अ꣡ल꣢र्षिरातिं वसु꣣दा꣡मुप꣢꣯ स्तुहि भ꣣द्रा꣡ इन्द्र꣢꣯स्य रा꣣त꣡यः꣢ । यो꣡ अ꣢स्य꣣ का꣡मं꣢ विध꣣तो꣡ न रोष꣢꣯ति꣣ म꣡नो꣢ दा꣣ना꣡य꣢ चो꣣द꣡य꣢न् ॥१३२०॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः । यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥१३२०॥
अ꣡ल꣢꣯र्षिरातिम् । अ꣡ल꣢꣯र्षि । रा꣣तिम् । वसुदा꣢म् । व꣣सु । दा꣢म् । उ꣡प꣢꣯ । स्तु꣣हि । भद्राः꣢ । इ꣡न्द्र꣢꣯स्य । रा꣣त꣡यः꣢ । यः । अ꣣स्य । का꣡म꣢꣯म् । वि꣣धतः꣢ । न । रो꣡ष꣢꣯ति । म꣡नः꣢꣯ । दा꣣ना꣡य꣢ । चो꣣द꣡य꣢न् ॥१३२०॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र में मनुष्य को परमात्मोपासना की प्रेरणा दी गयी है।
हे मानव ! तू (अलर्षिरातिम्) शोभास्पद दानवाले, (वसुदाम्) धन के दाता इन्द्रनामक परमैश्वर्यवान् परमात्मा की (उप स्तुहि) समीपता से स्तुति कर। (इन्द्रस्य) परमैश्वर्यशाली परमात्मा की (रातयः) दान-परम्पराएँ (भद्राः) कल्याण करनेवाली होती हैं। (मनः) अपने मन को (दानाय) देने के लिए (चोदयन्) प्रेरित करता हुआ (सः) वह इन्द्र परमात्मा (विधतः) पूजा करनेवाले (अस्य) इस उपासक के (कामम्) मनोरथ को (न रोषति) असफल नहीं करता अर्थात् उसका अभीष्ट उसे देता ही है ॥२॥
जो जिसके हित के लिए होता है, वह उसे जगदीश्वर देता है ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ मनुष्यं परमात्मोपासनाय प्रेरयति।
हे मानव ! त्वम् (अलर्षिरातिम्) शोभास्पददानम्। [अलति शोभते इति अलम्, अल भूषणपर्याप्तिवारणेषु भ्वादिः। अलं शोभां ऋषति गच्छतीति अलर्षिः, ऋषी गतौ तुदादिः। अलर्षिः रातिः यस्य सोऽलर्षिरातिः तम्।] (वसुदाम्) धनस्य दातारम् इन्द्रम् परमैश्वर्यवन्तं परमात्मानम् (उप स्तुहि) उपश्लोकय। (इन्द्रस्य) परमैश्वर्यशालिनः परमात्मनः (रातयः) दानपरम्पराः (भद्राः) कल्याणप्रदाः सन्ति। (मनः) स्वकीयं मानसम् (दानाय) त्यागाय (चोदयन्) प्रेरयन् (सः) इन्द्रः परमात्मा (विधतः) परिचरतः। [विधेम इति परिचरणकर्मसु पठितम्। निघं० ३।५।] (अस्य) उपासकस्य (कामम्) मनोरथम् (न रोषति) न हिनस्ति, तदभीष्टं ददात्येवेत्यर्थः। [रुष हिंसार्थः, भ्वादिः] ॥ अनर्शरातिम् इति ऋग्वेदीयः पाठो यास्काचार्येणैवं व्याख्यातः—[‘अनर्षरातिमनश्लीलदानम्। अश्लीलं पापकम्, अश्रिमद् विषमम्’ इति (निरु० ६।२३)] ॥२॥
यद् यस्य हिताय भवति तत् तस्मै जगदीश्वरो ददाति ॥२॥