वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: अत्रिर्भौमः छन्द: अनुष्टुप् स्वर: गान्धारः काण्ड:

य꣡त्ते꣢ दि꣣क्षु꣢ प्र꣣रा꣢ध्यं꣣ म꣢नो꣣ अ꣡स्ति꣢ श्रु꣣तं꣢ बृ꣣ह꣢त् । ते꣡न꣢ दृ꣣ढा꣡ चि꣢दद्रिव꣣ आ꣡ वाजं꣢꣯ दर्षि सा꣣त꣡ये꣢ ॥११७४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यत्ते दिक्षु प्रराध्यं मनो अस्ति श्रुतं बृहत् । तेन दृढा चिदद्रिव आ वाजं दर्षि सातये ॥११७४॥

मन्त्र उच्चारण
पद पाठ

यत् । ते꣣ । दिक्षु꣢ । प्र꣣रा꣡ध्य꣢म् । प्र꣣ । रा꣡ध्य꣢꣯म् । म꣡नः꣢꣯ । अ꣡स्ति꣢꣯ । श्रु꣣त꣢म् । बृ꣣ह꣢त् । ते꣡न꣢꣯ । दृ꣣ढा꣢ । चि꣣त् । अद्रिवः । अ । द्रिवः । आ꣢ । वा꣡ज꣢꣯म् । द꣣र्षि । सात꣡ये꣢ ॥११७४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1174 | (कौथोम) 4 » 2 » 14 » 3 | (रानायाणीय) 8 » 6 » 3 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर वही विषय है।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमात्मन् वा आचार्य ! (यत् ते) जोआपका (प्र राध्यम्) प्रसन्न करने योग्य (बृहत् मनः) विशाल शक्तिवाला मन (दिक्षु) दिशाओं में (श्रुतम्) प्रसिद्ध (अस्ति) है, (तेन) उस मन से, हे (अद्रिवः) अविनष्ट बलवाले ! आप (दृढा चित्) कठिन और दुष्प्राप्य भी (वाजम्) धर्म, विद्या आदि के धन को (सातये) हमें प्राप्त कराने के लिए (आदर्षि) लाओ ॥३॥

भावार्थभाषाः -

परमेश्वर और आचार्य सत्पात्र जनों को धर्ममार्ग की सुशिक्षा देकर, विद्या आदि का दान करके, पुरुषार्थ की प्रेरणा कर परमैश्वर्यवान् बनाते हैं ॥३॥ इस खण्ड में परमात्मा और आचार्य के गुण वर्णित होने से, उनका आह्वान होने से और उनसे प्रार्थना की जाने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति जाननी चाहिए ॥ अष्टम अध्याय में षष्ठ खण्ड समाप्त ॥ अष्टम अध्याय समाप्त ॥ चतुर्थ प्रपाठक में द्वितीय अर्ध समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनस्तमेव विषयमाह।

पदार्थान्वयभाषाः -

हे इन्द्र परमात्मन् आचार्य वा ! (यत् ते) यत् तव (प्रराध्यम्) प्रसादयितुमर्हम् (बृहत् मनः) विपुलशक्तिं मानसम् (दिक्षु) दिशासु (श्रुतम्) प्रसिद्धम् (अस्ति) विद्यते, (तेन) मनसा, हे (अद्रिवः) अविदीर्णबल ! त्वम् (दृढा चित्) कठिनमपि दुष्प्राप्यमपि। [सुपां सुलुक्० अ० ७।१।३९ इति द्वितीयैकवचनस्य आकारादेशः।] (वाजम्) धर्मविद्यादिधनम् (सातये) अस्मासु प्राप्तये (आदर्षि) आनय। [दॄ विदारणे, क्र्यादिः, छान्दसो विकरणस्य लुक्] ॥३॥२

भावार्थभाषाः -

परमेश्वर आचार्यश्च सत्पात्रेभ्यो जनेभ्यो धर्ममार्गं सुशिक्ष्य विद्यादिदानं कृत्वा पुरुषार्थं प्रेरयित्वा तान् परमैश्वर्यवतः कुरुतः ॥३॥ अस्मिन् खण्डे परमात्मन आचार्यस्य च गुणवर्णनात् तदाह्वानात् ततः प्रार्थनाच्चैतत्खण्डस्य पूर्वखण्डेन संगतिर्वेदितव्या ॥ इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्यश्रीमद्गोपाल-रामभगवतीदेवी तनयेन हरिद्वारीयगुरुकुलकाङ्गड़ीविश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्द सरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्ये उत्तरार्चिके चतुर्थः प्रपाठकः समाप्तिमगात् ॥

टिप्पणी: १. ऋ० ५।३९।३, ‘दिक्षु’ इत्यत्र ‘दि॒त्सु’। २. दयानन्दर्षिणा ऋग्भाष्ये मन्त्रोऽयं विद्वत्परो व्याख्यातः।