वांछित मन्त्र चुनें

अजी॑त॒येऽह॑तये पवस्व स्व॒स्तये॑ स॒र्वता॑तये बृह॒ते । तदु॑शन्ति॒ विश्व॑ इ॒मे सखा॑य॒स्तद॒हं व॑श्मि पवमान सोम ॥

अंग्रेज़ी लिप्यंतरण

ajītaye hataye pavasva svastaye sarvatātaye bṛhate | tad uśanti viśva ime sakhāyas tad ahaṁ vaśmi pavamāna soma ||

पद पाठ

अजी॑तये । अह॑तये । प॒व॒स्व॒ । स्व॒स्तये॑ । स॒र्वऽता॑तये । बृ॒ह॒ते । तत् । उ॒श॒न्ति॒ । विश्वे॑ । इ॒मे । सखा॑यः । तत् । अ॒हम् । व॒श्मि॒ । प॒व॒मा॒न॒ । सो॒म॒ ॥ ९.९६.४

ऋग्वेद » मण्डल:9» सूक्त:96» मन्त्र:4 | अष्टक:7» अध्याय:4» वर्ग:6» मन्त्र:4 | मण्डल:9» अनुवाक:5» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे सर्वोत्पादक ! (पवमान) हे सबको पवित्र करनेवाले परमात्मन् ! (अजीतये) हम किसी से जीते न जायें, (अहतये) किसी से मारे न जायें, (पवस्व) इस बात के लिये आप हमको पवित्र बनायें और (स्वस्तये) मङ्गल के लिये (बृहते, सर्वतातये) सर्वोपरि बृहत् यज्ञ के लिये (तदुशन्ति) इसी पद की कामना (इमे विश्वे) ये सब (सखायः) मित्रगण करते हैं। (तत्) इसीलिये (अहम्) मैं (वश्मि) यही कामना करता हूँ। इसीलिये हे परमात्मन् ! आप हमको उक्त प्रकार का ऐश्वर्य्य दें, क्योंकि आप इस ब्रह्माण्ड के उत्पत्तिकर्ता हैं ॥४॥
भावार्थभाषाः - जो लोग परमात्मा की आज्ञाओं का पालन करते हैं, वे किसी से दबाये व दीन नहीं किये जा सकते ॥४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे सर्वोत्पादक ! (पवमान) सर्वपावक ! (अजीतये) अहं न केनापि पराजितः स्याम् (अहतये) अहतो भवेयम् (पवस्व) एतदर्थं मां पवित्रय (स्वस्तये) मङ्गलाय (बृहते, सर्वतातये) बृहद्यज्ञाय च (तत्, उशन्ति) एतद्विषयिकां कामनां (इमे, विश्वे) इमे सर्वे (सखायः) मित्राणि कुर्वन्ति (तत्) तस्मात् (अहं, वश्मि) अहमेतत्कामये, अतः हे परमात्मन् ! भवान् मह्यमुक्तैश्वर्यं ददातु, यतो भवानस्य ब्रह्माण्डस्योत्पादकः ॥४॥