उ꣣त꣢ स्व꣣रा꣢जो꣣ अ꣡दि꣢ति꣣र꣡द꣢ब्धस्य व्र꣣त꣢स्य꣣ ये꣢ । म꣣हो꣡ राजा꣢꣯न ईशते ॥१३५३॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)उत स्वराजो अदितिरदब्धस्य व्रतस्य ये । महो राजान ईशते ॥१३५३॥
उ꣣त꣢ । स्व꣣रा꣡जः꣢ । स्व꣣ । रा꣡जः꣢꣯ । अ꣡दि꣢꣯तिः । अ । दि꣣तिः । अ꣡द꣢꣯ब्धस्य । अ । द꣣ब्धस्य । व्रत꣡स्य꣢ । ये । म꣣हः꣢ । रा꣡जा꣢꣯नः । ई꣣शते ॥१३५३॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र में जगन्माता अदिति और विद्वान् जनों का वर्णन है।
(उत) और (स्वराजः) स्वराज्यसम्पन्न उपासक विद्वान् जन तथा (अदितिः) अखण्डनीय जगन्माता, (ये) जो (अदब्धस्य) अटूट (व्रतस्य) संकल्प तथा कर्म के (राजानः) राजा हैं, वे (महः) महान् ऐश्वर्य के (ईशते) स्वामी होते हैं अर्थात् महान् ऐश्वर्य देने की क्षमता रखते हैं ॥३॥
जो लोग परमात्मा की तथा चरित्रवान् विद्वानों की सङ्गति करते, हैं वे परमैश्वर्यवान् हो जाते हैं ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ जगन्माता अदितिः विद्वांसो जनाश्च वर्ण्यन्ते।
(उत) अपि च (स्वराजः) स्वराज्य-संपन्नाः उपासकाः विद्वांसः (अदितिः) अखण्डनीया जगन्माता च (ये अदब्धस्य) अखण्डितस्य (व्रतस्य) संकल्पस्य कर्मणश्च (राजानः) सम्राजः सन्ति ते (महः) महतः ऐश्वर्यस्य (ईशते) ईश्वरा भवन्ति, महदैश्वर्यं प्रदातुं क्षमन्ते इत्यर्थः। [महः इत्यत्र ‘अधीगर्थदयेषां कर्मणि’। अ० २।३।५२ इति कर्मणि षष्ठी] ॥३॥
ये परमात्मनश्चरित्रवतां विदुषां च संगतिं कुर्वन्ति ते परमैश्वर्यवन्तो जायन्ते ॥३॥