वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: बृहद्दिव आथर्वणः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

त꣡दिदा꣢꣯स भु꣡व꣢नेषु꣣ ज्ये꣢ष्ठं꣣ य꣡तो꣢ ज꣣ज्ञ꣢ उ꣣ग्र꣢स्त्वे꣣ष꣡नृ꣢म्णः । स꣣द्यो꣡ ज꣢ज्ञा꣣नो꣡ नि रि꣢꣯णाति꣣ श꣢त्रू꣣न꣢नु꣣ यं꣢꣫ विश्वे꣣ म꣢द꣣न्त्यू꣡माः꣢ ॥१४८३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः । सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः ॥१४८३॥

मन्त्र उच्चारण
पद पाठ

त꣢त् । इत् । आ꣣स । भु꣡व꣢꣯नेषु । ज्ये꣡ष्ठ꣢꣯म् । य꣡तः꣢꣯ । ज꣣ज्ञे꣢ । उ꣣ग्रः꣢ । त्वे꣣ष꣡नृ꣢म्णः । त्वे꣣ष꣢ । नृ꣣म्णः । सद्यः꣢ । स꣣ । द्यः꣢ । ज꣣ज्ञानः꣢ । नि । रि꣣णाति । श꣡त्रू꣢꣯न् । अ꣡नु꣢꣯ । यम् । वि꣡श्वे꣢꣯ । म꣡द꣢꣯न्ति । ऊ꣡माः꣢꣯ ॥१४८३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1483 | (कौथोम) 6 » 3 » 17 » 1 | (रानायाणीय) 13 » 6 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रारम्भ में इन्द्र परमात्मा की महिमा वर्णित करते हैं।

पदार्थान्वयभाषाः -

(तत् इत्) वह ब्रह्म ही (भुवनेषु) सूर्य, नक्षत्र आदि लोकलोकान्तरों में (ज्येष्ठम्) ज्येष्ठ (आस) है, (यतः) जिससे (उग्रः) प्रचण्ड, (त्वेषनृम्णः) प्रदीप्त ज्योतिरूप धनवाला अथवा प्रदीप्त बलवाला सूर्य (शत्रून्) अन्धकार, मलिनता, रोग आदि शत्रुओं को (नि रिणाति) विनष्ट करता है, (यम् अनु) जिसकी अनुकूलता से (विश्वे) सब (ऊमाः) रक्षक पृथिवी, मङ्गल, बुध, चन्द्रमा आदि (मदन्ति) प्रकाश और प्राण को प्राप्त करते हैं ॥१॥

भावार्थभाषाः -

ज्येष्ठ ब्रह्म ही सूर्य, चन्द्र, पृथिवी, मङ्गल, बुध, बृहस्पति, तारामण्डल आदि लोक-लोकान्तरों का निर्माण करके इस ब्रह्माण्ड का सञ्चालन कर रहा है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादाविन्द्रस्य परमात्मनो महिमानं वर्णयति।

पदार्थान्वयभाषाः -

(तत् इत्) तदेव ब्रह्म (भुवनेषु) सूर्यनक्षत्रादिषु लोकलोकान्तरेषु (ज्येष्ठम्) महत्तमम् (आस) अस्ति। [लडर्थे लिट्। अस्तेर्भ्वादेशे लिटि बभूव इति प्राप्ते ‘छन्दस्युभयथा’ अ० ३।४।११७ इति लिट आर्धधातुकसंज्ञाभावे अस्तेर्भ्वादेशो न भवति।] (यतः) यस्मात् (उग्रः) प्रचण्डः (त्वेषनृम्णः) प्रदीप्तज्योतिर्धनः प्रदीप्तबलो वा इन्द्रः सूर्यः (जज्ञे) उत्पन्नः। (सद्यः) क्षिप्रम् (जज्ञानः) उत्पद्यमानः स इन्द्रः सूर्यः (शत्रून्) अन्धकारमालिन्यरोगादीन् रिपून् (नि रिणाति) विनाशयति। [री गतिरेषणयोः क्र्यादिः, ‘प्वादीनां हृस्वः’ अ० ७।३।८० इति ह्रस्वत्वम्।] (यम् अनु) यस्यानुकूल्येन (विश्वे) सर्वे (ऊमाः) रक्षकाः पृथिवीमङ्गलबुधचन्द्रादयः (मदन्ति) हृष्यन्ति, प्रकाशन्ते प्राणं च लभन्ते ॥ [अवते रक्षणार्थाद् ‘अविसिविसिशुषिभ्यः कित्। उ० १।१४४’ इति मन् प्रत्ययः। किच्च। ‘ज्वरत्वर०’ अ० ६।४।२० इत्यादिना वकारोपधयोः स्थाने ऊठ्] ॥१॥२

भावार्थभाषाः -

ज्येष्ठं ब्रह्मैव सूर्यचन्द्रपृथिवीमङ्गलबुधबृहस्पतितारामण्डलादीनि लोकलोकान्तराणि निर्माय ब्रह्माण्डमिदं सञ्चालयति ॥१॥