वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣ग्निं꣡ वो꣢ दे꣣व꣢म꣣ग्नि꣡भिः꣢ स꣣जो꣢षा꣣ य꣡जि꣢ष्ठं दू꣣त꣡म꣢ध्व꣣रे꣡ कृ꣢णुध्वम् । यो꣡ मर्त्ये꣢꣯षु꣣ नि꣡ध्रु꣢विरृ꣣ता꣢वा꣣ त꣡पु꣢र्मूर्धा घृ꣣ता꣡न्नः꣢ पाव꣣कः꣢ ॥१२१९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम् । यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः ॥१२१९॥

मन्त्र उच्चारण
पद पाठ

अ꣡ग्नि꣢म् । वः꣣ । देव꣢म् । अ꣣ग्नि꣡भिः꣢ । स꣣जो꣡षाः꣢ । स꣣ । जो꣣षाः꣢꣯ । य꣡जि꣢꣯ष्ठम् । दू꣣त꣢म् । अ꣣ध्वरे꣢ । कृ꣣णुध्वम् । यः꣢ । म꣡र्त्ये꣢꣯षु । नि꣡ध्रु꣢꣯विः । नि । ध्रु꣣विः । ऋता꣡वा꣢ । त꣡पु꣢꣯र्मूर्धा । त꣡पुः꣢꣯ । मू꣣र्धा । घृ꣡तान्नः꣢ । घृ꣣त꣢ । अ꣣न्नः । पावकः ॥१२१९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1219 | (कौथोम) 5 » 1 » 9 » 1 | (रानायाणीय) 9 » 6 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रारम्भ में पुरोहित के गुणों का वर्णन करते हैं।

पदार्थान्वयभाषाः -

हे मनुष्यो ! जो (अग्निभिः सजोषाः) गार्हपत्य, आहवनीय आदि अग्नियों से प्रीति रखनेवाला अर्थात् उनका ज्ञानी हो, उस (यजिष्ठम्) यज्ञ के अतिशय साधक, (अग्निम्) अग्रगण्य (देवम्) विद्वान् को (वः) तुम लोग (अध्वरे) यज्ञ में (दूतम्) दूत के समान माध्यम अर्थात् पुरोहित (कृणुध्वम्) बनाओ, (यः) जो विद्वान् (मर्त्येषु) मनुष्यों में (निध्रुविः) अत्यन्त स्थिर मतिवाला, (ऋतावा) सत्यनिष्ठ, (तपुर्मूर्धा) परिपक्व मस्तिष्कवाला (घृतान्नः) घी-दूध आदि सात्त्विक पौष्टिक पदार्थ खानेवाला और (पावकः) पवित्रकर्ता हो ॥१॥

भावार्थभाषाः -

सुयोग्य ही किसी मनुष्य को अध्यात्म यज्ञ तथा बाह्य यज्ञ में पुरोहित रूप से वरना चाहिए ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ पुरोहितगुणानाह।

पदार्थान्वयभाषाः -

हे मनुष्याः ! यः (अग्निभिः सजोषाः) गार्हपत्याहवनीयादिभिः अग्निभिः सप्रीतिः अस्ति, तज्ज्ञानवानस्तीति भावः, तम् (यजिष्ठम्) यज्ञस्य साधकतमम्, (अग्निम्) अग्रगण्यम् (देवम्) विद्वांसम् (वः) यूयम् (अध्वरे) यज्ञे (दूतम्) दूतवन्माध्यमम्, पुरोहितमिति भावः, (कृणुध्वम्) कुरुत, (यः) विद्वान् (मर्त्येषु) मनुष्येषु (निध्रुविः) निरतिशयस्थिरमतिः, (ऋतावा) सत्यनिष्ठः। [ऋतं सत्यम्, ततो मत्वर्थे ‘छन्दसीवनिपौ च वक्तव्यौ’ अ० ५।२।१०९ इति वनिप्। ऋतस्यान्तदीर्घश्छान्दसः।] (तपुर्मूर्धा२) परिपक्वमस्तिष्कः, (घृतान्नः) घृतदुग्धादिसात्त्विकपौष्टिकपदार्थ- भोक्ता, (पावकः) पवित्रतासम्पादकश्च विद्यते ॥१॥३

भावार्थभाषाः -

सुयोग्य एव कश्चिज्जनोऽध्यात्मयज्ञे बाह्ययज्ञे च पुरोहितत्वेन वरणीयः ॥१॥

टिप्पणी: १. ऋ० ७।३।१। २. तपुर्मूर्धा तापकं तेजः—इति सा०। तपुः तापनशीलः, मूर्धा प्रधानभूतः—इति वि०। तदुभयं पदकारविरुद्धम्, पदपाठे ‘तपुर्मूर्धा’ इत्यस्य समस्तपदत्वेन स्वीकृतत्वात्। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्युत्पक्षे व्याख्यातवान्।