वांछित मन्त्र चुनें
आर्चिक को चुनें

ना꣡भिं꣢ य꣣ज्ञा꣢ना꣣ꣳ स꣡द꣢नꣳ रयी꣣णां꣢ म꣣हा꣡मा꣢हा꣣व꣢म꣣भि꣡ सं न꣢꣯वन्त । वै꣣श्वानर꣢ꣳ र꣣꣬थ्य꣢꣯मध्व꣣रा꣡णां꣡ य꣣ज्ञ꣡स्य꣢ के꣣तुं꣡ ज꣢नयन्त दे꣣वाः꣢ ॥११४२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

नाभिं यज्ञानाꣳ सदनꣳ रयीणां महामाहावमभि सं नवन्त । वैश्वानरꣳ रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥११४२॥

मन्त्र उच्चारण
पद पाठ

ना꣡भि꣢꣯म् । य꣣ज्ञा꣡ना꣢म् । स꣡द꣢꣯नम् । र꣣यीणा꣢म् । म꣣हा꣢म् । आ꣣हाव꣢म् । आ꣣ । हाव꣢म् । अ꣣भि꣢ । सम् । न꣣वन्त । वैश्वानर꣢म् । वै꣣श्व । नर꣢म् । र꣣थ्य꣢म् । अ꣣ध्वरा꣡णा꣢म् । य꣣ज्ञ꣡स्य꣢ । के꣣तु꣢म् । ज꣣नयन्त । देवाः꣢ ॥११४२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1142 | (कौथोम) 4 » 2 » 3 » 3 | (रानायाणीय) 8 » 3 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः परमात्मा का विषय है।

पदार्थान्वयभाषाः -

(यज्ञानाम्) पूजा-कर्मों के (नाभिम्) केन्द्र, (रयीणाम्) धनों के (सदनम्) सदन, (महाम्) महान् तेजों के (आहावम्) कूप परमात्मा की, लोग (अभि सं नवन्त) चारों ओर भली-भाँति स्तुति करते हैं। (अध्वराणाम्) हिंसारहित व्यवहारों के (रथ्यम्) रथी, (यज्ञस्य) परोपकाररूप यज्ञ के (केतुम्) ध्वज के समान स्थित, (वैश्वानरम्) सबके नेता परमात्मा को (देवाः) विद्वान् उपासक (जनयन्त) अपने अन्तरात्मा में प्रकट करते हैं ॥३॥

भावार्थभाषाः -

विविध गुणों के भण्डार जगदीश्वर की पूजा करके योगाभ्यास द्वारा उसका साक्षात्कार अपने अन्तरात्मा में सबको करना चाहिए ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः परमात्मविषयमाह।

पदार्थान्वयभाषाः -

(यज्ञानाम्) पूजाकर्मणाम् (नाभिम्) केन्द्रम्, (रयीणाम्) धनानाम् (सदनम्) गृहम्, (महाम्) महतां तेजसाम् (आहावम्) निपानभूतम् परमात्मानं, जनाः (अभि सं नवन्त) अभि सं स्तुवन्ति। (अध्वराणाम्) हिंसारहितानां व्यवहाराणाम् (रथ्यम्) रथिनम्, (यज्ञस्य) परोपकारयज्ञस्य (केतुम्२) ध्वजमिव स्थितम् (वैश्वानरम्) विश्वेषां नेतारं परमात्मानम् (देवाः३) विद्वांसः उपासकाः (जनयन्त) स्वान्तरात्मनि प्रकटयन्ति ॥३॥४

भावार्थभाषाः -

विविधगुणागारं जगदीश्वरं सम्पूज्य योगाभ्यासेन तत्साक्षात्कारः स्वान्तरात्मनि सर्वैः कर्तव्यः ॥३॥

टिप्पणी: १. ऋ० ६।७।२। २. केतुम् प्रज्ञापकम्—इति सा०। ध्वजम्—इति वि०। ३. देवाः स्तोतार ऋत्विजो देवा एव वा—इति सा०। दानवन्त ऋत्विजः—इति वि०। ४. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं भौतिकाग्निविषये व्याख्यातः।