वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: अत्रिर्भौमः छन्द: अनुष्टुप् स्वर: गान्धारः काण्ड:

य꣡न्मन्य꣢꣯से꣣ व꣡रे꣢ण्य꣣मि꣡न्द्र꣢ द्यु꣣क्षं꣡ तदा भ꣢꣯र । वि꣣द्या꣢म꣣ त꣡स्य꣢ ते व꣣य꣡मकू꣢꣯पारस्य दा꣣व꣡नः꣢ ॥११७३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यन्मन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर । विद्याम तस्य ते वयमकूपारस्य दावनः ॥११७३॥

मन्त्र उच्चारण
पद पाठ

य꣢त् । म꣡न्य꣢꣯से । व꣡रे꣢꣯ण्यम् । इ꣡न्द्र꣢꣯ । द्यु꣣क्ष꣢म् । द्यु꣣ । क्ष꣢म् । तत् । आ । भ꣣र । विद्या꣡म꣢ । त꣡स्य꣢꣯ । ते꣣ । वय꣢म् । अ꣡कू꣢꣯पारस्य । दावनः ॥११७३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1173 | (कौथोम) 4 » 2 » 14 » 2 | (रानायाणीय) 8 » 6 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर परमेश्वर और आचार्य का विषय है।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमैश्वर्यवान् जगदीश्वर वा आचार्य ! (यत्) जिसे, आप (वरेण्यम्) ग्रहण करने योग्य (मन्यसे) मानते हो, (तत्) उस (द्युक्षम्) धर्म और विद्या के प्रकाश के निवासक अपने दान को (आ भर) हमें प्राप्त कराओ। (ते) आपके (अकूपारस्य) जिसका भरना या संग्रह करना बुरा नहीं है, ऐसे (तस्य) उस (दावनः) दान को (वयम्) हम (विद्याम) पा लेवें ॥२॥

भावार्थभाषाः -

परमेश्वर और आचार्य का जो सद्गुण, विद्या, धर्म, सदाचार आदि का दान है, उसे पाकर हम अपने आपको उन्नत करें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः परमेश्वराचार्ययोर्विषयमाह।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमैश्वर्यवन् जगदीश्वर आचार्य वा ! (यत्) यत् त्वम् (वरेण्यम्) वरितुं ग्रहीतुमर्हम् (मन्यसे) जानासि (तत् द्युक्षम्) धर्मविद्याप्रकाशनिवासकं स्वकीयं दानम्। [द्यां प्रकाशं क्षाययति निवासयति यत् तादृशम्।] (आ भर) अस्मान् प्रापय। (ते) तव (अकूपारस्य) अकुत्सितः पारः पूरणं संग्रहः यस्य तादृशस्य (तस्य दावनः) दानस्य।[द्वितीयार्थे षष्ठी।] (वयम्) त्वदुपासकाः (विद्याम)लभेमहि। [‘विद्याम तस्य ते वयमकुपरणस्य दानस्य’इति निरुक्तम्। ४।१८] ॥२॥२

भावार्थभाषाः -

परमेश्वरस्याचार्यस्य च यत् सद्गुणविद्याधर्मसदाचारादिदानमस्ति तत् प्राप्य वयं स्वात्मानमुन्नयेम ॥२॥

टिप्पणी: १. ऋ० ५।३९।२, ‘दा॒वने॑’ इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्वत्पक्षे व्याख्यातवान्।