प्रो꣢थ꣣द꣢श्वो꣣ न꣡ यव꣢꣯सेऽवि꣣ष्य꣢न्य꣣दा꣢ म꣣हः꣢ सं꣣व꣡र꣢णा꣣द्व्य꣡स्था꣢त् । आ꣡द꣢स्य꣣ वा꣢तो꣣ अ꣡नु꣢ वाति शो꣣चि꣡रध꣢꣯ स्म ते꣣ व्र꣡ज꣢नं कृ꣣ष्ण꣡म꣢स्ति ॥१२२०॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात् । आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति ॥१२२०॥
प्रो꣡थ꣢꣯त् । अ꣡श्वः꣢꣯ । न । य꣡वसे꣢꣯ । अ꣣विष्य꣢न् । य꣣दा꣢ । म꣣हः꣢ । सं꣣व꣡र꣢णात् । स꣣म् । व꣡र꣢꣯णात् । व्य꣡स्था꣢꣯त् । वि꣣ । अ꣡स्था꣢꣯त् । आत् । अ꣣स्य । वा꣡तः꣢꣯ । अ꣡नु꣢꣯ । वा꣣ति । शोचिः꣢ । अ꣡ध꣢꣯ । स्म꣣ । ते । व्र꣡ज꣢꣯नम् । कृ꣣ष्ण꣢म् । अ꣣स्ति ॥१२२०॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र में विद्वान् का विषय है।
(अश्वः न) घोड़ा जैसे (यदा) जब (महः संवरणात्) विशाल घुड़साल से (व्यस्थात्) छूटता है, तब (अविष्यन्) खाना चाहता हुआ (यवसे) घास पाने के हेतु (प्रोथत्) हिनहिनाता है, वैसे ही जो अग्नि अर्थात् विद्वान् स्नातक (यदा) जब (संवरणात्) गुरुकुल के नियन्त्रण से (व्यस्थात्) छूटता है, तब (यवसे) मानव-समाज में (प्रोथत्) पूर्णता लाता है। (आत्) उसके अनन्तर (वातः) समाज का वातावरण (अस्य) इस विद्वान् स्नातक की (शोचिः) दीप्ति के अर्थात् प्रभाव के (अनु वाति) पीछे-पीछे चलता है। आगे प्रत्यक्षरूप में कहते हैं—(अध) उसके बाद, हे विद्वान् स्नातक ! (ते) तेरा (व्रजनम्) चलना-फिरना आदि व्यापार (कृष्णम् अस्ति) आकर्षक हो जाता है ॥२॥ यहाँ श्लिष्टोपमालङ्कार है ॥२॥
जिसका समावर्तन संस्कार हो चुका है, ऐसा विद्वान् स्नातक गुरुकुल से बाहर आकर समाज में विद्या और सच्चरित्र का प्रसार करे ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ विद्वद्विषयमाह।
(अश्वं न) अश्वो यथा (यदा) यस्मिन् काले (महः संवरणात्) महत्याः वाजिशालायाः (व्यस्थात्) विमुक्तो भवति तदा (अविष्यन्) अत्तुमिच्छन्। [अविष्यन्निति अत्तिकर्मसु पठितम्। निघं० २।९।] (यवसे) घासे निमित्ते (प्रोथत्) हेषते। [प्रोथृ पर्याप्तौ, भ्वादिः, लेटि तिपि रूपम्। प्रोथोऽश्वघोणा, तयोत्थाप्यमाने शब्देऽपि प्रोथतिः प्रयुज्यते।]तथैव यः अग्निः विद्वान् स्नातकः (यदा) यस्मिन् काले (संवरणात्) गुरुकुलस्य नियन्त्रणात् (व्यस्थात्) विमुक्तो जायते तदा (अविष्यन्) रक्षणं करिष्यन् (यवसे) मानवसमाजे। [यु मिश्रणामिश्रणयोः। बाहुलकादौणादिकः अस् प्रत्ययः। यूयते परस्परं मिलति यः स यवसः समाजः।] (प्रोथत्) पूर्णतामानयति। [प्रोथृ पर्याप्तौ ‘पर्याप्तिः पूर्णता’ इति क्षीरस्वामी।] (आत्) अनन्तरम् (वासः) समाजस्य वातावरणम् (अस्य) एतस्य अग्नेः विदुषः स्नातकस्य (शोचिः) दीप्तिम्, प्रभावम् (अनु वाति) अनुसरति। अथ प्रत्यक्षकृतमाह—(अध) तदनन्तरम्, हे अग्ने विद्वन् स्नातक ! (ते) तव (व्रजनम्) गमनम्, व्यापारः इति यावत् (कृष्णम् अस्ति) आकर्षकं जायते ॥२॥२
कृतसमावर्तनसंस्कारो विद्वान् स्नातको गुरुकुलाद् बहिरागम्य समाजे विद्यायाः सच्चारित्र्यस्य च प्रसारं कुर्यात् ॥२॥