वांछित मन्त्र चुनें

ऋषि॑मना॒ य ऋ॑षि॒कृत्स्व॒र्षाः स॒हस्र॑णीथः पद॒वीः क॑वी॒नाम् । तृ॒तीयं॒ धाम॑ महि॒षः सिषा॑स॒न्त्सोमो॑ वि॒राज॒मनु॑ राजति॒ ष्टुप् ॥

अंग्रेज़ी लिप्यंतरण

ṛṣimanā ya ṛṣikṛt svarṣāḥ sahasraṇīthaḥ padavīḥ kavīnām | tṛtīyaṁ dhāma mahiṣaḥ siṣāsan somo virājam anu rājati ṣṭup ||

पद पाठ

ऋषि॑ऽमनाः । यः । ऋ॒षि॒ऽकृत् । स्वः॒ऽसाः । स॒हस्र॑ऽनीथः । प॒द॒ऽवीः । क॒वी॒नाम् । तृ॒तीय॑म् । धाम॑ । म॒हि॒षः । सिसा॑सन् । सोमः॑ । वि॒ऽराज॑म् । अनु॑ । रा॒ज॒ति॒ । स्तुप् ॥ ९.९६.१८

ऋग्वेद » मण्डल:9» सूक्त:96» मन्त्र:18 | अष्टक:7» अध्याय:4» वर्ग:9» मन्त्र:3 | मण्डल:9» अनुवाक:5» मन्त्र:18


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोमः) सोमस्वरूप परमात्मा (सिषासन्) पालन की इच्छा करता हुआ (महिषः) जो महान् है, वह परमात्मा (तृतीयं, धाम) देवयान और पितृयान इन दोनों से पृथक् तीसरा जो मुक्तिधाम है, उसमें (विराजम्) विराजमान जो ज्ञानयोगी है, उसको (अनु, राजति) प्रकाश करनेवाला है और (स्तुप्) स्तूयमान है। (कवीनाम्, पदवीः) जो क्रान्तदर्शियों की पदवी अर्थात् मुख्य स्थान है और (सहस्रनीथः) अनन्त प्रकार से स्तवनीय है। (ऋषिमनाः) सर्वज्ञान के साधनरूप मनवाला वह परमात्मा (यः) जो (ऋषिकृत्) सब ज्ञानों का प्रदाता (स्वर्षाः) सूर्य्यादिकों का प्रकाशक है, वह जिज्ञासु के लिये उपासनीय है ॥१८॥
भावार्थभाषाः - परमात्मा सब लोक-लोकान्तरों का नियन्ता है तथा मुक्तिधाम में विराजमान पुरुषों का भी नियन्ता है ॥१८॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोमः) सोमस्वरूपः परमात्मा (सिषासन्) पालनेच्छां कुर्वन् (महिषः) सर्वपूज्यः (तृतीयं, धाम) देवयानपितृयानाभ्यां पृथक् तृतीये मुक्तिधाम्नि (विराजं) विराजन्तं ज्ञानयोगिनं (अनु, राजति) प्रकाशयति (स्तुप्) स्तूयमानश्चास्ति (कवीनां, पदवीः) क्रान्तदर्शिनां कवीनां मुख्यस्थानं चास्ति (सहस्रनीथः) सहस्रधा स्तवनीयः (ऋषिमनाः) सर्वज्ञानसाधनमनोयुक्तः सः (ऋषिकृत्) ज्ञानप्रदः (स्वर्षाः) सूर्यादिकानामपि प्रकाशकः। स एव जिज्ञासुभिः उपास्यः ॥१८॥