिवीनाम् इन्द्रियाणां धेनूनां वा (पुरुकृत्) बहुकृत् (असि) विद्यसे। हे (देव) दानादिगुणयुक्त ! त्वं सम्पदाम् (हिरण्ययः) ज्योतिर्मयः (उत्सः) स्रोतः असि। (त्वे) त्वयि विद्यमानम् (दानम्) दानगुणम् (न किः हि) न कश्चिदपि (परि मर्धिषत्) हिंसितुं शक्नोति। अतः, अहम् (यत् यत्) यत् किञ्चिदपि (यामि) याचामि। [यामि इति याच्ञाकर्मसु पठितम्। निघं० ३।१९।] (तत्) तत् सर्वम् (आ भर) मह्यम् आहर ॥२॥

भावार्थभाषाः -

परमात्मनः कृपया स्वपुरुषार्थेन च मनुष्यः सर्वामपि दिव्यां लौकिकीं च सम्पदं प्राप्तुं शक्नोति ॥२॥