वि꣣भू꣡ष꣢न्नग्न उ꣣भ꣢या꣣ꣳ अ꣡नु꣢ व्र꣣ता꣢ दू꣣तो꣢ दे꣣वा꣢ना꣣ꣳ र꣡ज꣢सी꣣ स꣡मी꣢यसे । य꣡त्ते꣢ धी꣣ति꣡ꣳ सु꣢म꣣ति꣡मा꣢वृणी꣣म꣡हेऽध꣢꣯ स्म नस्त्रि꣣व꣡रू꣢थः शि꣣वो꣡ भ꣢व ॥१५६९॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)विभूषन्नग्न उभयाꣳ अनु व्रता दूतो देवानाꣳ रजसी समीयसे । यत्ते धीतिꣳ सुमतिमावृणीमहेऽध स्म नस्त्रिवरूथः शिवो भव ॥१५६९॥
विभू꣡ष꣢न् । वि꣣ । भू꣡ष꣢꣯न् । अ꣣ग्ने । उभ꣡या꣢न् । अ꣡नु꣢꣯ । व्र꣣ता꣢ । दू꣣तः꣢ । दे꣣वा꣡ना꣢म् । र꣡ज꣢꣯सी꣣इ꣡ति꣢ । सम् । ई꣣यसे । य꣢त् । ते꣣ । धीति꣢म् । सु꣡मति꣢म् । सु꣣ । मति꣢म् । आ꣣वृणीम꣡हे꣢ । आ꣣ । वृणीम꣡हे꣢ । अ꣡ध꣢꣯ । स्म꣣ । नः । त्रिव꣡रू꣢थः । त्रि꣣ । व꣡रु꣢꣯थः । शि꣣वः꣢ । भ꣣व ॥१५६९॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र में गुण-कर्म-वर्णनपूर्वक परमात्मा से प्रार्थना की गयी है।
हे (अग्ने) जगत् के नायक, सर्वप्रकाशक परमात्मन् ! (उभयान्) पूर्वमन्त्रोक्त विद्वान् योगियों तथा सामान्य मनुष्यों दोनों को (विभूषन्) सद्गुण आदियों से अलङ्कृत करते हुए, (देवानाम्) विद्वानों को (दूतः) धर्म, अर्थ, काम, मोक्ष प्राप्त करानेवाले आप (व्रता अनु) अपने नियमों का अनुसरण करते हुए (रजसी) द्यावापृथिवी को (समीयसे) व्याप्त करते हो। (यत्) क्योंकि (ते) आपकी (धीतिम्) धारणा वा ध्यान को और (सुमतिम्) सुमति को (आ वृणीमहे) हम प्राप्त करते हैं, (अध) इसलिए (त्रिवरुथः) पृथिवी, अन्तरिक्ष, द्यौ, तीनों में घर के समान निवास करनेवाले अथवा आध्यात्मिक, आधिदैविक और आधिभौतिक तीनों दुःखो को दूर करनेवाले आप (नः) हमारे लिए (शिवः) मङ्गलकारी (भव स्म) होओ ॥३॥
ध्यान किया गया परमेश्वर उपासकों को सुख-शान्ति देता है ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ गुणकर्मवर्णनपूर्वकं परमात्मानं प्रार्थयते।
हे (अग्ने) जगन्नेतः सर्वप्रकाशक परमात्मन् ! (उभयान्) द्रव्यान् पूर्वमन्त्रोक्तान्, देवान् मनुष्यान् योगिजनान् सामान्यजनांश्चेत्यर्थः (विभूषन्) सद्गुणादिभिरलङ्कुर्वन्, (देवानाम्) विदुषाम् दूतः धर्मार्थकाममोक्षान् दावयति प्रापयति यः सः त्वम्। [दु गतौ भ्वादिरत्र णिजन्तः।] (व्रता अनु) स्वकीयान् नियमान् अनुसरन् त्वं द्यावापृथिव्यौ (समीयसे) व्याप्नोषि। (यत्) यस्मात् (ते) तव (धीतिम्) धारणां ध्यानं वा, (सुमतिम्) शोभनां मतिम् (आवृणीमहे) वयं संभजामहे, (अध) तस्मात् (त्रिवरूथः) त्रयः पृथिव्यन्तरिक्षद्युलोकाः वरूथानि गृहाणि निवासस्थानानि यस्य सः सर्वव्यापकः इत्यर्थः। [वरूथमिति गृहनाम। निघं० ३।४।] यद्वा त्रयाणाम् आध्यात्मिकाधिदैविकाधिभौतिकदुःखानां वरूथः निवारकः त्वम्। [वृञ् वरणे स्वादिः, वृण् आवरणे चुरादिः ‘जॄवृञ्भ्यामूथन्’ उ० २।६ इति ऊथन् प्रत्ययः।] (नः) अस्मभ्यम् (शिवः) मङ्गलकरः (भव स्म) जायस्व ॥३॥२
ध्यातः परमेश्वर उपासकानां सुखशान्तिप्रदो जायते ॥३॥