वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: कश्यपो मारीचः छन्द: गायत्री स्वर: षड्जः काण्ड:

तं꣢ त्वा꣣ वि꣡प्रा꣢ वचो꣣वि꣢दः꣣ प꣡रि꣢ष्कृण्वन्ति धर्ण꣣सि꣢म् । सं꣡ त्वा꣢ मृजन्त्या꣣य꣡वः꣢ ॥१०७७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तं त्वा विप्रा वचोविदः परिष्कृण्वन्ति धर्णसिम् । सं त्वा मृजन्त्यायवः ॥१०७७॥

मन्त्र उच्चारण
पद पाठ

तम् । त्वा꣣ । वि꣡प्राः꣢꣯ । वि । प्राः꣣ । वचो । वि꣡दः꣢ । व꣣चः । वि꣡दः꣢꣯ । प꣡रि꣢꣯ । कृ꣣ण्वन्ति । धर्णसि꣢म् । सम् । त्वा꣣ । मृजन्ति । आय꣡वः꣢ ॥१०७७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1077 | (कौथोम) 4 » 1 » 11 » 2 | (रानायाणीय) 7 » 4 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर गुरु-शिष्य का ही विषय है।

पदार्थान्वयभाषाः -

हे शिष्य ! (धर्णसिम्) विद्या का ग्रहण करनेवाले, (तं त्वा) गुरुकुल में प्रविष्ट हुए उस तुझको (वचोविदः) सम्पूर्ण वाङ्ग्मय के ज्ञानी (विप्राः) ब्राह्मण गुरुजन (परिष्कृण्वन्ति) परिष्कृत करते हैं, (आयवः) क्रियाशील आचार्य लोग (त्वा) तुझे (सं मृजन्ति) भली-भाँति शुद्ध करते एवं सद्गुणों से अलङ्कृत करते हैं ॥२॥

भावार्थभाषाः -

गुरुओं का यह कर्तव्य है कि वे विद्या और सदाचार के दान से शिष्यों के हृदयों को परिष्कृत, शुद्ध और अलङ्कृत करें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि गुरुशिष्यविषयमेवाह।

पदार्थान्वयभाषाः -

हे शिष्य ! (धर्णसिम्) विद्याया ग्रहीतारम्, (तं त्वा) गुरुकुलं प्रविष्टं तादृशं त्वाम् (वचोविदः) निखिलवाङ्मयस्य वेत्तारः (विप्राः) ब्राह्मणा गुरुजनाः (परिष्कृण्वन्ति) परिष्कुर्वन्ति, (आयवः) क्रियाशीलाः आचार्याः [यन्ति क्रियातत्परास्तिष्ठन्तीति आयवः। इण् गतौ धातोः ‘छन्दसीणः’ उ० १।२ इत्यनेन उण् प्रत्ययः।] (त्वा) त्वाम् (सं मृजन्ति) सम्यक् शोधयन्ति, सद्गुणैः सम्यगलङ्कुर्वन्ति च ॥२॥

भावार्थभाषाः -

गुरूणामिदं कर्त्तव्यं यत्ते विद्यायाः सदाचारस्य च दानेन शिष्याणां हृदयानि परिष्कृतानि शुद्धान्यलङ्कृतानि च कुर्वन्तु ॥२॥

टिप्पणी: १. ऋ० ९।६४।२३, ‘धर्णसिम्’ इत्यत्र ‘वे॒धसः॑’।