वांछित मन्त्र चुनें

दि॒व्यः सु॑प॒र्णोऽव॑ चक्षि सोम॒ पिन्व॒न्धारा॒: कर्म॑णा दे॒ववी॑तौ । एन्दो॑ विश क॒लशं॑ सोम॒धानं॒ क्रन्द॑न्निहि॒ सूर्य॒स्योप॑ र॒श्मिम् ॥

अंग्रेज़ी लिप्यंतरण

divyaḥ suparṇo va cakṣi soma pinvan dhārāḥ karmaṇā devavītau | endo viśa kalaśaṁ somadhānaṁ krandann ihi sūryasyopa raśmim ||

पद पाठ

दि॒व्यः । सु॒ऽप॒र्णः । अव॑ । च॒क्षि॒ । सो॒म॒ । पिन्व॑न् । धाराः॑ । कर्म॑णा । दे॒वऽवी॑तौ । आ । इ॒न्दो॒ इति॑ । वि॒श॒ । क॒लश॑म् । सो॒म॒ऽधान॑म् । क्रन्द॑न् । इ॒हि॒ । सूर्य॑स्य । उप॑ । र॒श्मिम् ॥ ९.९७.३३

ऋग्वेद » मण्डल:9» सूक्त:97» मन्त्र:33 | अष्टक:7» अध्याय:4» वर्ग:17» मन्त्र:3 | मण्डल:9» अनुवाक:6» मन्त्र:33


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन् ! आप (दिव्यः) दिव्यस्वरूप हैं (सुपर्णः) चेतन हैं (अवचक्षि) आप हमको सदुपदेश करें, (सोम) हे सोम ! (देववीतौ) देवताओं के यज्ञ में (कर्मणा) रक्षा से (पिन्वन्) पुष्ट करते हुए आप (धाराः) अपनी कृपामयी वृष्टि से पुष्ट करें, (इन्दो) हे प्रकाशस्वरूप परमात्मन् ! आप (सोमधानम्) सोमगुण के धारण करनेवाले (कलशम्) अन्तःकरण को (विश) प्रवेश करें और (सूर्यस्य रश्मिम्) ज्ञान की रश्मियों का (क्रन्दन्) उपदेश करते हुए (उप, एहि) आकर प्राप्त हों ॥३३॥
भावार्थभाषाः - इस मन्त्र में परमात्मा के स्वरूप का वर्णन किया है कि परमात्मा स्वतः ज्ञानस्वरूप है अर्थात् स्वतःप्रकाश है ॥३३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन् ! भवान् (दिव्यः) दिव्यस्वरूपः (सुपर्णः) चेतनः (अव, चक्षि) मां साधूपदिशतु (सोम) हे सौम्य ! (देववीतौ) देवानां यज्ञे (कर्मणा, पिन्वन्) साधुरक्षया पोषयन् (धाराः) स्वकृपादृष्ट्या पोषयतु (इन्दो) हे प्रकाशस्वरूप ! भवान् (सोमधानं) सौम्यगुणानां धारकः (कलशं, विश) अन्तःकरणं प्रविशतु (सूर्यस्य, रश्मिं) ज्ञानकरान् (क्रन्दन्) उपदिशन् (उप, एहि) प्राप्नोतु ॥३३॥