अ꣣स्ये꣡दिन्द्रो꣢꣯ वावृधे꣣ वृ꣢ष्ण्य꣣ꣳश꣢वो꣣ म꣡दे꣢ सु꣣त꣢स्य꣣ वि꣡ष्ण꣢वि । अ꣣द्या꣡ तम꣢꣯स्य महि꣣मा꣡न꣢मा꣣य꣡वोऽनु꣢꣯ ष्टुवन्ति पू꣣र्व꣡था꣢ ॥१५७४॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)अस्येदिन्द्रो वावृधे वृष्ण्यꣳशवो मदे सुतस्य विष्णवि । अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥१५७४॥
अ꣣स्य꣡ । इत् । इ꣡न्द्रः꣢꣯ । वा꣣वृधे । वृ꣡ष्ण्य꣢꣯म् । श꣡वः꣢꣯ । म꣡दे꣢꣯ । सु꣣त꣡स्य꣢ । वि꣡ष्ण꣢꣯वि । अ꣡द्य꣢ । अ꣣ । द्य꣢ । तम् । अ꣣स्य । महिमा꣡न꣢म् । आ꣣य꣡वः꣢ । अ꣡नु꣢꣯ । स्तु꣣वन्ति । पूर्व꣡था꣢ ॥१५७४॥
हिन्दी : आचार्य रामनाथ वेदालंकार
आगे फिर गुरु-शिष्य का ही विषय कहते हैं।
(इन्द्रः) विद्या के ऐश्वर्य से युक्त आचार्य (अस्य) इस शिष्य के (वृष्ण्यम्) आत्मिक (शवः) बल को (इत्) निश्चय ही (वावृधे) बढ़ाता है। वह शिष्य (सुतस्य) प्राप्त ज्ञान के (विष्णवि) व्यापक (मदे) आनन्द में वृद्धि को प्राप्त करता है। (अस्य) इस आचार्य की (तम् महिमानम्) उस महिमा की (आयवः) मनुष्य (पूर्वथा) पूर्व की तरह (अद्य) आज भी (अनुष्टुवन्ति) प्रशंसा करते हैं ॥२॥ यहाँ उपमालङ्कार है ॥२॥
आचार्य शिष्य का जो आत्मबल बढ़ाता है वह उस शिष्य की अपूर्व निधि होती है ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ पुनरपि गुरुशिष्यविषयो वर्ण्यते।
(इन्द्रः) विद्यैश्वर्यवान् आचार्यः (अस्य) शिष्यस्य (वृष्ण्यम्) वृषा आत्मा तत्र भवम् (शवः) बलम् (इत्) निश्चयेन (वावृधे) वर्द्धयति। स शिष्यः (सुतस्य) प्राप्तस्य ज्ञानस्य (विष्णवि२) व्यापके (मदे) आनन्दे वर्धते (अस्य) इन्द्रस्य आचार्यस्य (तम् महिमानम्) तत् महत्त्वम् (आयवः) मनुष्याः (पूर्वथा) पूर्वस्मिन् काल इव। [अत्र ‘प्रत्नपूर्व- विश्वेमात्थाल् छन्दसि’ अ० ५।३।१११ इति इवार्थे थाल् प्रत्ययः।] (अद्य) अद्यापि। [संहितायां निपातत्वाद् दीर्घः] (अनुष्टुवन्ति) प्रशंसन्ति ॥२॥३ अत्रोपमालङ्कारः ॥२॥
आचार्यः शिष्यस्य यदात्मबलं वर्द्धयति तत् तस्यापूर्वो निधिः ॥२॥