वांछित मन्त्र चुनें

सं त्री प॒वित्रा॒ वित॑तान्ये॒ष्यन्वेकं॑ धावसि पू॒यमा॑नः । असि॒ भगो॒ असि॑ दा॒त्रस्य॑ दा॒तासि॑ म॒घवा॑ म॒घव॑द्भ्य इन्दो ॥

अंग्रेज़ी लिप्यंतरण

saṁ trī pavitrā vitatāny eṣy anv ekaṁ dhāvasi pūyamānaḥ | asi bhago asi dātrasya dātāsi maghavā maghavadbhya indo ||

पद पाठ

सम् । त्री । प॒अवित्रा॑ । विऽत॑तानि । ए॒षि॒ । अनु॑ । एक॑म् । धा॒व॒सि॒ । पू॒यमा॑नः । असि॑ । भगः॑ । असि॑ । दा॒त्रस्य॑ । दा॒ता । असि॑ । म॒घऽवा॑ । म॒घव॑त्ऽभ्यः । इ॒न्दो॒ इति॑ ॥ ९.९७.५५

ऋग्वेद » मण्डल:9» सूक्त:97» मन्त्र:55 | अष्टक:7» अध्याय:4» वर्ग:21» मन्त्र:5 | मण्डल:9» अनुवाक:6» मन्त्र:55


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे प्रकाशस्वरूप परमात्मन् ! आप (त्री) तीन (विततानि) विस्तृत (पवित्रा) पवित्र पदार्थों को (सम्) भली प्रकार (एषि) प्राप्त हैं और (पूयमानः) सबको पवित्र करते हुए (अन्वेकम्) प्रत्येक पदार्थ में (धावसि) गतिरूप से विराजमान हैं (भगः) आप ऐश्वर्य्यस्वरूप (असि) हैं, (दात्रस्य) धन के (दाता) देनेवाले (असि) हैं, क्योंकि आप (मघवद्भ्यः) सम्पूर्ण धनिकों से (मघवा) धनी हैं ॥५५॥
भावार्थभाषाः - परमात्मा सब ऐश्वर्य्यों का स्वामी है और सब धनिकों से धनी है, इसलिये उसी की कृपा से सब ऐश्वर्यों की प्राप्ति होती है, अन्यथा नहीं ॥५५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे प्रकाशस्वरूप परमात्मन् ! भवान् (त्री) त्रीन् (विततानि, पवित्रा) विस्तृतपदार्थान् (सं, एषि) सम्यक् प्राप्तः (पूयमानः) भवान् पावयंश्च (अनु, एकं) प्रतिपदार्थं (धावसि) गतिरूपेण विराजते च (भगः, असि) ऐश्वर्य्यरूपश्चास्ति (दात्रस्य) धनस्य (दाता, असि) दातापि अस्ति यतो भवान् (मघवद्भ्यः) सर्वधनिकेभ्यः (मघवा) धनिकतमोऽस्ति ॥५५॥