वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: गोतमो राहूगणः छन्द: उष्णिक् स्वर: ऋषभः काण्ड:

अ꣢ग्ने꣣ वा꣡ज꣢स्य꣣ गो꣡म꣢त꣣ ई꣡शा꣢नः सहसो यहो । अ꣣स्मे꣡ दे꣢हि जातवेदो꣣ म꣢हि꣣ श्र꣡वः꣢ ॥१५६१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्ने वाजस्य गोमत ईशानः सहसो यहो । अस्मे देहि जातवेदो महि श्रवः ॥१५६१॥

मन्त्र उच्चारण
पद पाठ

अ꣡ग्ने꣢꣯ । वा꣡ज꣢꣯स्य । गो꣡म꣢꣯तः । ई꣡शा꣢꣯नः । स꣣हसः । यहो । अस्मे꣡इति꣢ । दे꣣हि । जातवेदः । जात । वेदः । म꣡हि꣢꣯ । श्र꣡वः꣢꣯ ॥१५६१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1561 | (कौथोम) 7 » 2 » 11 » 1 | (रानायाणीय) 15 » 3 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में ९९ क्रमाङ्क पर परमात्मा, विद्वान् और राजा को सम्बोधित की गयी थी। यहाँ आचार्य से प्रार्थना करते हैं ॥

पदार्थान्वयभाषाः -

हे (अग्ने) छात्रों को उन्नत करनेवाले विद्वान् आचार्यवर ! हे (सहसः यहो) आत्मबल के पुत्र अर्थात् अतिशय आत्मबल से युक्त ! हे (जातवेदः) उत्पन्न पदार्थों के ज्ञाता ! (गोमतः वाजस्य) वेदवाणी से युक्त ऐश्वर्य के (ईशानः) अधीश्वर आप (अस्मे) हमारे लिए (महि श्रवः) महान् शास्त्रज्ञान और उससे उत्पन्न यश (देहि) प्रदान करो ॥१॥

भावार्थभाषाः -

आचार्य के पास से विविध विद्याओं का ज्ञान पाकर शिष्य विद्वान् और कीर्तिमान् बनें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ९९ क्रमाङ्के परमात्मानं विद्वज्जनं राजानं च सम्बोधिता। अत्राचार्यः प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (अग्ने) छात्रोन्नायक विद्वन् आचार्यवर ! हे (सहसः यहो) आत्मबलस्य पुत्र, अतिशयेन आत्मबलयुक्त इत्यर्थः। हे (जातवेदः) उत्पन्नानां पदार्थानां ज्ञातः ! (गोमतः वाजस्य) वेदवाग्युक्तस्य ऐश्वर्यस्य (ईशानः) अधीश्वरः त्वम् (अस्मे) अस्मभ्यम् (महिश्रवः) महत् शास्त्रज्ञानं तज्जन्यं यशश्च (देहि) प्रयच्छ। [श्रूयते इति श्रवः शास्त्रं यशो वा] ॥१॥२

भावार्थभाषाः -

आचार्यसकाशाद् विविधानां विद्यानां ज्ञानं प्राप्य शिष्या विद्वांसः कीर्तिमन्तश्च भवेयुः ॥१॥