वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: त्रय ऋषयः छन्द: जगती स्वर: निषादः काण्ड:

अ꣣भि꣡क्रन्द꣢न्क꣣ल꣡शं꣢ वा꣣꣬ज्य꣢꣯र्षति꣣ प꣡ति꣢र्दि꣣वः꣢ श꣣त꣡धा꣢रो विचक्ष꣣णः꣢ । ह꣡रि꣢र्मि꣣त्र꣢स्य꣣ स꣡द꣢नेषु सीदति मर्मृजा꣣नो꣡ऽवि꣢भिः꣣ सि꣡न्धु꣢भि꣣र्वृ꣡षा꣢ ॥१०३२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः । हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा ॥१०३२॥

मन्त्र उच्चारण
पद पाठ

अ꣣भिक्र꣡न्द꣢न् । अ꣣भि । क्र꣡न्द꣢꣯न् । क꣣ल꣡श꣢म् । वा꣡जी꣢ । अ꣣र्षति । प꣡तिः꣢꣯ । दि꣣वः꣢ । श꣡त꣢धा꣢रः । श꣣त꣢ । धा꣣रः । विचक्षणः꣣ । वि꣢ । चक्षणः꣢ । ह꣡रिः꣢꣯ । मि꣣त्र꣡स्य꣢ । मि꣢ । त्र꣡स्य꣢꣯ । स꣡द꣢꣯नेषु । सी꣣दति । मर्मृजानः꣢ । अ꣡वि꣢꣯भिः । सि꣡न्धु꣢꣯भिः । वृ꣡षा꣢꣯ ॥१०३२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1032 | (कौथोम) 4 » 1 » 1 » 2 | (रानायाणीय) 7 » 1 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में वर्षक बादल और परमात्मा का वर्णन है।

पदार्थान्वयभाषाः -

प्रथम—बादल के पक्ष में। (वाजी) बलवान् सोम अर्थात् वर्षा करनेवाला बादल (अभिक्रन्दन्) गर्जता हुआ, वर्षाजल द्वारा (कलशम्) भूमण्डलरूप कलश में (अर्षति) जाता है। वह (दिवः पतिः) अन्तरिक्ष का अधिपति, (शतधारः) बहुत धारोंवाला और (विचक्षणः) कार्यकुशल है। (हरिः) जलों को जहाँ-तहाँ ले जानेवाला वह (मित्रस्य) सूर्य के (सदनेषु) स्थिति-स्थान पर्वत आदियों में (सीदति) जाता है। साथ ही (वृषा) वर्षा करनेवाला वह (अविभिः) वेगगामिनी (सिन्धुभिः) नदियों के द्वारा (मर्मृजानः) भूमि के भागों को अतिशय शुद्ध करता है ॥ द्वितीय—परमात्मा के पक्ष में। (वाजी) बलवान् सोम अर्थात् आनन्दवर्षक परमात्मा (अभिक्रन्दन्) उपदेश देता हुआ, (कलशम्) आत्मा रूप कलश में (अर्षति) जाता है। वह (दिवः पतिः) जीवात्मा का पालनकर्ता, (शतधारः) आनन्द की सैकड़ों धाराओं को बहानेवाला और (विचक्षणः) विशेष द्रष्टा है। (हरिः) पापों का हर्ता वह (मित्रस्य) अपने सखा जीवात्मा के (सदनेषु) अन्नमय-प्राणमय-मनोमय आदि कोशों में (सीदति) स्थित होता है। साथ ही, (वृषा) सुख बरसानेवाला वह (अविभिः) रक्षा करनेवाली (सिन्धुभिः) आनन्दरस की नदियों से (मर्मृजानः) उपासक के अन्तःकरण को शुद्ध करता है ॥२॥ यहाँ श्लेषालङ्कार है ॥२॥

भावार्थभाषाः -

बादल की जल-वर्षा से पृथिवी के समान परमात्मा की आनन्दवर्षा से योगसाधक की मनोभूमि सरस और निर्मल हो जाती है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ वर्षकं पर्जन्यं परमात्मानं च वर्णयति।

पदार्थान्वयभाषाः -

प्रथमः—पर्जन्यपरः। (वाजी) बलवान् सोमः वर्षकः पर्जन्यः (अभिक्रन्दन्) स्तनयन्, वृष्टिजलेन (कलशम्) भूमण्डलरूपं घटम् (अर्षति) गच्छति। सः (दिवः पतिः) अन्तरिक्षस्य अधिपतिः, (शतधारः) बहुधारः (विचक्षणः) कार्यकुशलश्च वर्तते। (हरिः) उदकानां यत्र तत्र हर्ता सः (मित्रस्य) सूर्यस्य (सदनेषु) स्थितिस्थानेषु पर्वतादिषु (सीदति) गच्छति। किञ्च (वृषा) वर्षकः सः (अविभिः) गन्त्रीभिः, वेगगामिनीभिः। [अवतिर्गत्यर्थः।] (सिन्धुभिः) नदीभिः (मर्मृजानः) अतिशयेन भूभागान् शोधयन् भवति ॥ द्वितीयः—परमात्मपरः (वाजी) बलवान् (सोमः) आनन्दवर्षकः परमात्मा (अभिक्रन्दन्) उपदिशन् (कलशम्) आत्मरूपं घटम् (अर्षति) गच्छति। सः (दिवः पतिः) जीवात्मनः पालयिता, (शतधारः) आनन्दस्य बह्वीनां धाराणां प्रवाहकः, (विचक्षणः) विशेषेण द्रष्टा च वर्तते। (हरिः) पापहर्ता सः (मित्रस्य) सख्युः जीवात्मनः (सदनेषु) अन्नमयप्राणमयमनोमयादिकोशेषु (सीदति) आस्ते। किञ्च (वृषा) सुखवर्षकः सः (अविभिः) रक्षिकाभिः (सिन्धुभिः) आनन्दरसतरङ्गिणीभिः (मर्मृजानः) उपासकस्यान्तःकरणं शोधयन् भवति ॥२॥ अत्र श्लेषालङ्कारः ॥२॥

भावार्थभाषाः -

पर्जन्यस्य जलवृष्ट्या पृथिवीव परमात्मन आनन्दरसवृष्ट्या योगसाधकस्य मनोभूमिः सरसा निर्मला च जायते ॥२॥

टिप्पणी: १. ऋ० ९।८६।११, ऋषिः सिकता निवावरी।