ए꣡मे꣢नं प्र꣣त्ये꣡त꣢न꣣ सो꣡मे꣢भिः सोम꣣पा꣡त꣢मम् । अ꣡म꣢त्रेभिरृजी꣣षि꣢ण꣣मि꣡न्द्र꣢ꣳ सु꣣ते꣢भि꣣रि꣡न्दु꣢भिः ॥१४४१॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)एमेनं प्रत्येतन सोमेभिः सोमपातमम् । अमत्रेभिरृजीषिणमिन्द्रꣳ सुतेभिरिन्दुभिः ॥१४४१॥
आ । ई꣣म् । एनम् । प्रत्ये꣡त꣢न । प्र꣣ति । ए꣡त꣢꣯न । सो꣡मे꣢꣯भिः । सो꣣मपा꣡त꣢꣯मम् । सो꣣म । पा꣡त꣢꣯मम् । अ꣡म꣢꣯त्रेभिः । ऋ꣣जीषि꣡ण꣢म् । इ꣡न्द्र꣢꣯म् । सु꣣ते꣡भिः꣢ । इ꣡न्दु꣢꣯भिः ॥१४४१॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र में मनुष्यों को परमात्मा की उपासना के लिए प्रेरित किया गया है।
हे मनुष्यो ! तुम (सोमपातमम्) तुम्हारे श्रद्धारस को अतिशय पान करनेवाले (एनम् प्रति) इस परमात्मा के प्रति (ईम्) सब ओर से (सोमेभिः) श्रद्धारसों के साथ (एतन) पहुँचो। (ऋजीषिणम्) सरल धार्मिक जनों के पास पहुँचने का जिसका स्वभाव है, ऐसे (इन्द्रम् प्रति)जगदीश्वर के प्रति (अमत्रेभिः) महान्, (सुतेभिः) अभिषुत किये हुए, (इन्दुभिः) भिगो देनेवाले श्रद्धारसों के साथ (एतन) पहुँचो ॥२॥
परमात्मा के प्रति हार्दिक श्रद्धारस के प्रवाह से मनुष्य का जीवन उज्ज्वल हो जाता है ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ जनान् परमात्मोपासनायै प्रेरयति।
हे मनुष्याः ! यूयम् (सोमपातमम्) युष्माकं श्रद्धारसानाम् अतिशयेन पातारम् (एनं प्रति) एतं परमात्मानं प्रति (ईम्)सर्वतः (सोमेभिः) श्रद्धारसैः सह (एतन) प्राप्नुत। (ऋजीषिणम्) ऋजून् सरलान् धार्मिकान् जनान् ईषितुं गन्तुं शीलं यस्य तम् (इन्द्रम् प्रति) जगदीश्वरम् अभिलक्ष्य (अमत्रेभिः) महद्भिः। [अमत्रोऽमात्रो महान् भवति अभ्यमितो वा। निरु० ६।२३।] (सुतेभिः) अभिषुतैः (इन्दुभिः) आर्द्रीकुर्वद्भिः श्रद्धारसैः (एतन)गच्छत ॥२॥२
परमात्मानं प्रति हार्दिकस्य श्रद्धारसस्य प्रवाहेण मनुष्यस्य जीवनमुज्ज्वलं जायते ॥२॥