वांछित मन्त्र चुनें
आर्चिक को चुनें

प्र꣡ सो अ꣢꣯ग्ने꣣ त꣢वो꣣ति꣡भिः꣢ सु꣣वी꣡रा꣢भिस्तरति꣣ वा꣡ज꣢कर्मभिः । य꣢स्य꣣ त्व꣢ꣳ स꣣ख्य꣡मावि꣢꣯थ ॥१०८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः । यस्य त्वꣳ सख्यमाविथ ॥१०८॥

मन्त्र उच्चारण
पद पाठ

प्र꣢ । सः । अ꣣ग्ने । त꣡व꣢꣯ । ऊ꣣ति꣡भिः꣢ । सु꣣वी꣡रा꣢भिः । सु꣣ । वी꣡रा꣢꣯भिः । त꣣रति । वा꣡ज꣢꣯कर्मभिः । वा꣡ज꣢꣯ । क꣣र्मभिः । य꣣स्य꣢꣯ । त्वम् । स꣣ख्य꣢म् । स꣣ । ख्य꣢म् । आ꣡वि꣢꣯थ ॥१०८॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 108 | (कौथोम) 2 » 1 » 2 » 2 | (रानायाणीय) 1 » 12 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में इसका वर्णन है कि परमात्मा की मैत्री से क्या लाभ होता है।

पदार्थान्वयभाषाः -

हे (अग्ने) प्रकाशमय, प्रकाशदाता परमात्मन् ! (सः) वह मनुष्य (सुवीराभिः) उत्कृष्ट वीर भावों वा वीर पुत्रों को प्राप्त करानेवाली, (वाजकर्मभिः) बल एवं उत्साह को उत्पन्न करनेवाली (तव) आपकी (ऊतिभिः) रक्षाओं के द्वारा (प्र तरति) भली-भाँति विघ्नों को या भवसागर को पार कर जाता है, (यस्य) जिस मनुष्य की (त्वम्) आप (सख्यम्) मैत्री को (आविथ) प्राप्त हो जाते हो ॥२॥

भावार्थभाषाः -

परमात्मा जिसका सखा हो जाता है उस पुरुषार्थी को काम, क्रोध आदि वा ठग, लुटेरा, चोर आदि कोई भी शत्रु पीड़ित नहीं कर सकता ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनः सख्येन को लाभ इति वर्णयति।

पदार्थान्वयभाषाः -

हे (अग्ने) ज्योतिर्मय ज्योतिष्प्रद परमात्मन् ! (सः) जनः (सुवीराभिः२) उत्कृष्टानां वीराणां वीरभावानां वीरपुत्राणां वा प्रापयित्रीभिः। शोभना वीरा याभिस्ताः सुवीराः ताभिः। बहुव्रीहौ वीरवीर्यौ च।’ अ० ६।२।१२० इति वीरशब्दः आद्युदात्तः। (वाजकर्मभिः) बलोत्साहकारिणीभिः। वाज इति बलनाम। निघं० २।९। वाजः कर्म कार्यं यासां ताभिः, बलकारणभूताभिः। वाजशब्दो घञन्तत्वात् ञित्स्वरेणाद्युदात्तः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः। (तव) त्वदीयाभिः (ऊतिभिः) रक्षाभिः (प्र तरति) प्रकर्षेण विघ्नान् संतरति, भवसागरं संतरति वा, (यस्य) जनस्य (त्वम्) जगदीश्वरः (सख्यम्) मैत्रीम् (आविथ) प्राप्नोषि। अव रक्षणगत्यादिषु। अत्र गत्यर्थः। गतिश्च प्राप्तिरूपा। लडर्थे लिट्। संहितायां सो अग्ने इत्यत्र प्रकृत्यान्तः पादमव्यपरे।’ अ० ६।१।११५ इति प्रकृतिभावः ॥२॥

भावार्थभाषाः -

परमात्मा यस्य सखा जायते तं पुरुषार्थिनं कामक्रोधादिर्वा वञ्चकलुण्ठकचौरादिर्वा कोऽपि शत्रुः पीडयितुं न शक्नोति ॥२॥

टिप्पणी: १. ऋ० ८।१९।३० तरति, वाजकर्मभिः, सख्यमाविथ इत्यत्र क्रमेण तिरते, वाजभर्मभिः, सख्यमावरः इति पाठः। ऋषिः सोभरिः काण्वः। २. सुवीराभिः शोभनपुत्रपौत्रप्रदाभिः—इति भ०।