वांछित मन्त्र चुनें

दे॒वा॒व्यो॑ नः परिषि॒च्यमा॑ना॒: क्षयं॑ सु॒वीरं॑ धन्वन्त॒ सोमा॑: । आ॒य॒ज्यव॑: सुम॒तिं वि॒श्ववा॑रा॒ होता॑रो॒ न दि॑वि॒यजो॑ म॒न्द्रत॑माः ॥

अंग्रेज़ी लिप्यंतरण

devāvyo naḥ pariṣicyamānāḥ kṣayaṁ suvīraṁ dhanvantu somāḥ | āyajyavaḥ sumatiṁ viśvavārā hotāro na diviyajo mandratamāḥ ||

पद पाठ

दे॒वऽअ॒व्यः॑ । नः॒ । प॒रि॒ऽसि॒च्यमा॑नाः । क्षय॑म् । सु॒ऽवीर॑म् । ध॒न्व॒न्तु॒ । सोमाः॑ । आ॒ऽय॒ज्यवः॑ । सु॒ऽम॒तिम् । वि॒श्वऽवा॑राः । होता॑रः । न । दि॒वि॒ऽयजः॑ । म॒न्द्रऽत॑माः ॥ ९.९७.२६

ऋग्वेद » मण्डल:9» सूक्त:97» मन्त्र:26 | अष्टक:7» अध्याय:4» वर्ग:16» मन्त्र:1 | मण्डल:9» अनुवाक:6» मन्त्र:26


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (देवाव्यः) विद्वानों को ज्ञान द्वारा तृप्त करनेवाला परमात्मा और (आयज्यवः) यजनशील (विश्ववाराः) सबका उपास्यदेव (होतारः) होताओं के (न) समान (दिवियजः) द्युलोक में सूर्य्यादि अग्निपुञ्जों के द्वारा यज्ञ करनेवाला (मन्द्रतमाः) आनन्दस्वरूप, उक्तगुणसम्पन्न परमात्मा (परिषिच्यमानाः) उपासना किया हुआ (सोमाः) सौम्यस्वरूपभाव परमात्मा (सुवीरम्) सुवीर सन्तान और (क्षयम्) निवासस्थान (धन्वन्तु) दे। यहाँ बहुवचन आदर के लिये है ॥२६॥
भावार्थभाषाः - सुसम्पत्ति तथा सुन्दर सन्तान एकमात्र पुण्य कर्म्मों से प्राप्त होती है, इसलिये पुण्यात्मा बनकर पुण्यों का सञ्चय करना चाहिये ॥२६॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (देवाव्यः) ज्ञानद्वारेण विदुषां तर्पकः परमात्मा (आयज्यवः) यजनशीलः (विश्ववाराः) सर्वैर्वरणीयः (होतारः, न) होतार इव (दिवियजः) द्युलोके सूर्यादिदिव्यतेजसा यज्ञकर्ता (मन्द्रतमाः) आनन्दस्वरूपः (परिषिच्यमानाः) स परमात्मा उपासितः सन् (सोमाः) सौम्यस्वभावो भवन् (सुवीरं) सुवीरसन्तानं (क्षयं) निवासस्थानं च (धन्वन्तु) ददातु ॥२६॥