वांछित मन्त्र चुनें

सो अग्रे॒ अह्नां॒ हरि॑र्हर्य॒तो मद॒: प्र चेत॑सा चेतयत॒त अनु॒ द्युभि॑: । द्वा जना॑ या॒तय॑न्न॒न्तरी॑यते॒ नरा॑ च॒ शंसं॒ दैव्यं॑ च ध॒र्तरि॑ ॥

अंग्रेज़ी लिप्यंतरण

so agre ahnāṁ harir haryato madaḥ pra cetasā cetayate anu dyubhiḥ | dvā janā yātayann antar īyate narā ca śaṁsaṁ daivyaṁ ca dhartari ||

पद पाठ

सः । अग्रे॑ । अह्ना॑म् । हरिः॑ । ह॒र्य॒तः । मदः॑ । प्र । चेत॑सा । चे॒त॒य॒ते॒ । अनु॑ । द्युऽभिः॑ । द्वा । जना॑ । या॒तय॑न् । अ॒न्तः । ई॒य॒ते॒ । नरा॒ऽशंस॑म् । च॒ । दैव्य॑म् । च॒ । ध॒र्तरि॑ ॥ ९.८६.४२

ऋग्वेद » मण्डल:9» सूक्त:86» मन्त्र:42 | अष्टक:7» अध्याय:3» वर्ग:20» मन्त्र:2 | मण्डल:9» अनुवाक:5» मन्त्र:42


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सः सोमः) उक्त गुणसम्पन्न परमात्मा (अह्नामग्रे) इस दिन-रात से पहले (हर्य्यतो हरिः) हरण करनेवाली शक्तियों का हरण करनेवाला था। (मदः) आनन्दस्वरूप था और (अनु द्युभिः) द्युभ्वादि लोकों को  (चेतसा) अपनी चैतन्यरूप शक्ति से (प्रचेतयते) गतिशील करनेवाला था (द्वा जना) कर्मयोगी और ज्ञानयोगी दोनों पुरुषों को (यातयन्) वेदविधि से प्रेरणा करके (अन्तरीयते) इस द्युलोक और पृथिवीलोक के मध्य में गतिशील है (च) और (नरा) उक्त दोनों पुरुषों को (शंसं) प्रशंसनीय (दैव्यं) दिव्य (च) और (धर्तरि) धारणा विषय में सर्वोपरि बनाता है ॥४२॥
भावार्थभाषाः - वह परमात्मा इस प्रकृति की नानाविध शक्तियों को संयोजन करता हुआ कर्मयोगी और ज्ञानयोगी दोनों प्रकार के पुरुषों को प्रशंसनीय बनाता है ॥४२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सः, सोमः) उक्तगुणसम्पन्नः परमात्मा (अह्नां, अग्रे) अस्मादहर्दिवात्प्राक् (हर्य्यतः, हरिः) हारकशक्तीनां हरणकारकः। (मदः) आनन्दस्वरूपः (अनु, द्युभिः) द्युभ्वादिलोकानां (चेतसा) निजचैतन्यरूपशक्त्या (प्र, चेतयते) गतिशीलकारकश्चासीत्। (द्वा, जना) कर्मयोगिनां ज्ञानयोगिनाञ्च (यातयन्) वेदविधिना प्रेरणां कृत्वा (अन्तः, ईयते) अस्य द्युलोकस्यापि च। पृथिवीलोकस्य मध्ये गतिशीलोऽस्ति। (च) पुनः (नरा) उक्तपुरुषद्वयं (शंसं) प्रशंसनीयं (दैव्यं) दिव्यं च (धर्तरि) धारणविषये सर्वोपरि निर्ममे ॥४२॥