वांछित मन्त्र चुनें

अ॒ञ्जते॒ व्य॑ञ्जते॒ सम॑ञ्जते॒ क्रतुं॑ रिहन्ति॒ मधु॑ना॒भ्य॑ञ्जते । सिन्धो॑रुच्छ्वा॒से प॒तय॑न्तमु॒क्षणं॑ हिरण्यपा॒वाः प॒शुमा॑सु गृभ्णते ॥

अंग्रेज़ी लिप्यंतरण

añjate vy añjate sam añjate kratuṁ rihanti madhunābhy añjate | sindhor ucchvāse patayantam ukṣaṇaṁ hiraṇyapāvāḥ paśum āsu gṛbhṇate ||

पद पाठ

अ॒ञ्जते॑ । वि । अ॒ञ्ज॒ते॒ । सम् । अ॒ञ्ज॒ते॒ । क्रतु॑म् । रि॒ह॒न्ति॒ । मधु॑ना । अ॒भि । अ॒ञ्ज॒ते॒ । सिन्धोः॑ । उत्ऽश्वा॒से । प॒तय॑न्तम् । उ॒क्षण॑म् । हि॒र॒ण्य॒ऽपा॒वाः । प॒शुम् । आ॒सु॒ । गृ॒भ्ण॒ते॒ ॥ ९.८६.४३

ऋग्वेद » मण्डल:9» सूक्त:86» मन्त्र:43 | अष्टक:7» अध्याय:3» वर्ग:20» मन्त्र:3 | मण्डल:9» अनुवाक:5» मन्त्र:43


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अञ्जते) उक्त परमात्मा अपने ज्ञान द्वारा गति का हेतु है और (व्यञ्जते) पूर्वकृत कर्मों के द्वारा जीवों के विविध प्रकार के जन्मों का हेतु है तथा (समञ्जते) स्वयं न्यायशील होकर गति का हेतु है, इसलिये सम्यग्गति करानेवाला कथन किया गया और (क्रतुं) यज्ञरूप परमात्मा को (रिहन्ति) उपासक लोग ग्रहण करते हैं। जो परमात्मा (मधुना) अपने आनन्द से (अभ्यञ्जते) सर्वत्र प्रगट है और (सिन्धोरुच्छ्वासे) जो सिन्धु की उच्च लहरों में (पतयन्तं) गिरा हुआ मनुष्य है (उक्षणं) और बलस्वरूप है (हिरण्यपावाः) और सदसद्विवेकी है और (पशुं) जो ज्ञानदृष्टि से देखता है “पशुः पश्यतेः” इति निरुक्तम् ३।१६  उक्त पुरुष को परमात्मा (आसु) अपने आर्द्रभाव से अर्थात् कृपादृष्टि से (गृभ्णते) ग्रहण करता है ॥४३॥
भावार्थभाषाः - परमात्मा पतितोद्धारक है। जो पुरुष अपने मन्द कर्मों से गिरकर भी उद्योगी बना रहता है, परमात्मा उसका अवश्यमेव उद्धार करता है ॥४३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अञ्जते) उक्तपरमात्मा निजज्ञानेन गतिहेतुरपि च (व्यञ्जते) पूर्वकृतकर्म्मभिः जीवानां विविधजन्मनां कारणं तथा (सं, अञ्जते) स्वयं न्यायशीलो भूत्वा गमनहेतुश्चास्ति। अतः सम्यग्गतिकारकः (क्रतुं) यज्ञरूपञ्च परमात्मानं (रिहन्ति) उपासका गृह्णन्ति। यः परमात्मा (मधुना) निजानन्देन (अभि, अञ्जते) सर्वत्र प्रकटोऽस्ति। अन्यच्च (सिन्धोः, उच्छ्वासे) यः सिन्धोरुच्चतरङ्गेषु (पतयन्तं) पतितः (उक्षणं) अपि च बलस्वरूपः (हिरण्यपावाः) सदसद्विवेकी (पशुं) अन्यच्च यो ज्ञानदृष्ट्या पश्यति, तमुक्तपुरुषं परमात्मा (आसु) निजार्द्रभावेन अर्थात् कृपादृष्ट्या (गृभ्णते) गृह्णाति ॥४३॥